________________
१३६ देवेन्द्रसूरिविरचितखोपनटीकोपेतः
[गाथा . पवाएइ न एसो, अन्नं कप्पट्टिइ ति काऊणं । ( पञ्चव० गा०..१५११) उपदेशं पुनर्यथाशक्ति प्रयच्छति । मुण्डापनद्वारेऽपि नासावन्यं मुण्डापयति । अथ प्रव्रज्यामन्तरं नियमतो मुण्डनमिति प्रव्रज्याग्रहणेनैव तद् गृहीतमिति किमर्थ पृथग् द्वारम् ? तदयुक्तम् , प्रवज्यानन्तरं नियमतो मुण्डनस्याऽसम्भवात् , अयोग्यस्य कथञ्चिदत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डनायोगाद् , अतः पृथगिदं द्वारमिति । प्रायश्चित्तविधिद्वारे----मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य, यत एष कल्प एकाग्रताप्रधानस्ततस्तदने गुरुतरो दोष इति । कारणद्वारे--कारणं नामाऽऽलम्बनम् , तत्पुनः सुपरिशुद्धं ज्ञानादिकम् , तचास्य न विद्यते येन तदाश्रित्याऽपवादपदसेविता स्यात् , एष हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव खं कल्पं यथोक्तविधिना समापयन् महात्मा वर्तते । उक्तं च
कोरणमालंबणमो, तं पुण नाणाइयं सुपरिसुद्धं । एयम्स तं न विजइ, उचियं तवसौहणोपायं ।। संवत्थ निरवयक्खो, आढवियं सं दढं समाणतो ।
वट्टइ एस महप्पा, किलिट्टकम्मक्खयनिमित्तं ॥ (पञ्चव० गा० १५१७-१८) निष्प्रतिकर्मताद्वारे-एष महात्मा निष्पतिकर्मशरीरोऽक्षिमलादिकमपि कदाचिद् नापनयति, न च प्राणान्तिकेऽपि व्यसने समापतिते द्वितीयपदं सेवते । उक्तं च
निप्पंडिकम्मसरीरो, अच्छिमलाई वि नावणेइ सया। पाणंतिए वि य महावसणम्मि न वट्टए बीए ॥ अप्पबहुत्तालोयणविसयाईओ उ होइ एस ति ।
अहवा सुहभावाओ, बहुगं पेयं चिय इमस्स ॥ (पञ्चव० गा० १५१९-२०) भिक्षाद्वारे-भिक्षा विहारक्रमश्चाऽस्य तृतीयस्यां पौरुप्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चाऽस्माऽल्पा द्रष्टव्या । यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाऽप्येकोऽविहरन्नपि महाभागो न द्वितीयपदमापद्यते, किन्तु तंत्रेव यथाकल्पमात्मीययोगान् विदधाति । उक्तं च---
तइयाए पोरिसीऍ, भिक्खाकालो विहारकालो उ । सेसासु य उम्सग्गो, पाय अप्पा य निद्दौ वि ॥ (पञ्चव० गा० १५२१)
प्रवाजयति नेषोऽन्यं कल्पस्थितिरिति कृत्वा ॥ २ कारणमालम्बनं तत् पुनः ज्ञानादिकं सुपरिशुद्धम् । एतस्य तन विद्यते उचितं तपःसाधनोपायः ॥ ३ पञ्चवस्तुके तु-साहणा पायं- साधनात्प्रायः ॥ ४ सर्वत्र निरपेक्ष आहतं खं दृढं समापयन् । वर्तते एष महात्मा क्लिष्टकर्मक्षयनिमित्तम् ॥ ५°रववक्खोक० घ० १०॥ ६ °ढवियं चेव सं सख०। पञ्चवस्तुके तु-आढत्तं चिय द° ॥ ७ निष्प्रतिकर्मशरीरोऽक्षिमलाद्यपि नापनयति सदा । प्राणान्तिकेऽपि च महाव्यसने न वर्तते द्वितीये ॥ ८ पञ्चवस्तुके तु-तहा व° ॥ ९ अल्पबहुखालोचनविषयातीतस्तु भवत्येष इति । अथवा शुभभावाद् बहुकमप्येतदेवास्य ॥ १० तृतीयस्यां पौरुष्यां भिक्षाकालो विहारकालस्तु । शेषासु च उत्सर्गः प्रायोऽल्पा च निद्राऽपि ॥११ निद ति॥ इति पञ्चवस्तुके॥