________________
२४]
षडशीतिनामा चतुर्थः कर्मग्रन्थः।
१५३ अइरेगं जोयणसहस्सं वनस्पत्यादीनामिति । उरलं नाम खल्पप्रदेशोपचितत्वाद् बृहत्त्वाच मिण्डवत् । ओरालं नाम मांसास्थिस्नायवाद्यवयवबद्धत्वात् । (अनु. हा. टी. पत्र ८७) श्रीपूज्या अप्याहुः
तत्थोदारमुरौलं, ओरालमहव महल्लगत्तेण । ओरालियं ति पढमं, पडुच्च तित्थेसरसरीरं ॥ भण्णइ य तहोरालं, वित्थरवंतं वणस्सतिं पप्प । पयईइ नत्थि अन्नं, इद्दहमित्तं विसालं ति ॥ उरलं थेवपएसोवचियं पि महल्लगं जहा भिंडं ।
मंसट्टिाहारुबद्धं, ओरालं समयपरिभासा ॥ ( अनु. हा. टी. पत्र ८७) सर्वत्र खार्थिक इकप्रत्ययः, उदारमेव उरालमेव उरलमेव ओरालमेव औदारिकम् , पृषोदरादित्वाद् इष्टरूपनिष्पत्तिः, औदारिकमेव चीयमानत्वात् कायः, तेन सहकारिकारणभूतेन तद्विषयो वा योग औदारिककाययोगः ५। तथा औदारिकं मिश्रं यत्र कार्मणेनेति गम्यते स औदारिकमिश्रः, उत्पत्तिदेशे हि पूर्वभवादनन्तरमागतो जीवः प्रथमसमये कार्मणेनैव केवलेनाऽऽहारयति, ततः परमौदारिकस्याऽप्यारब्धत्वाद औदारिकेण कार्मणमिश्रेण यावत् शरीरनिष्पत्तिः । यदाह सकारुश्रुताम्भोनिधिपारदृश्वा विश्वानुग्रहकाम्यया निर्मितानेकशास्त्रसन्दर्भः श्रीभद्रबाहुखामी
जोएण कम्मएणं, आहारेई अणंतरं जीवो ।
तेण परं मीसेणं, जाव सरीरस्स निप्फत्ती ॥ केवलिसमुद्धातावस्थायां तु द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकं प्रतीतमेव, "मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥” (प्रश० का० २७६) इति वचनात् , औदारिकमिश्रश्चासौ कायश्च तेन योग औदारिकमिश्रकाययोगः ६। तथा कर्मणो विकारः कार्मणम् , "विकारे" (सि०६-२-३०) अण्प्रत्ययः, यद्वा कर्मैव कार्मणम् , “प्रज्ञादिभ्योऽण्" (सि० ७-२-१६५) [इत्या प्रत्ययः, कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवद् अन्योन्यानुगताः सन्तः कार्मणं शरीरम् । उक्तं च----
कम्मविगारो कम्मणमट्ठविहविचित्तकम्मनिप्फन्नं ।
सव्वेसि सरीराणं, कारणभूयं मुणेयव्वं ॥ (अनु. हा. टी. पत्र ८७) अत्र "सव्वेसिं" इति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं-बीजभूतं कार्मणशरीरम् ,
१ ओरालियं अनुयोगद्वारचूर्णौ ॥ २ समग्रोऽप्येष पाठः अनुयोगद्वारचूर्णावपि पत्र ६०-६१ तमेऽस्ति ॥ ३ तत्रोदारमुरालं ओरालमथवा महत्तया । औदारिकमिति प्रथमं प्रतीत्य तीर्थेश्वरशरीरम् ॥ भण्यते च तथोरालं विस्तारवद् वनस्पतिं प्राप्य । प्रकृत्या नास्त्यन्यद् एतावन्मानं विशालमिति ॥ उरले तोकप्रदेशोपचितमपि महद्यथा भिण्डम् । मांसास्थिस्नायुबद्धमोरालं समयपरिभाषा ॥ ४ रालं उरलं ओराल. महव विष्णेयं । इति अनुयोगद्वारलघुवृत्ती पाठः ॥ ५ योगेन कार्मणेनाहारयत्यनन्तरं जीवः । ततः पर मिश्रेण यावच्छरीरस्य निष्पत्तिः ॥ ६ कर्मविकारः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ।।
क०२०