________________
१३३.
षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
'संजोयणाइयाणं, नणूदओ संजयस्स पडिसिद्धो । सच्चमिह सोऽणुभागं, पडुच्च न पएसकम्मं तु ॥ भणियं च सुए जीवो, वेण्ड न वाऽणुभागकम्मं तु । जं पुण पएसकम्मं, नियमा वेएह तं सव्वं ॥ नादियं निज्जरए, नासंतमुदेइ जं तओऽवस्सं । सव्वं पएसकम्मं, वेएवं मुच्चए सव्वो । किह दंसणाइघाओ, न होइ संजोयणाइवेयणओ । मंदाणुभावाए, जहाऽणुभावम्मि वि कहिंचि || निवन्नं पि जहा, सयलचउन्नाणिणो तदावरणं ।
tvc
fault मंदया, एसकम्मं तहा नेयं ॥ (विशेषा० गा० १२९४ - ९८ ) "मिच्छ" त्ति मिध्यात्वम् - अदेवदेवबुद्ध्यगुरुगुरुबुद्ध्यतत्त्वतत्त्वबुद्धिलक्षणम् । “मीस” त्ति इहानन्तराभिहितविधिना लब्धेनोपशमिकसम्यक्त्वेन ग्रन्थिसम्भवेन औषधविशेषकरूपेन मदनकोद्रवस्थानीयं मिथ्यात्वमोहनीयं कर्म विशोधयित्वा त्रिधा करोति । तथाहि - शुद्धमर्धविशुद्धमविशुद्धं चेति । स्थापना A । तत्र त्रयाणां पुजानां मध्ये योऽसावर्धविशुद्धः पुत्रः स मिश्र उच्यते, सम्यग्मिथ्यात्वमित्यर्थः । एतदुदयात् किल प्राणी जिनप्रणीतं तत्त्वं न सम्यक् श्रद्दधाति नापि निन्दति । उक्तं च बृहच्छतक बृहचूर्णी -
हा नालिकेरदी वासिस्स अइछुहियम्स वि पुरिसम्स इत्थ ओयणाइए अणेगहा वि ढोइए तस्स आहारम्स उवरिं न रुई न य निंदा, जेण कारणेणं सो ओयणाइओ आहारो न कयाइ दिट्ठो नाव सुओ, एवं सम्मामिच्छदिट्टिम्स वि जीवाइपयत्थाण उवरिं न रुई न य निंदा इत्यादि ।
1
तथा “सासाण” त्ति सासादनं तत्र आयम् - औपशमिकसम्यक्त्वलक्षणं सादयति-अपनयति आसादनम्-अनन्तानुबन्धिकषायवेदनम् अत्र पृषोदरादित्वाद् यशब्दलोपः, “रम्यादिभ्यः” (५-३-१२६) कर्तर्य नट्प्रत्ययः, सति यस्मिन् परमानन्दरूपानन्तसुखदो निःश्रेयसतरुबीजभूतो ग्रन्थिभेदसम्भवौपशमिकसम्यक्त्वलाभो जघन्यतः समयमात्रेण उत्कर्षतः षड्तिरावलिकाभिरपगच्छतीति, ततः सह आसादनेन वर्तत इति सासादनम् । यद्वा सास्वादनं तत्र सम्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनम्, यथा हि मुक्तक्षीरान्नविषयव्यलीकचित्तपुरुषस्तद्वमनकाले क्षीराभरसमास्वादयति तथाऽत्रापि गुणस्थाने मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तस्य
१ संयोजनादिकानां ननूदयः संयतस्य प्रतिषिद्धः । सत्यमिह सोऽनुभागं प्रतीत्य न प्रदेशकर्म तु ॥ भणितं च ते जीवो वेदयति न वा अनुभागकर्म तु । यत् पुनः प्रदेशकर्म नियमाद् वेदयति तत् सर्वम् ॥ नामुदितं निर्जीर्यते नासदुदेति यततोऽवश्यम् । सर्वं प्रदेशकर्म वेदयित्वा मुच्यते सर्वः ॥ कथं दर्शनादिधातो न भवति संयोजनादिवेदनतः । मन्दानुभावतया यथा अनुभावेऽपि कस्मिंश्चिद् ॥ नित्यमुदीर्णमपि यथा सकळवतुर्ज्ञानिनस्तदावरणम् । नापि घातयति मन्दत्वात् प्रदेशकर्म तथा ज्ञेयम् ॥ २ यथा नालिकेरद्वीपवा+ सिनः अतिक्षुधितस्यापि पुरुषस्यात्रोदनादिके अनेकधाऽपि ढौकिते तस्याहारस्योपरि न रुचिर्न च निन्दा, येन कारणेन स ओदनादिक आहारो न कदाचिद् दृष्टो नापि श्रुतः, एवं सम्यग्मिथ्यादृशोऽपि जीवादिपदार्थानामुपरि न रुचिर्न च निन्दा ॥