________________
२७-२८]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१५७
तद् अयुक्तम्, सम्यक् सिद्धान्तापरिज्ञानात्, अवैक्रियाणामपि तेषां खभावत एव चेष्टोपपत्तेः । यदाह भगवान् श्रीहरिभद्रसूरिरनुयोगद्वारटीकायाम्
बोकाइया चउव्विहा - सुहुमा पज्जत्ता अपज्जत्ता, बादरा वि य पज्जता अपज्जता । तत्थ तिनि रासी पत्तेयं असंखेज्जलोगप्पमाणप्पएसरासिपमाणमित्ता, जे पुण बादरा पज्जत्ता ते पयरासंखेज्जइभागमित्ता । तत्थ ताव तिप्हं रासीणं वेउबियलद्धी चेव नत्थि । बायरपज्जत्ताणं पि असंखिज्जइभागमित्ताणं लद्धी अस्थि । जेसि पि लद्धी अत्थि ते वि पलि ओवमासंखिज्जभागसमयमित्ता संपयं पुच्छासमए वेउबियवत्तिणो । तथा जेण सबेसु चेवं उडलोगाइसु चला वायवो विनंति तम्हा अवेविया वि वाया वायंति त्ति घित्वं । सभावो तेसिं वाइयवं । ( पत्र ९२, अनु० चू० पत्र ६७ ) इति ।
1
।
वानाद्वायुरिति कृत्वा “तिण्हं रासीणं" ति त्रयाणां राशीनां पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरवायुकायिकानाम् । तथा त एव पूर्वोक्ताः पञ्च कार्मणौदारिकद्विकवैक्रियद्विकलक्षणयोगाः चरमाचतुर्थी असत्यामृषरूपा वाग् वचनयोगश्चरमवाक् तया युक्ताः षड् योगा भवन्ति । क ? इत्याह‘असंज्ञिनि’ संज्ञिव्यतिरिक्ते जीवे । तत्र कार्मणमपान्तरालगतावुत्पत्तिप्रथमसमये च, औदारिकमिश्रमपर्याप्तावस्थायाम्, पर्याप्तावस्थायामौदारिकम् । बादरपर्याप्तवायुकायिकानां वैक्रियद्विकम्, चरमभाषा शङ्खादिद्वीन्द्रियादीनामिति । त एव पूर्वोक्ताः षड् योगा वैक्रियद्विकेन - वैक्रियवैक्रियमिश्रलक्षणेन ऊना:- हीनाश्चत्वारो भवन्ति । क ? इत्याह- 'विकलेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु । कोऽर्थः : तत्र कार्मणौदारिकद्विकभावना प्राग्वत् । चरमभाषा च असत्यामृषरूपा शङ्खादीनां भवति, शेषास्तु भाषा न भवन्त्येव “ विगैलेसु असच्चामोसे वा” इति वचनादिति ॥ २७ ॥ कम्मुरलमीस विणु मण, वह समइय छेय चक्खु मणनाणे । उरलदुग कम्म पढमंतिम मणवह केवलदुगम्मि ॥ २८ ॥ कार्मणमौदारिक मिश्रं विना शेषास्त्रयोदश योगा भवन्ति । क्क : इत्याह--मनोयोगे वाग्योगे सामायिकसंयमे छेदोपस्थापनसंयमे चक्षुर्दर्शने मनः पर्यायज्ञाने । भावना सुकरैव । यौ तु कार्मदारिकमश्र तौ तेषु सर्वथा न सम्भवत एव, तयोरपर्याप्तावस्थायां भावात् मनोयोगवाम्योगसामायिकच्छेदोपस्थापनचक्षुर्दर्शनमनः पर्यायज्ञानानां च तस्यामवस्थायामसम्भवात् । तथा "उरदुग" त्ति औदारिकद्विकमौदारिकौदारिकमिश्रकार्मणकाययोगौ [ मिश्रकाययोगौ ] सयोग्यवस्थायामेव समुद्घातगतस्य वेदितव्यौ [ "कम्म" ति कार्मणकाययोगः ]
१ वायुकायिकाश्चतुर्विधाः -- सूक्ष्माः पर्याप्ताः १ अपर्याप्ताः २, बादरा अपि च पर्याप्ताः ३ अपर्याप्ताः ४ ग तत्र यो राशयः प्रत्येकं असङ्ख्येयलोकप्रमाणप्रदेशराशिप्रमाणमात्राः, ये पुनर्बादराः पर्याप्तास्ते प्रतरासङ्ख्यातभागमात्राः । तत्र तावत् त्रयाणां राशीनां वैक्रियलब्धिरेव नास्ति । बादरपर्याप्तानामपि असङ्ख्यातभागमात्राणां लब्धिरस्ति । येषामपि लब्धिरस्ति तेऽपि पत्योपमासङ्ख्येयभागसमयमात्राः साम्प्रतं पृच्छासमये वैकुर्विकवर्त्तिनः । तथा येन सर्वेष्वेव ऊर्ध्वलोकादिषु चला वायवो विद्यन्ते तस्मादवैकुर्विका अपि वाता वान्तीति प्रहीतव्यम् । स्वभावस्तेषां वातव्यम् । २ °व लोगा° ख० अनुयोगद्वारलघुटीकायाम् । 'व लोगागासाइ° अनुयोगद्वार चूर्णो ॥ ३ विकलेषु असत्यामृषा वा ॥ ४ इतऊर्द्धम् -- "केवलद्विके' केवलज्ञानकेवलदर्शनरूपे सप्त योगाः । के ते ? इत्याह--' इत्येवंरूपः पाठो यदि स्थात्तदा सङ्गतिमेति ॥ ५ दारिकमिश्रकार्म क० ख० ० ० ङ० ॥