________________
सातिनामा बतुर्थः कर्मग्रन्थः । तम्मि य तइय चउत्थे, भवम्मि सिझंति खहयसम्मते । सुरनरयजुगलिसु गई, इमं तु जिणकालियनराणं ॥ पडिवत्तीए अविरयदेसपमत्तापमत्तविरयाणं ।
अनयरो पडिवज्जइ, सुकज्झाणोवगयचित्तो ॥ (विशेषा० गा० १३१४) तथा उदीर्णस्य मिथ्यात्वस्य क्षये सति अनुदीर्णस्व उपशमः-विपाकप्रदेशवेदनरूपस्य द्विविवस्थाप्युदयस्य विष्कम्भणं तेन निवृत्तमौपशमिकम् , तञ्च द्विधा---ग्रन्थिमेदसम्भवमुपशमश्रेणिसम्भवं च । तत्र प्रन्थिमेदसम्भवमेवम्-इह गम्भीरापारसंसारसागरमध्यमध्यासीनो जन्तुर्मिथ्यात्वप्रत्ययमनन्तान् पुद्गलपरावर्तान् अनन्तदुःखलक्षाण्यनुभूय कथमपि तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनाऽनाभोगनिर्वर्तितयथाप्रवृत्तिकरणेन "करणं परिणामोऽत्र" इति वचनादध्यवसायविशेषरूपेणाऽऽयुर्वर्जानि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमासमेयभागन्यूनैकसागरोपमकोटाकोटीस्थितिकानि करोति, अत्र चाऽन्तरे जीवस्य कर्मजनितो धनरागद्वेषपरिणामरूपः कर्कशनिविडचिरपरूढगुपिलवक्रमन्थिवद् दुर्भेदोऽभिन्नपूर्वो प्रन्थिर्भवति । तदुक्तम्
तीए वि थोवमित्ते, खविण इत्थंतरम्मि जीवम्स । हवइ हु अभिन्नपुल्वो, गट्टी एवं जिणा विति ॥ (धर्मसं० गा० ७५२ ) गंठि ति सुदुब्भेओ, कक्खडघणरूढगूढगंठि व्व ।
जीवम्स कम्मजणिओ, घणरागद्दोसपरिणामो॥ (विशेषा० गा० ११९५) इति । इमं च ग्रन्थि यावद् अभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति । उक्तं चावश्यकटीकायाम्
अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो ग्रन्थिमासाद्य अर्हदादिविभूतिदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति न शेषलाम इति ॥ (पत्र ७६) ____एतदनन्तरं कश्चिदेव महात्मा समासन्नपरमनिर्वृतिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेव परमविशुद्ध्या यथोक्तखरूपम्य ग्रन्थे दं विधाय मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्याऽपूर्वकरणानिवृत्तिकरणलक्षणविशुद्धिजनितसामोऽन्तर्मुहर्तकालप्रमाणं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति । अत्र यथाप्रवृत्तिकरणापूर्वकरणानिवृत्तिकरणानामयं क्रमः
जो गंठी ता पढम, गंठिं समइच्छओ भवे बीयं ।
अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ।। (विशेषा० गा० १२०३ ) १ तस्मिंश्च तृतीये चतुर्थे भवे सिम्यन्ति क्षायिकसम्यक्त्वे । सुरनारकयुगलिकेषु गतिरेतत्तु जिनकालिकनराजाम् ॥ प्रतिपत्तौ अविरतदेशप्रमत्ताप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते शुक्लध्यानोपगतचित्तः ॥ २ तस्या अपि स्तोकमात्रे क्षपितेऽत्रान्तरे जीवस्य । भवति हि अभिनपूर्वो प्रन्थिरेवं जिना ब्रुवते ॥ प्रन्धिरिति मुदुर्भदः कर्कशघनरूढगूढप्रन्थिरिव । जीवस्य कर्मजनितो धनरागद्वेषपरिणामः ॥ ३ यावद् प्रन्धिखावत् प्रथमं प्रन्धि समतिकामतो भवेद् द्वितीयम् । अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक्ले जीवे ॥