________________
१५-१७]
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१४५
रै केन्द्रियपर्याप्तलक्षणानि भवन्ति । 'असंज्ञिनि' संज्ञिव्यतिरिक्ते कोलिकर्नलिकन्यायेन प्रथमशब्दस्य सम्बन्धात् 'प्रथमानि' आदिमानि द्वादश जीवस्थानानि पर्याप्तापर्याप्तसूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियलक्षणानि भवन्ति, सर्वेषामपि विशिष्टमनोविकलतया संज्ञिप्रतिपक्षत्वाविशेषात्, संज्ञिप्रतिपक्षस्य चाऽसंज्ञित्वेन व्यवहारात् । "दु दु विगल" त्ति 'विकलेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु द्वे द्वे जीवस्थानके भवतः । तत्र द्वीन्द्रियेषु द्वीन्द्रियोsपर्याप्तः पर्याप्त इति द्वे, त्रीन्द्रियेषु त्रीन्द्रियोsपर्याप्तः पर्याप्त इति द्वे, चतुरिन्द्रियेषु चतुरिन्द्रियोऽपर्याप्तः पर्याप्त इति द्वे ॥ १५॥ दस चरम तसे अजयाहारग तिरि तणु कसाय दु अनाणे । पढमतिलेसा भवियर, अचक्खु नपु मिच्छि सव्वे वि ।। १६ ।। 'से' सकाये 'चरमाणि' अन्तिमानि पर्याप्तापर्याप्तद्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियलक्षणानि दश जीवस्थानानि भवन्ति, द्वीन्द्रियादीनामेव त्रसत्वात् । 'अयते' अविरते सर्वाण्यपि जीवस्थानानि भवन्ति । तथा आहारके “तिरि" ति तिर्यग्गतौ ' तनुयोगे' काययोगे कषायचतुष्टये 'द्वयोरज्ञानयोः' मत्यज्ञानश्रुताज्ञानरूपयोः 'प्रथमत्रिलेश्यासु' कृष्णलेश्यानीललेश्याकापोतलेश्यालक्षणासु भव्ये 'इतरस्मिन्' अभव्ये “अचक्खु" त्ति अचक्षुर्दर्शने “नपु" त्ति नपुंसकवेदे “मिच्छ" चि मिथ्यात्वे 'सर्वाण्यपि ' चतुर्दशापि जीवस्थानकानि भवन्ति, सर्वजीवस्थानकव्यापकत्वाद् अयतादीनामिति ॥ १६ ॥
पजसन्नी केवलदुग, संजय मणनाण देस मण मीसे ।
पण चरम पज्ज वयणे, तिय छ व पज्जियर चक्खुम्मि ॥ १७ ॥ “पजसन्नि” त्ति पर्याप्तसंज्ञिलक्षणमेकमेव जीवस्थानं भवति । क ? इत्याह 'केवलद्विके' केवलज्ञानकेवलदर्शनलक्षणे 'संयतेषु' सामायिकच्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातरूपपञ्चप्रकारसंयमवत्सु “मणनाण" त्ति मनः पर्यायज्ञाने "देस" त्ति देशयते - देशविरते श्रावक इत्यर्थः, "मण" ति मनोयोगे "मीस" त्ति मिश्र - सम्यग्मिथ्यादृष्टौ । तत्र केवलद्विके संयतेषु मनः पर्यायज्ञाने देशविरते च संज्ञिपर्याप्तलक्षणं जीवस्थानकं विना नान्यद् जीवस्थानकं सम्भवति, तत्र सर्वविरतिदेशविरत्योरभावात् । मनोयोगेऽप्येतदन्तरेणाऽन्यद् जीवस्थानकं न घटते, तत्र मनः सद्भावायोगात् । मिश्रे पुनः पर्याप्तसंज्ञिव्यतिरेकेण शेषं जीवस्थानकं तथाविधपरिणामाभावादेव न सम्भवतीति । तथा पञ्च जीवस्थानानि 'चरमाणि' अन्तिमानि 'पर्याप्तानि' पर्याप्तद्वीन्द्रियपर्याप्तत्रीन्द्रियपर्याप्तचतुरिन्द्रियपर्याप्तासंज्ञिपञ्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणानि "वयण" ति वचनयोगे - वाग्योगे भवन्ति न शेषाणि तेषु वाग्योगासम्भवात् । "तिय छ व पज्जियर चक्खुम्मि" त्ति चक्षुर्दर्शने त्रीणि जीवस्थानानि पर्याप्तचतुरिन्द्रियपर्याप्तासंज्ञिपञ्चेन्द्रियपर्याप्तसंज्ञिपञ्चेन्द्रियरूपाणि नान्यानि तेषु चक्षुष एवाभावात् । अत्रैव मतान्तरेण विकल्पमाह — षड् वा जीवस्थानानि चक्षुर्दर्शने भवन्ति । कथम् ? इत्याह -- "पज्जियर " चि पूर्वप्रदर्शितपर्याप्तत्रिकं सेतरमपर्याप्तत्रिकसहितं षड् भवन्ति । इदमुक्तं भवति - अपर्याप्तपर्याप्तचतुरिन्द्रियासंज्ञिपश्चेन्द्रियसंज्ञिपञ्चेन्द्रियरूपाणि षड् जीवस्थानानि चक्षुर्दर्शने भवन्ति, चतुरिन्द्रियादीनामिन्द्रियपर्याया १ 'लक' क० ख० ग० ॐ० ॥ २ 'प्येनमन्तरे' क० घ० ङ० ॥
क० १९