________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [ माथा कोना भवन्ति । आहारकद्विकं पुनरेतेष्वज्ञानत्वादेव दूरापास्तम् । तथा औपशमिकसम्यक्त्वे आहारकद्विकोनास्त्रयोदश योगाः, आहारकं त्वत्रापि न घटामियर्ति, यत औपशमिकसम्यक्त्वं प्रथमसम्यक्त्वोत्पादकाले उपशमश्रेण्यारोहे वा भवति । न च प्रथमसम्यक्त्वोत्पादकाले चतुर्दशपूर्वाधिगमसम्भवः, तदभावाच कथमाहारकद्विकभावः प्रादुर्भावपदवीमियति ? । उपशमश्रेण्यारूढस्त्वाहारकं नारभत एव, तस्याऽप्रमत्तत्वात् , आहारकारम्भकस्य तु लब्ध्युपजीवनेन औत्सुक्यभावतः प्रमादबहुलत्वात् । उक्तं च
आहारगं तु पमत्तो उप्पाएइ न अप्पमत्तो इति । आहारकस्थितश्चोपशमश्रेणिं नारभत एव, तथाखभावत्वादिति । तथा अभव्ये मिथ्यात्वे व चतुर्दशपूर्वाधिगमाभावादेव आहारकद्विकवर्जास्त्रयोदश योगाः । त एव पूर्वोक्तास्त्रयोदश योगा
औदारिकद्विकेन-औदारिकौदारिकमिश्रलक्षणेन ऊनाः-हीना एकादश योगाः 'सुरे' सुरगतौ 'नरके' नरकगतौ भवन्ति । तथाहि-मनोवाग्योगचतुष्टयवैक्रियवैक्रियमिश्रकार्मणलक्षणा एकादश योगाः सुरेषु नारकेषु च घटन्ते । तत्र कार्मणमपान्तरालगतावुत्पत्तिप्रथमसमय एव, वैक्रियमिश्रमपर्याप्तावस्थायाम् , पर्याप्तावस्थायां तु वैक्रियं मनोवाग्योगचतुष्टयं च । यत् पुनरौदारिकद्विकं तद् भवप्रत्ययादेव देवनारकाणां न सम्भवति । आहारकद्विकं तु सुरनारकाणां भवखभावतया विरत्यभावेन सर्वविरतिप्रत्ययचतुर्दशपूर्वाधिगमासम्भवादेव दुरापास्तमिति ॥ २६ ॥
कम्मुरलदुर्ग थावरि, ते सविउव्विदुग पंच इगि पवणे ।
छ असन्नि चरमवइजुय, ते विउविदुगूण चउ विगले ॥२७॥ कार्मणम् 'औदारिकद्विकम्' औदारिकौदारिकमिश्रलक्षणमिति त्रयो योगाः । क ? इत्याह"थावरि" ति स्थावरकाये-पृथिव्यप्तेजोवनस्पतिकायरूपे, वायुकायिकस्य पृथग् भणिष्यमाणत्वात् । अयमत्र भावः--स्थावरचतुष्के कार्मणौदारिकद्विकरूपास्त्रयो योगा भवन्ति । तत्र कार्मणमपान्तरालगतावुत्पत्तिप्रथमसमये वा, औदारिकमिश्रं तु अपर्याप्तावस्थायाम् , पर्याप्तावस्थायां पुनरौदारिकमिति । 'ते' पूर्वोक्तास्त्रयो योगाः 'सवैक्रियद्विकाः' सह वैक्रियद्विकेन-वैक्रियवैक्रियमिश्रलक्षणेन वर्तन्त इति सवैक्रियद्विकाः सन्तः पश्च भवन्ति । क ? इत्याह---"इगि" त्ति सामान्यत एकेन्द्रिये 'पवने' वायुकाये च । तत्र कार्मणीदारिकद्विकलक्षणयोगत्रयभावना प्राग्वत् । वैक्रियद्विकभावना त्वेवम्-इह किल चतुर्विधा वायवो वान्ति । तद्यथा--सूक्ष्मा अपर्याप्ताः १ सूक्ष्माः पर्याप्ताः २ बादरा अपर्याप्ताः ३ बादराः पर्याप्ताश्च ४ । तत्र बादरपर्यातानां केषाञ्चिद् वैक्रियलब्धिसम्भवोऽस्ति तानधिकृत्य वैक्रियमिश्रं वैक्रियं च लभ्यते ।
ननु कथमुच्यते केषाञ्चिद् वैक्रियलब्धिसम्भवोऽस्ति ? यावता सर्वेऽपि बादरपर्याप्तवायवः सवैक्रिया एव, अवैक्रियाणां चेष्टाया एवाप्रवृत्तेः । उक्तं च___ केई भणंति-सवे वेठबिया वाया वायंति, अवेउधियाणं चिट्ठा चेव न पवत्तइ ।
(अनु० चू० पत्र ६७, अनु० हा० टी० पत्र ९२ ) इति । १ आहारकं तु प्रमस उत्पादयति नाप्रमत्तः ॥ २ केचिद् भणन्ति–सर्वे वैकुर्विका वाता वान्ति, अवैकियाणां चेष्टेव न प्रवर्तते ॥ ३ °याणं वाणं चे अनुयोगद्वारचूर्णिलघुटीकयोः॥