SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा इह द्वये मनुष्याः, गर्भव्युत्क्रान्तिकाः सम्मूच्छिमाश्च । तत्र ये गर्भव्युत्क्रान्तिकास्तेषु यथोक्तं संज्ञिद्विकं लभ्यते । ये तु वान्तपित्तादिषु सम्मूर्च्छन्ति तेऽन्तर्मुहूर्तायुषोऽसज्ञिनो लब्ध्यपर्याप्तकाश्च द्रष्टव्याः । यदाहुः श्रीमदार्यश्यामपादाः प्रज्ञापनायाम्___कहि णं भंते ! सम्मुच्छिममणुस्सा सम्मुच्छंति ? गोयमा ! अंतो मणुस्सखेत्तस्स पणयालीसाए जोयणसयसहस्सेसु अड्डाइज्जेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पन्नाए अंतरदीवेसु गब्भवकंतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा बंतेसु वा पित्तेसु वा पूएसु वा सोणिएसु वा सुक्केसु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोगेसु वा नगरनिद्धमणेसु वा सधेसु चेव असुइट्ठाणेसु इत्थ णं सम्मुच्छिममणुस्सा सम्मुच्छंति अंगुलस्स असंखेजभागमित्ताए ओगाहणाए । असन्नी मिच्छद्दिट्ठी अन्नाणी सव्वाहिं पजत्तीहिं अपज्जत्ता अंतमुहुत्ताउया चेव कालं करति त्ति । ( पत्र ५०-१) ___ तान् सम्मूछिममनुष्यानाश्रित्य तृतीयमप्यसंश्यपर्याप्तलक्षणं जीवस्थानं प्राप्यत इति । "सबायरअपज तेऊए" ति तदेवेत्यनुवर्तते, तदेव पूर्वोक्तं संजिद्विकं सह बादरापर्याप्तेन वर्तत इति सबादरापर्याप्तं तेजोलेश्यायां लभ्यते । एतदुक्तं भवति-तेजोलेश्यायां त्रीणि जीवस्थानानि भवन्ति संश्यपर्याप्तः संज्ञिपर्याप्तः बादरैकेन्द्रियापर्याप्तश्च । बादरोऽपर्याप्तः कथमवाप्यते ! इति चेद् उच्यते-इह भवनपतिव्यन्तरज्योतिप्कसौधर्मेशानदेवाः पृथिवीजलवनस्पतिषु मध्ये उत्पधन्ते । यदाह दुःषमान्धकारनिममजिनप्रवचनप्रदीपो भगवान् जिनभद्रगणिक्षमाश्रमणः पुंढवीआउवणम्सइ, गन्भे पज्जत्तसंखजीवीसु । सग्गचुयाणं वासो, सेसा पडिसेहिया ठाणा ॥ (५० सं० पत्र ७७-१) ते च तेजोलेश्यावन्तः, यदभाणि किण्हा नीला काऊ, तेऊलेसा य भवणवंतरिया । जोइससोहम्मीसाणि तेउलेसा मुणेयव्वा ॥ ( ० सं० पत्र ८१-१) यल्लेश्यश्च म्रियते तल्लेश्य एव अग्रेऽपि समुत्पद्यते, “जैल्लेसे मरइ तलेसे उववज्जइ" इति वचनात् । अतो बादरापर्याप्तावस्थायां कियत्कालं तेजोलेश्याऽवाप्यत इति सिद्धं जीवस्थानकत्रयं तेजोलेश्यायामिति । कायद्वारे स्थावरेषु पृथिव्यप्तेजोवायुवनस्पतिलक्षणेषु, इन्द्रियद्वारे एकेन्द्रिये च प्रथमानि चत्वारि जीवस्थानानि सूक्ष्मैकेन्द्रियापर्याप्तसूक्ष्मैकेन्द्रियपर्याप्तबादरैकेन्द्रियापर्याप्तवाद १ क भदन्त ! सम्मूच्छिममनुष्याः सम्मूछन्ति? गौतम ! अन्तर्मनुष्यक्षेत्रस्य पश्चचलारिंशति योजनशतसहस्रषु अर्धतृतीययोद्वीपसमुद्रयोः पञ्चदशसु कर्मभूमिषु त्रिंशत्यकर्मभूमिपु षदपश्चाशत्यन्तीपेषु गर्भभ्युत्क्रान्तिकमनुष्याणामेव उच्चारेषु वा प्रश्रवणेषु वा श्लेष्मसु वा सिंघानेषु वा वान्तेषु वा पित्तेषु वा पूतेषु वा शोणितेषु वा शुक्रेषु वा शुकपुद्रलपरिशाटेषु वा विगतजीवकलेवरेषु वा स्त्रीपुरुषसंयोगेषु वा नगरनिर्धमनेषु वा सर्वेष्वेवाशुचिस्थानेषु अत्र सम्मूछिममनुष्याः सम्मूर्च्छन्ति अङ्गुलस्यासयेयभागमात्रयाऽवगाहनाया। असंजिनो मिथ्यादृष्ठयोऽज्ञानिनः सर्वाभिः पर्याप्तिमिरपर्याप्तकाः अन्तर्मुहूर्तायुष्का एव काले कुर्वन्ति ॥ २ पृथिव्यन्वनस्पतिषु गर्भजेषु पर्याप्तसङ्ग्यातजीविषु । स्वर्गच्युतानां वासः शेषाणि प्रतिषिद्धानि स्थानानि ॥ ३ कृष्णनीलकापोततेजोलेश्याश्च भवनन्यन्तराः । ज्योतिष्कसौधर्मेशानेषु तेजोलेश्या ज्ञातव्या ॥ ४ ग्रलेश्यो मियते तसेश्य उत्पद्यते ॥
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy