________________
२५-२६]
वडशीतिनामा चतुर्थः कर्मबन्धः ।
१५५
गृहीता एव ततो द्वितीयादिसमयेष्विव तदानीमप्यौदारिकमिश्रकामयोग इति, तदेतद् अयुकम्, सम्बम्बस्तुतस्त्वापरिज्ञानात्, यतो यद्यपि तदानीमौदारिकादिषु पुतला गृधमाणा गृहीता एव तथापि न तेषां गृह्यमाणानां स्वग्रहणक्रियां प्रति करणरूपता येन तनिबन्धनो योगः परिकरूप्येत, किन्तु कर्मरूपतैव निष्पन्नरूपस्य सत उत्तरकालं करणभावदर्शनात् । नहि घटः स्वनिष्पादनक्रियां प्रति कर्मरूपतां करणरूपतां च प्रतिपद्यमानो दृश्यते, द्वितीयादिसमवेषु पुनस्तेषामपि प्रथमसमयगृहीतानामन्यपुद्गलोपादानं प्रति करणभावो न विरुध्यते निष्पन्नत्वात् ; अतस्तदानीमौदारिकमिश्रकाययोग उपपद्यत एव । अत एवोक्तम् - " तेण परं मीसेणं" इति । तस्माद् अस्त्याहारकस्याप्युत्पत्तिप्रथमसमये कार्मणकाययोग इति । अतः "जोगा अकम्मगाहारगेसु" इति पदं चिन्त्यमस्तीति ॥ २५ ॥
तिरि इत्थि अजय सासण, अनाण उबसम अभव्य मिच्छेतु । तेराहारदुगूणा, ते उरलदुगूण सुरनरए || २६ ॥
" तिरि” ति तिर्यग्गतौ 'स्त्रियां' स्त्रीवेदे 'अयते' विरतिहीने साखादनसम्यक्त्वे "अनाण" ति अज्ञानत्रिके-मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणे 'उपशमे' औपशमिकसम्यक्त्वे 'अभव्येषु' सिद्धिगमनानुचितेषु 'मिथ्यात्वे' मिध्यादृष्टिषु त्रयोदश योगा भवन्ति । के ? इत्याह- आहारकद्विकेन - आहारकाहारकमिश्रलक्षणेन ऊना:- - हीना आहारकद्विकोनाः । अयमत्राशयः - मनोयोगचतुष्टयवाग्योगचतुष्टयौदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्रकार्मणलक्षणा योगा भवन्ति । तत्र कार्मणमपान्तरालगतौ उत्पत्तिप्रथमसमय एव, औदारिकमिश्रमपर्याप्तावस्थायाम्, पर्याप्तावस्थायामौदारिकं मनोवाग्योगचतुष्टयं च । तथा तिरश्चामपि केषाञ्चिद् वैक्रियलब्धियोगतो वैक्रियमिश्रं वैक्रियं च घटत एव । यत्तु आहारकद्विकम् - आहारकाहारकमिश्रलक्षणं तद् न सम्भवत्येव, तिरब्धां तत्र सर्वविरत्यसम्भवात् ; सर्वविरतस्य हि चतुर्दशपूर्ववेदिन आहारकद्विकं सम्भवति, “आहारं चउदसपुव्विणो” इत्यादिवचनप्रामाण्यादिति । तथा इह स्त्रीवेदो द्रव्यरूपो द्रष्टव्यः, न तु तथारूपाध्यवसायलक्षणो भावरूपः, तथाविवक्षणात् । एवमुपयोगमार्गणायामपि द्रष्टव्यम् । प्राक् च गुणस्थानकमार्गणायां सर्वोऽपि वेदो भावस्वरूपो गृहीतः, तथाविवक्षणादेव, अन्यथा तेषु प्रोक्तगुणस्थानकसङ्ख्यायोगात् ; सयोगिकेवल्यादावपि द्रव्यवेदस्य भावात्, द्रव्यवेदश्च बालमाकारमात्रम् । ततः स्त्रीषु त्रयोदश योगा आहारकद्विकोना भवन्ति, न पुनराहारकद्विकमपि, यस आहारकद्विकं चतुर्दशपूर्वविद एव भवति, “आहारकदुगं जायइ चउदसपुब्विणो" इति बचनात् । न च स्त्रीणां चतुर्दशपूर्वाधिगमोऽस्ति, स्त्रीणामागमे दृष्टिवादाध्ययनप्रतिषेधात् । यदाह भाष्यसुधासुधांशु:
तुच्छा गारवबहुला, चलिंदिया दुब्बला धिईए य ।
इय अइसेसज्झयणा, भूयावादो य नो श्रीणं ॥ (विशेषा० गा० ५५२ ) इति । 'भूतवाद : ' दृष्टिवादः । तथा अयते साखादने अज्ञानत्रिके च त्रयोदश योगा आहारकद्वि
१ पूर्ववत् ॥ २ आहारकं चतुर्दशपूर्विणः ॥ ३ आहारकद्विकं जायते चतुर्दशपूर्विषः ॥ ४ तुच्छा गौरवबहुलाश्वलेन्द्रिया दुर्बला धृत्या च । इति अतिशायीन्यध्ययनानि भूतवादश्व न स्त्रीणाम् ॥