________________
१४३
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
[ गाथा
पुरुषस्य सम्यक्त्वमुद्वमतस्तद्रसास्वादो भवतीति इदं साखादनमुच्यत इति । तथा " सन्नि” चि विशिष्टस्मरणादिरूपमनोविज्ञानभाकू संज्ञी, इतरोऽसंज्ञी सर्वोऽप्येकेन्द्रियादिः ॥ १३ ॥ आहारेयर भैया, सुरनरयविभंगमहसुओहिदुगे । सम्मत्ततिगे पम्हासुकासनीसु सन्निदुगं ॥ १४ ॥
ओजोलोमप्रक्षेपाहाराणामन्यतममाहारमाहारयतीत्याहारकः । ' इतर : ' अनाहारको विग्रहगत्यादिगतः । “भेय” त्ति चतुर्दशमौलमार्गणास्थानानामिमेऽवान्तराश्चतुरादिसङ्ख्या भेदा भवन्तीति शेषः, सर्वेऽपि द्विषष्टिभेदाः । तथाहि —- गतिश्चतुर्धा, इन्द्रियं पञ्चधा, कायः षोढा, योगस्त्रिधा, वेदस्त्रिधा, कषायश्चतुर्धा, ज्ञानपञ्चकम् अज्ञानत्रिकमिति ज्ञानमार्गणास्थानमष्टधा, संयमपञ्चकं देशसंयमासंयमसहितं सप्तधा, दर्शनं चतुर्धा, लेश्या षोढा, भव्योऽभव्यश्चेति भव्यमार्गणास्थानं द्विधा, सम्यक्त्वत्रयमिथ्यात्वमिश्रसासादनभेदात् सम्यक्त्वमार्गणास्थानं षोढा, संज्ञिमार्गणास्थानं सप्रतिपक्षं द्वेधा, आहारकमार्गणास्थानं सप्रतिपक्षं द्वेधा । सर्वेऽप्येत एकत्र मील्यन्ते तत उत्तरभेदा द्वाषष्टिरिति । अत्र गाथा -
1
च पण छत्तिय तिय चउ, अड सग चउ छन् दु छग दो दुन्नि । गइया मग्गणाणं, इय उत्तरभेय बासट्टी ||
इत्येवमुक्ता गत्यादिमार्गणास्थानानामवान्तरभेदाः । साम्प्रतमेतेष्वेव जीवस्थानानि चिन्तयन्नाह - “सुरनरयविभंग " इत्यादि । सुरगतौ नरकगतौ च 'संज्ञिद्विकं पर्याप्तापर्याप्तलक्षणं भवति । अपर्याप्त करणापर्याप्तो गृह्यते, न लब्ध्यपर्याप्तः, तस्य देवनरकगत्योरुत्पादाभावात् । तथा 'विभङ्गे' विभङ्गज्ञाने 'मतो' मतिज्ञाने 'श्रुते' श्रुतज्ञाने "ओहिदुगि" त्ति अवधिद्विके- अवधिज्ञानावधिदर्शनलक्षणे 'सम्यक्त्वत्रिके' क्षायोपशमिकक्षायिक पशमिकलक्षणे पद्मलेश्यायां शुक्ललेश्यायां संज्ञिनि च संज्ञिद्विकमपर्याप्तपर्याप्तलक्षणं भवति, न शेषाणि जीवस्थानानानि तेषु मिथ्यात्वादिकारणतो मतिज्ञानादीनामसम्भवात् । अत एव च हेतोरिहापर्याप्तकः करणापर्याप्तको गृह्यते, न लब्ध्यपर्याप्तः, तस्य मिथ्यादृष्टित्वाद् अशुभलेश्याकत्वाद् असंज्ञिकत्वाच्चेति । आह— क्षायिकक्षायोपशमिकोपशमिकेषु कथं संज्ञी अपर्याप्तको लभ्यते ! उच्यते—इह यः कश्चित् पूर्वबद्धायुकः क्षपकश्रेणिमारभ्यानन्तानुबन्ध्या दिसप्तकक्षयं कृत्वा क्षायिकसम्यक्त्वमुत्पाद्य यदा गतिचतुष्टयस्यान्यतरस्यां गतावुत्पद्यते तदा सोऽपर्याप्तः क्षायिकसम्यक्त्वे प्राप्यते, क्षायोपशमिकसम्यक्त्वयुक्तश्च देवादिभवेभ्योऽनन्तरमिहोत्पद्यमानस्तीर्थ करादिरपर्याप्तकः सुप्रतीत एव । औपशमिकं सम्यक्त्वं पुनरपर्याप्तावस्थायामनुत्तरसुरस्य द्रष्टव्यम् ।
इहौपशमिकसम्यक्त्वमपर्याप्तस्य केचिद् नेच्छन्ति, तथा च ते प्राहुः न तावदस्यामेवापर्याप्तावस्थायामिदं सम्यक्त्वमुपजायते, तदानीं तस्य तथाविधविशुद्ध्यभावात्; अथैतत्तदानीं मोत्यादि, . यत्तु पारभविकं तद् भवतु, केन विनिवार्यत इति मन्येथास्तदपि न युक्तियुक्तमुत्पश्यामः, यतो यो मिथ्यादृष्टिस्तत्प्रथमतया सम्यक्त्वमौपशमिकमवाप्नोति स तावत्तद्भावमापन्नः सन् कालं न करोत्येव । यदुक्तमागमे
१ चलारः पश्च पद् त्रयस्त्रयश्चत्वारोऽष्ट सप्त चत्वारः षट् द्वौ षड् द्वौ द्वौ । गत्यादिमार्गणानामित्युत्तरमेदा द्वाषष्टिः ॥