________________
१४०
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेत:
[ गाथा
“गठि समइच्छओ" ति ग्रन्थि समतिक्रामतः - भिन्दानस्येति, “सम्मत्तपुरक्खडे" ति सम्यक्त्वं पुरस्कृतं येन तस्मिन्, आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः । एतस्मिंश्वान्तरकरणे कृते सति तस्य मिथ्यात्वकर्मणः स्थितिद्वयं भवति । अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुहूर्तप्रमाणा, तस्मादेवान्तरकरणादुपरितनी शेषा द्वितीया स्थितिः । स्थापना । तत्र प्रथमस्थितौ विकिवेदना सौ मिथ्यादृष्टिरेव । अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एव औपशमिकसम्यक्त्वमवाभोति, मिथ्यात्वदलिकवेदनाभावात् । यथा हि वनदावानलःपूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनवनदावोऽप्यन्तरकरणमवाप्य विध्यायति, तथा च सति तस्योपशमिकसम्यक्त्वलाभः । यदाहुः श्रीपूज्यपादाः -- सरदेसं दलियं च विज्झाइ वणदवो पप्प ।
इय मिच्छम्स अणुदए, उवसमसम्मं लहइ जीवो ॥ (विशेषा० गा० २७३४) इति । व्यावर्णितं ग्रन्थिभेदसम्भवमौ पशमिकसम्यक्त्वम् । अथोपशमश्रेणिसम्भवमौपशमिकसम्यक्त्वं त्रिभुवनजनप्रथितप्रवचनोपनिषद्वे दिश्रीजिनभद्रगणिक्षमाश्रमणप्रणीतगाथाभिरेव भाव्यतेजैवसामगसेढीए, पट्टवओ अप्पमत्तविरओ त्ति । जवसाणे सो वा होइ पमत्तो अविरओ वा ॥ अन्ने भांति अविरय- देस-पमत्ता ऽपमत्तविरयाणं । अन्नयरो पडिवज्जइ, दंसणसमयम्मि उ नियट्टी ||
( विशेषा० गा० १२८५- १२८६ )
संजलाईण समो, जुत्तो संजोयणादओ जे उ ।
ते पुवि चिय समिया, नणु सम्मत्ताइलाभम्मि || (विशेषा० गा० १२९० )
---
आचार्या:
औसि खओवसमो सिं, समोsहुणा भणइ को विसेसो सिं । नवीमि उन्ने, सेसोवसमे खओवसमो ||
सो चेव नणूवसमो, उइए खीणम्मि सेसए समिए । सुहुमोदयया मीसे, न तूवसमिए विसेसोऽयं ॥ dus tतकम्मं, खओवसमिएस नाणुभागं सो ।
उवसंतकसाओ पुण, वेण्इ न संतकम्मं पि ॥ (विशेषा ० गा० १२९१-९३)
१ ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य । इति मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ २ उपशमकश्रेण्याः प्रस्थापकोऽप्रमत्तविरत इति । पर्यवसाने स वा भवति प्रमत्तोऽविरतो वा ॥ अन्ये भणन्त्यविरतदेशप्रमत्ताप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते दर्शनसमये तु निरृत्तिः ॥ संज्वलादीनां शमो युक्तः संयोजनादयो ये तु । ते पूर्वमेव शमिताः ननु सम्यक्त्वादिला || ३ भाष्ये समणम्मि शमने ॥ ४ आसीत् क्षयोपशम एषां शमोऽधुना भण्यते को विशेषोऽनयोः । ननु क्षीणे उदीर्णे शेषोपशमे क्षयोपशमः ॥ स एत्र ननूपशमः उदिते क्षीणे शेषके शमिते । सूक्ष्मोदयता मिथे न त्वौपशमिके विशेषोऽयम् ॥ वेदयति सत्कर्म क्षायोपशमिकेषु नानुभागं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥
ܤ܂