________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाया पर्याप्तानां शेषपर्याप्त्यपेक्षया अपर्याप्तानामपि आचार्यान्तरैश्चक्षुर्दर्शनाभ्युपगमात् ।
यदुक्तं पञ्चसङ्घहमूलटीकायाम्करणापर्याप्तेषु चतुरिन्द्रियादिषु इन्द्रियपर्याप्तौ सत्यां चक्षुर्दर्शनं भवति । (पत्र-५-१)
इति ॥ १७॥ थीनरपणिदि चरमा, चउ अणहारे दु सन्नि छ अपज्जा।
ते सुहमअपज विणा, सासणि इत्तो गुणे वुच्छं ॥१८॥ स्त्रीवेदे नरवेदे पञ्चेन्द्रिये च 'चरमाणि' अन्तिमानि पर्याप्तापर्याप्तासंज्ञिसंज्ञिपञ्चेन्द्रियलक्षणानि चत्वारि जीवस्थानानि भवन्ति । यद्यपि च सिद्धान्ते असंज्ञी पर्याप्तोऽपर्याप्तो वा सर्वथा नपुंसक एवोक्तः । तथा चोक्तं श्रीभगवत्याम
ते 'णं भंते ! असन्निपंचेंदियतिरिक्वजोणिया कि इत्थिवेयगा पुरिसवेयगा नपुंसगवेयगा ? गोयमा ! नो इत्थिवेयगा नो पुरिसवेयगा नपुंसगवेयगा (श०२४ उ० १ पत्र ८०६) इति । तथापीह स्त्रीपुंसलिङ्गाकारमात्रमङ्गीकृत्य स्त्रीवेदे नरवेदे चासंज्ञी निर्दिष्ट इत्यदोपः ।
उक्तं च पञ्चसङ्घहमलटीकायाम्-- यद्यपि चासंज्ञिपर्याप्तापर्याप्ती नपुंसकों तथापि स्त्रीपुंसलिङ्गाकारमात्रमङ्गीकृत्य स्त्रीपुंमावुक्ती (पत्र १०) इति ।
अपर्याप्तकश्चेह करणापर्याप्तको गृह्यते न लब्ध्यपर्याप्तकः, लव्ध्यपर्याप्तकस्य सर्वस्य नपुंसकत्वात् । अनाहारके "दु सन्नि छ अपज्ज" ति द्विविधः संज्ञी पर्याप्मापर्याप्तलक्षणः षड् अपर्याप्ताश्चेत्यष्टौ जीवस्थानानि भवन्ति । अयमर्थः- अपर्याप्तसूक्ष्मवादरैकेन्द्रियद्वित्रिचतुरसंजिसंज्ञिपञ्चेन्द्रियलक्षणानि सप्त जीवस्थानानि अनाहारके विग्रहगतावेकं द्वौ त्रीन् वा समयान् यावद् आहारासम्भवात् सम्भवन्ति,
विग्गेहगइमावन्ना, केवलिणो समुहया अजोगी य ।
सिद्धा य अणाहारा, सेसा आहारगा जीवा ॥ (श्रावकप्र० गा०६८) इति वचनात् ; संज्ञिपर्याप्तलक्षणं जीवस्थानम् अनाहारक केवलिसमुन्द्वातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु लभ्यते । उक्तं च
कार्मणशरीरयोगी, तृतीयके पञ्चमे चतुर्थे च ।
समयत्रये च तस्मिन् , भवत्यनाहारको नियमात् ॥ (प्रश० का० २७७) "ते सुहुमअपज्ज विणा सासणि" ति सास्वादने सम्यक्त्वे तान्येव पूर्वोक्तानि षड् अपर्याप्तपर्याप्तसंज्ञिद्विकलक्षणान्यष्टौ जीवस्थानानि सूक्ष्मापर्याप्तं विना सप्त भवन्ति । एतदुक्तं भवतिअपर्याप्तबाटैरेकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियसंज्ञिपश्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणानि सप्त जीवस्थानकानि सास्वादनराग्यक्त्वे भवन्तीति; यत्तु सूक्ष्मैकेन्द्रियापर्याप्तलक्षणं जीव
१ ते भदन्त ! असंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः किं स्त्रीवंदकाः पुरुषवेदकाः नपुंसकवेदकाः? गौतम ! न स्त्रीवेदका न पुरुषवेदका नपुंसकवेदका इति ॥ २ विग्रहगतिमापनाः केवलिनः समुद्धता अयोगिनश्च । सिद्धाश्चानाहाराः शेषा आहारका जीवाः ।।