________________
देवेन्द्रसूरिविरचितखोपशटीकोपेतः
[ শাখ .. "विभंग" ति विपरीतो भङ्गः-परिच्छित्तिप्रकारो यस्मिंस्तद् विभङ्गम् , विपर्यस्तमवधिज्ञानं विभङ्गज्ञानमुच्यते इत्यर्थः । सह आकारेण-जातिवस्तुपतिनियतप्रहणपरिणामरूपेण "आगारो उ विसेसो" इति वचनाद् विशेषेण वर्तन्त इति साकाराणि । अयमर्थः-वक्ष्यमाणानि चत्वारि दर्शनान्यनाकाराणि, अमूनि च पञ्च ज्ञानानि साकाराणि । तथाहि-सामान्यविशेषास्मकं हि सकलं ज्ञेयं वस्तु, कथम् ! इति चेद् उच्यते-दूरादेव हि शालतमालतालबकुलाशोकचम्पककदम्बजम्बुनिम्बादिविशिष्टव्यक्तिरूपतयाऽनवधारितं तरुनिकरमवलोकयतः सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपं चकास्ति तत् सामान्यरूपमनाकारं दर्शनमुच्यते, "निर्विशेषं विशेषाणामग्रहो दर्शनमुच्यते” इति वचनप्रामाण्यात् । यत् पुनस्तस्यैव निकटीभूतस्य तालतमालशालादिव्यक्तिरूपतयाऽवधारितं तमेव महीरुहसमूहमुत्पश्यतो विशिष्टव्यक्तिमतीतिजनकं परिस्फुट रूपमाभाति तद् विशेषरूपं साकारं ज्ञानम् अप्रमेयप्रभावपरमेश्वरप्रवचनप्रवीणचेतसः प्रतिपादयन्ति, सह विशिष्टाकारेण वर्तत इति कृत्वा । तदेवं प्रतिप्राणिप्रसिद्धप्रमाणाबाधितप्रतीतिवशात् सर्वमपि वस्तुजातं सामान्यविशेषरूपद्वयात्मकं भावनीयमिति ॥ ११ ॥
सामइय छेय परिहार सुहुम अहखाय देस जय अजया।
चक्खु अचक्खू ओही, केवलदंसण अणागारा ॥१२॥ समानां-ज्ञानदर्शनचारित्राणामायः-लाभः समायः समाय एव सामायिकं विनयादेराकृतिगणत्वाद् इकण्प्रत्ययः, यद्वा समः-रागद्वेषविप्रमुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्य आयः समायः, समो हि प्रतिक्षणमपूर्वनिदर्शनचरणपर्यायवाटवीभ्रमणसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिरधःकृतचिन्तामणिकामधेनुकल्पद्रुमोपमैर्युज्यते, समाय एव सामायिकं मूलगुणानामाधारभूतं सर्वसावद्यविरतिरूपं चारित्रम् । यदाह वाचकमुख्यः
सामायिकं गुणानामाधारः खमिव सर्वभावानाम् । न हि सामायिकहीनाश्चरणादिगुणान्विता येन ॥ तस्माजगाद भगवान् , सामायिकमेव निरुपमोपायम् ।
शारीरमानसानेकदुःखनाशस्य मोक्षस्य ।। यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकं तथापि च्छेदादिविशेषैर्विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते । प्रथमं पुनरविशेषणात् सामान्यशब्द एवावतिष्ठते सामायिकमिति । तञ्च द्विधा-इत्वरं यावत्कथिकं च । तत्रेत्वरं भाविन्यपदेशान्तरत्वात् खल्पकालम् , तच्च प्रथमच. रमतीर्थकरतीर्थे भरतैरवतेषु यावद् अद्यापि शैक्षकस्य महाव्रतानि नारोप्यन्ते तावद् विज्ञेयम् । आत्मनः कथां यावद् यदास्ते तद् यावत्कथं यावज्जीवमित्यर्थः, यावत्कथमेव यावत्कथिकम् , एतच भरतैरवतेषु प्रथमचरमवर्जमध्यमद्वाविंशतितीर्थकरतीर्थान्तर्गतसाधूनां महाविदेहतीर्थकरमुनीनां चावसेयम् , तेषामुपस्थापनाया अभावात् । “छेय" ति छेदोपस्थापना, तत्र पूर्वपर्यायस्य छेदेनोपस्थापना-महाव्रतेष्वारोपणं यत्र चारित्रे तत् छेदोपस्थापनम् , भरतैरवतप्रथमचरमतीर्थकरतीर्थ एवं
१ आकारस्तु विशेषः ॥ २ °मपश्चिमव क ख ग घ.०॥ ३ मुत्थापनाया अ°क०स० ग०स०॥ ४ छेदेनोत्था ख०3०। छेदोत्थापग०॥ ५व्रतेषु यत्र क० ख००प००॥