________________
१२]
घडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१३७ अंघावलम्मि खीणे, अविहरमाणो वि नवरि नावजे ।
तत्थेव अहाकप्पं, कुणइ उ जोग महाभागो ॥ (पञ्चव० गा० १५२२) एते च परिहारविशुद्धिका द्विविधाः, तद्यथा--इत्वरा यावत्कथिकाश्च । तत्र ये कल्पसमाप्त्यनन्तरमेव कल्पं गच्छं वा समुपयास्यन्ति त इत्वराः, ये पुनः कल्पसमात्यनन्तरमन्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते ते यावत्कथिकाः । उक्तं च
इत्तरिय थेरकप्पे, जिणकप्पे आवकहिय त्ति ॥ (पञ्चव० गा० १५२४) अत्र स्थविरकल्पग्रहणमुपलक्षणं खकल्पे वेति द्रष्टव्यम् । तत्रेत्वराणां कल्पप्रभावाद् देवमनुष्यतिर्यग्योनिककृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषयाश्च वेदना न प्रादुःषन्ति, यावत्कथिकानो सम्भवेयुरपि । ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकरिपकानां चोपसर्गादयः सम्भवन्तीति । उक्तं च--
इत्तरियाणुवसम्गा आयंका वेयणा य न हवन्ति ।
आवकहियाण भइया, (पञ्चव० गा० १५२६) इति । सथा "सुहुम" त्ति 'सूक्ष्मसम्परायं' सम्परैति-पर्यटति संसारमनेनेति सम्परायः-क्रोधादि. कषायः, सूक्ष्मो लोभांशमात्रावशेषतया सम्परायो यत्र तत् सूक्ष्मसम्परायम् । इदमपि संक्लिश्यमानकविशुद्ध्यमानकमेदं द्विधा । तत्र श्रेणियच्यवमानस्य संक्लिश्यमानकम् , श्रेणिमारोहतो विशुध्यमानकमिति । "अहखाय" त्ति अथशब्दोऽत्र याथातथ्ये, आङ अभिविधौ, आसमन्ताद् याथातथ्येन ख्यातमथाख्यातम् , कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातम् । यद्वा यथा सर्वस्मिन् जीवलोके ख्यातं-प्रसिद्धम् अकषायं भवति चारित्रमिति यत्तद् यथाख्यातम् । “देसजय" त्ति देशे-सङ्कल्पनिरपराधप्रसवधविषये यतं यमनं संयमो यस्य स देशयतः-सम्यग्दर्शनयुत एकाणुव्रतादिधारी, अनुमतिमात्रश्रावक इत्यर्थः । यदाह श्रीशिवशर्मसूरिवरः कर्मप्रकृतौ---
एंगधयाह चरमो, अणुमइमित्त त्ति देसजई ॥ (गा० ३४० ) "अजय" ति न विद्यते यतं-विरतं विरतिर्यस्य सोऽयतः सर्वथा विरतिहीनः । तथा दर्शनशब्दस्य प्रत्येक सम्बन्धात् चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि चत्वारि दर्शनानि । तत्र चक्षुषा दर्शनं-वस्तुसामान्यांशात्मकं ग्रहणं चक्षुर्दर्शनम् १, अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियचतुहुयेन मनसा च यद् दर्शनं-सामान्यांशात्मकं ग्रहणं तद् अचक्षुर्दर्शनम् २, अवधिना-रूपिद्रव्यमर्यादया दर्शनं-सामान्यांशग्रहणमवधिदर्शनम् ३, केवलेन-संपूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद् दर्शनं-सामान्यांशग्रहणं तत् केवलदर्शनम् ४ इति । किंरूपाण्येतानि दर्शनानि ? मत आह-'अनाकाराणि' सामान्याकारयुक्तत्वे सत्यपि न विद्यते विशिष्टव्यक्त आकारो येषु तान्यनाकाराणि । भावार्थः प्रागेवोक्त इति ॥ १२ ॥
१ जवाबले क्षीणेऽविहरनपि नवरं नापद्यते । तत्रैव यथाकल्पं करोति तु योगं महाभागः॥ २ इत्वराः स्थविरकल्पे, जिनकल्पे यावत्कथिका इति ॥ ३ इत्वरिकाणामुपसर्गा माता वेदनाश्च न भवन्ति । यावत्कविकानां भक्ताः॥ ४ एकताविचरमः अनुमतिमात्र इति देशयतिः॥ ५°ष्टो व्यक्त आ° 50॥
क.१८