________________
मानि
१५२ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा लब्धिप्रत्ययं तिर्यअनुष्याणाम् । उक्तं च श्रीमदनुयोगद्वारलघुवृत्ती
विविहीं विसिट्टगा वा, किरियों तीए अ जं भवं तमिह ।
नियमा विउधियं पुण, नारगदेवाण पयईए ॥ (पत्र. ८७) तदेव काययोगस्तन्मयो वा योगो वैक्रिययोगो वैकुर्विककाययोगो वा १ । वैक्रियं मिश्रं यत्र कार्मणेन औदारिकेण वा स वैक्रियमिश्रः, तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायां प्रथमसमयादनन्तरम् , बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यमनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वा औदारिकेण मिश्रम् , ततो वैक्रियमिश्रश्वासौ कायश्च वैक्रियमिश्रकायस्तेन योगो वैक्रियमिश्रकाययोगः २ । चतुर्दशपूर्वविदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशाद् आहियते निर्वर्त्यत इत्याहारकम् , अथवाऽऽह्रियन्ते गृह्यन्ते तीर्थकरादिसमीपे सूक्ष्मा जीवादयः पदार्था अनेनेत्याहारकम् । “कृबहुलं" ( बहुलम् सि० ५-१-२) इति कर्मणि करणे वा णकः । यदवादि
कंजम्मि समुप्पन्न, सुयकेवलिणा विसिट्ठलद्धीए । जं इत्थ आहरिज्जइ, भणति आहारगं तं तु ॥ (अनु. हा. टी. पत्र ८७) पाणिदयरिद्धिसंदरिसणथमत्थोवगहणहेडं वा । संसयवुच्छेयत्थं, गमणं जिणपायमूलम्मि ||
(अनु. चू. पत्र ६१, अनु. हा. टी. पत्र ८७) तदेव कायस्तेन योग आहारककाययोगः ३ । आहारकं मिश्रं यत्र औदारिकेणेति गम्यते स आहारकमिश्रः, सिद्धप्रयोजनम्य चतुर्दशपूर्वविद आहारकं परित्यजत औदारिकमुपाददानस्य आहारकं प्रारभमाणस्य वा प्राप्यते, स एव कायस्तेन योग आहारकमिश्रकाययोगः ४ । तथा औदारिककाययोगः, इह प्रसिद्धसिद्धान्तसन्दोहविवरणप्रकरणप्रमाणग्रन्थग्रथनावाप्तसुधांशुधामधवलयशःप्रसरधवलितसकलवसुन्धरावलयप्रभुश्रीहरिभद्रसूरिदर्शिता व्युत्पत्तिर्लिख्यते--
तत्थ ताव उदारं उरालं उरलं ओरालं वा । तित्थगरगणधरसरीराइं पडुच्च उदारं वुचइ, न तओ उदारतरमन्नमत्थि त्ति काउं, उदारं नाम प्रधानम् । उरालं नाम विस्तरालं विशालमिति वा, जं भणिय होइ, कहं ! साइरेगजोयणसहस्समवट्ठियप्पमाणमोरालियं, अन्नमिदहमित्तं नत्थि, वेडबियं हुन्ज लक्खमहियं, अवट्ठियं पंचधणुसयाई अहे सत्तमाए, इत्थं पुण अवट्टियपमाणं
१ विविधा विशिष्टा वा क्रिया तस्यां च यद् भवं तदिह । नियमाद् वैकुर्विकं पुनः नारकदेवानां प्रकृत्या ।। २ °या विकिरिय तीए जं तमिह । अनुयोगद्वारलघुवृत्तौ ॥ ३ कार्ये समुत्पन्ने श्रुतकेवलिना विशिष्टलब्ध्या । यदत्राहियते भणन्ति आहारकं तत् तु ॥प्राणिदयाईसन्दर्शनार्थमर्थावग्रहणहेतुर्वा । संशयव्युच्छेदार्थ गमनं जिनपादमूले ॥ ४ तत्र तावदुदारमुरालमुरलमोरालं वा । तीर्थकरगणधरशरीराणि प्रतीत्योदारमुच्यते, न तत उदारतरमन्यदस्तीति कला ॥ ५ ओरालं ओरालियं अनुयोगद्वारचूर्णी ॥ ६ काउं उदार। उदा अनुयोगद्वारचूर्णी ॥ ७ यद् भणितं भवति, कथं सातिरेकयोजनसहस्रमवस्थितप्रमाणमौदारिकम् , अन्यदेतावन्मानं नास्ति, वैक्रियं भवेद् लक्षाधिकम् , अवस्थितं पश्च धनुःशतानि अधः सप्तम्याम्, अत्र पुनः अवस्थितप्रमाणं सातिरेकं योजनसहस्रम् ॥ ८ °सतं, इमं पु° अनुयोगद्वारचूर्णिलघुवृत्त्योः ॥