________________
१८-२०] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१४७ स्थानं तत् साखादनसम्यक्त्वे न घटामियति, सास्वादनसम्यक्त्वस्य मनाक् शुभपरिणामरूपत्वात् , महासंक्लिष्टपरिणामस्य च सूक्ष्मैकेन्द्रियमध्ये उत्पादाभिधानात् । सूत्रे च सर्वत्र लिङ्गव्यत्ययः प्राकृतत्वात् , माकृते हि लिङ्ग व्यभिचार्यपि । यदाह पाणिविः स्वप्राकृतलक्षणे “लिङ्गं व्यभिचार्यपि" इति । उक्तानि मार्गणास्थानकेषु जीवस्थानकानि । इत ऊर्ध्वमेतेप्वेव मार्गणास्थानकेषु "गुणि" ति गुणस्थानकानि 'वक्ष्ये' प्रतिपादयिष्य इति ॥ १८ ॥ अथ यथाप्रतिज्ञातमेव निर्वाहयन्नाह
पण तिरि चउ सुरनरए, नर सन्नि पणिंदि भव्व तसि सव्वे ।
इग विगल भू दग वणे, दुदु एगं गइतस अभव्वे ॥ १९॥ पञ्च गुणस्थानकानि मिथ्यादृष्टिसास्वादनमिश्राविरतसम्यग्दृष्टिदेशविरतिलक्षणानि “तिरि" त्ति तिर्यगतौ भवन्ति । चतुःशब्दस्य प्रत्येकं योगात् 'सुरे' सुरगतौ चत्वारि प्रथमगुणस्थानकानि 'नरके' नरकगतौ च प्रथमानि चत्वारि गुणस्थानानि भवन्ति न देशविरतादीनि, तेषु भवस्वभावतो देशतोऽपि विरतेरभावादिति । 'नरे' नरगतौ 'संज्ञिनि' विशिष्टमनोविज्ञानभाजि पञ्चेन्द्रिये भव्ये 'त्रसे' त्रसकाये च 'सर्वाण्यपि' चतुर्दशापि गुणस्थानकानि भवन्ति, एतेषु मिथ्यादृष्ट्यादीनामयोगिकेवल्यवसानानां सर्वभावानामपि सम्भवात् । "इग" ति एकेन्द्रियेषु सामान्यतः "विगल" ति 'विकलेन्द्रियेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु 'भुवि' पृथ्वीकाये 'उदके' अप्काये 'वने वनम्पतिकाये "दु दु" ति 'द्वे द्वे' आद्ये मिथ्यात्वसासादनलक्षणे भवतः । तत्र मिथ्यात्वमविशेषेण सर्वेषु द्रष्टव्यम् ; सासादनं तु तेजोवायुवर्जबादरैकेन्द्रियद्वित्रिचतुरिन्द्रियपृथिव्यम्बुवनस्पतिषु लब्ध्या पर्याप्तकेषु करणेन त्वपर्याप्तकेषु, न सर्वेष्विति । तथा एक मिथ्यात्वलक्षणं गुणस्थानकं भवति, केषु ? इत्याह-गत्या गमनेन त्रसाः न तु वसनामकर्मोदयाद गतित्रसा:तेजोवायवस्तेषु, सासादनभावोपगतस्य तेषु मध्य उत्पादाभावाद् अभव्येषु चेति ॥ १९॥
वेय तिकसाय नव दस, लोभे चउ अजइ दु ति अनाणतिगे।
बारस अचक्खुचक्खुसु, पढमा अहवाइ चरम चऊ ॥२०॥ 'वेदे' वेदत्रये त्रयाणां कषायाणां समाहारस्त्रिकषायं-क्रोधमानमायालक्षणं तस्मिन् त्रिकषाये "पढम" त्ति प्रथमानीति पदं डमरुकमणिन्यायेन सर्वत्र योज्यम् । ततो वेदे-स्त्रीपुनपुंसकलक्षणे कषायत्रये च प्रथमानि मिथ्यादृष्ट्यादीनि अनिवृत्तिवादरपर्यन्तानि नव गुणस्थानकानि भवन्ति न शेषाणि, अनिवृत्तिबादरगुणस्थान एव वेदत्रिकस्य कषायत्रिकस्य चोपशान्तत्वेन क्षीणत्वेन वा शेषेषु गुणस्थानेषु तदसम्भवात् । 'लोभे' लोभकषाये दश गुणस्थानानि, तत्र नव पूर्वोक्तानि दशमं तु सूक्ष्मसम्परायलक्षणम् , तत्र किट्टीकृतसूक्ष्मलोभकपायदलिकस्य वेद्यमानत्वात् । चत्वारि प्रथमानि 'अयते' विरतिहीन इत्यर्थः, कोऽर्थः ? विरतिहीने मिथ्यात्वसाखादनमिश्राविरतसम्यग्दृष्टिलक्षणानि चत्वारि गुणस्थानानि भवन्तीति । "दु ति अन्नाणतिगे" ति 'अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणे प्रथमे द्वे गुणस्थानके मिथ्यादृष्टिसाखादनरूपे भवतः, न मिश्रमपि । यतो यद्यपि मिश्रगुणस्थानके यथास्थितवस्तुतत्त्वनिर्णयो नास्ति तथापि न तान्यज्ञानान्येव सम्यग्ज्ञानलेशव्यामिश्रत्वाद् अत एव न मिश्रगुणस्थानकमभिधीयते । उक्तं च