________________
१५४ देवेन्द्रसूरिविरक्तिखोपशटीकोपेतः
[गाया म खस्वामूलमुच्छिन्ने भवप्रपञ्चपरोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावसम्भवः । ___ इदं च कार्मणशरीर जन्तोगत्यन्तरसकान्तौ साधकतमं करणम् । तथाहि-कार्मणेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमुपसर्पति ।।
ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं सङ्कामति तर्हि गच्छन् कस्मात् नोपलक्ष्यते ? [उच्यते---] कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात् । आह च प्रज्ञाकरगुप्तोऽपि
अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलक्ष्यते।
निष्क्रामन् प्रविशन् वाऽपि, नाभावोऽनीक्षणादपि ॥ कार्मणमेव कायस्तेन योगः कार्मणकाययोगः ७ । "इय जोग" ति 'इतिः' परिसमाप्तौ । ततोऽयमर्थ:---एत एव योगा नान्य इति ।
ननु तैजसमपि शरीरं विद्यते, यद् भुक्ताहारपरिणमनहेतुर्यद्वशाद् विशिष्टतपोविशेषसमुत्थलब्धिविशेषस्य पुरुषस्य तेजोलेश्याविनिर्गमः, तत् कभमुच्यते एत एव योगा नान्ये ? इति, नैष दोषः, सदा कार्मणेन सहाऽन्यभिचारितया तैजसस्य तद्रहणेनैव गृहीतत्वादिति ।
निरूपिताः स्वरूपतो योगाः । साम्प्रतमेतानेव मार्गणास्थानेषु निरूपयन्नाह---"कम्ममणहारि" ति व्यवच्छेदफलं हि वाक्यम्, अतोऽवश्यमवधारयितव्यम् । तथावधारणमिहैवम्कार्मणमेवेकमनाहारके न शेषयोगाः, असम्भवादिति । न पुनरेवम्-कार्मणमनाहारकेष्वेवेति, आहारकेष्वपि उत्पत्तिप्रथमसमये कार्मणयोगसम्भवात् , “जोरण कम्मएम, आहारेई अणंतरं जीवो।" इति परममुनिवचनप्रामाण्यात् । नापि कार्मणमनाहारकेषु भवत्येव' इत्यवधारणमाधेयम् , अयोगिकेवल्यवस्थायामनाहारकस्यापि कार्मणकाययोगाभावात् , “गेयजोगो उ अजोगी" इति वचनात् । एवमन्यत्रापि यथासम्भवमवधारणविधिरनुसरणीय इति ॥ २४ ॥
नरगह पणिदि तस तणु, अचक्खु नर नषु कसाय सम्मदुगे।
सनि छलेसाहारग, भव्य मह सुओहिदुगि सब्वे ॥२५॥ 'नरगतौ मनुप्यगतौ पञ्चेन्द्रिये से त्रसकाये तनुयोगे अचक्षुर्दर्शने 'नरे' नरवेदे पुंवेद इत्यर्थः “नपु" ति नपुंसकवेदे 'कषायेषु' क्रोधमानमायालोभेषु 'सम्यक्त्वद्विके' क्षायोपशमिक क्षायिकलक्षणे 'संज्ञिनि' मनोविज्ञानभाजि षट्खपि लेश्यासु आहारके भव्ये 'मती' मतिज्ञाने 'श्रुते श्रुतज्ञाने 'अवधिद्विके' अवधिज्ञानाऽवधिदर्शनरूपे 'सर्वे' पञ्चदशापि योगा भवन्ति, एतेषु सर्वेष्वपि मार्गणास्थानेषु यथासम्भवं सर्वयोगप्राप्तेः । यत्तु कापि "जोगा अकम्मगाहारगेसु" इति पदं दृश्यते तद् न सम्यगवगम्यते, यत ऋजुगतौ विग्रहगतौ चोत्पत्तिप्रथमसमये
जोएण कम्मएणं, आहारेई अणंतरं जीवो ।
तेण परं मीसेणं, जाव सरीरस्स निष्फत्ती ॥ इति सकलश्रुतघरमवरपरममुनिवचनप्रामाण्याद् आहारकस्यापि सतः कार्मणकाययोगोऽस्त्येव । अथ उच्येत गृह्यमाणं गृहीतमिति निश्चयनयवशात् प्रथमसमयेऽप्यौदारिकपुद्गला गृहमाणा १ योगेन कामणेनाहारयत्यनन्तरं जीवः ॥ २ गतयोगस्वयोगी ॥ ३ योगाः अकार्मणा आहारकेषु ।
४ प्राग्वत् ।।