________________
१४-१५] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
अणबंधोदयमाउगबंध कालं च सासणो कुणई ।
उक्समसम्मदिट्टी, चउण्हमिकं पि नो कुणई ॥ उपशमश्रेणेम॒त्वाऽनुत्तरसुरेणूत्पन्नस्याऽपर्याप्तकस्यैतल्लभ्यते इति चेद नन्वेतदपि न बहु मन्यामहे, तस्य प्रथमसमय एव सम्यक्त्वपुगलोदयात् क्षायोपशमिकं सम्यक्त्वं भवति न त्वौपशमिकम् । उक्तं च शतकवृहचूर्णी
जो उवसमसम्मदिट्ठी उवसमसेढीए कालं करेइ सो पढमसमए चेव सम्मतपुंज उदयावलियाए छोरण सम्मत्तपुग्गले वेएइ, तेण न उवसमसम्मदिट्टी अपज्जत्तगो लगभइ इत्यादि । तस्मात् पर्याप्तसंज्ञिलक्षणमेकमेव जीवस्थानकमत्र प्राप्यत इति स्थितम् ।
अपरे पुनराहुः---भवत्येवापर्याप्तावस्थायामप्यौपशमिकं सम्यक्त्वम् , सप्ततिचूादिषु तथामिधानात् । सप्ततिचूर्णी हि गुणस्थानकेषु नामकर्मणो बन्धोदयादिमार्गणावसरेऽविरतसम्यग्दृष्टेरुदयस्थानचिन्तायां पञ्चविंशत्युदयः सप्तविंशत्युदयश्च देवनारकानधिकृत्योक्तः, तत्र नारकाः क्षायिकवेदकसम्यग्दृष्टयः, देवास्तु त्रिविधसम्यग्दृष्टयोऽपि । तथा च तद्वन्थः
पैणवीससत्तावीसोदया देवनेरइए पड्डुच, नेरइगो र्खयगवेयगसम्मदिट्टी
देवो तिविहसम्मदिट्टी वि ॥ पञ्चविंशत्युदयश्च शरीरपर्याप्ति निर्वर्तयतः । तथाहि-निर्माणस्थिरास्थिरागुरुलघुशुभाशुभतैजसकार्मणवर्णगन्धरसम्पर्शचतुष्कदेवगतिदेवानुपूर्वीपञ्चेन्द्रियजातित्रसबादरपर्याप्तकं सुभगदुर्भगयोरेकतरम् आदेयानादेययोरेकतरं यशःकीर्त्ययशःकीोरेकतरमित्येकविंशतिः, ततः शरीरपर्याप्त्या पर्याप्तस्ये वैक्रियद्विकोपघातप्रत्येकसमचतुरस्रलक्षणप्रकृतिपञ्चकक्षेपे देवानुपूर्व्यपनयने च पञ्चविंशतिर्भवति । ततः शरीरपर्याप्त्या पर्याप्तस्य शेषपर्याप्तिभिः पुनरपर्याप्तस्य पराघातप्रशस्तबिहायोगतिक्षेपे सप्तविंशतिर्भवति । ततोऽपर्याप्तावस्थायामपीह देवस्यौपशमिकं सम्यक्त्वमुक्तम् । तथा पासाहेऽपि मार्गणास्थानकेषु जीवस्थानकचिन्तायामौपशमिकसम्यक्त्वे "उँवसमसम्मम्मि दो सानी" इत्यनेन प्रन्थेन संज्ञिद्विकमुक्तम् । ततः सप्ततिचूर्ण्यभिप्रायेण पञ्चसनहाभिप्रायेण बामामिरपि औपशमिकसम्यक्त्वे संज्ञिद्विकमुक्तम्, तत्त्वं तु केवलिनो विशिष्टबहुश्रुता वा विदन्तीति ॥ १४ ॥
तमसनिअपज्जजुयं, नरे सपायरअपज तेऊए।
थावर इगिदि पढमा, चउ बार असन्नि दुदु विगले ॥१५॥ 'तत्' पूर्वोक्तं संज्ञिद्विकमपर्याप्सासंज्ञियुतं 'नरे' नरेषु लभ्यते, जातावेकवचनम् । अयमर्थः
अनन्तानुबन्धिबन्धोदयं आयुर्बन्ध कालं च सासादनः करोति । औपशमिकसम्यग्दृष्टिश्चतुर्णामेकमपि न करोति ॥ २ म उपशमसम्यग्दृष्टिरुपशमश्रेणी कालं करोति स प्रथमसमय एव सम्यक्त्वपुजं उदयावलिकाया विम्म सम्यक्लपुद्गलान् वेदयति तेन नोपशमसम्यग्दृष्टिरपर्याप्तको लभ्यते ॥ ३ पश्चविंशतिसप्तविंशत्युदयो देवनेरविकान् प्रतीत्य, नैरयिकः क्षायिकवेदकसम्यग्दृष्टिदेवस्त्रिविधसम्यग्दृष्टिरपि ॥ ४ खड्ग क०ख०
०.०॥ ५ इत ऊई-"शेषपर्याप्तिभिरपर्याप्तस्य" इत्येष पाठो जैनधर्मप्रसारकसंसप्रकाबिते पुस्तकेऽधिको दृश्यते, परमस्मत्पार्श्ववर्तिषु पञ्चस्वपि पुस्तकादशेषु नास्ति अतो मूले भारत इति ।।
समसम्यक्त्वे द्वौ संशिनौ ।।