________________
१०-१११
षडशीतिनामा चतुर्थः कर्ममन्थः ।
१.२.९
पुरुषस्य स्त्रियं प्रति अभिलाषो नरवेदः, स्त्रियः - योषितः पुरुषं प्रत्यभिलाषः स्त्रीवेदः, नपुंस 'कस्य - षण्ढस्य स्त्रीपुरुषौ प्रत्यभिलाषो नपुंसकवेद: ५। कषायाश्चत्वारः - कोषकषायः “मद" ति मदो मानोऽहङ्कारो गर्व इत्यर्थः मानकषायः मायाकषायः लोभकषायः । इतिशब्दः कषाया...णामनन्तानुबन्ध्यादिबहु मेदसूचनार्थः, सूत्रे च “मायलोभ " त्ति ह्रस्वत्वं प्राकृतत्वात् ६ । “महसुsवहि" इत्यादि । इहाऽवधीत्यत्राऽकारलोपाद् ज्ञानशब्दस्य च प्रत्येकं सम्बन्धाद् एवं प्रयोगः - मतिज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनः पर्यवज्ञानं केवलज्ञानम्, तथा विभङ्गमत्यज्ञानश्रुतज्ञानानि । एतानि पञ्च ज्ञानानि त्रीण्यज्ञानानि साकाराणि वर्तन्त इति वाक्यार्थः । भावार्थरत्वयम् - " बुधिं मनिंच ज्ञाने" मननं मतिः, यद्वा मन्यते - इन्द्रियमनोद्वारेण नियतं वस्तुपरिच्छिद्यतेऽनयेति मतिः - योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तोऽवगमविशेषः, मतिश्च सा ज्ञानं च मतिज्ञानम् । श्रवणं श्रुतम् - अभिलापप्ला वितार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम् । अवधानमवधिः - इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम्, अथवा अवशब्दोऽधः शब्दार्थः अव-अधोऽधो विस्तृतं वस्तु धीयते - परिच्छिद्यतेऽनेनेत्यवधिः; यद्वा अवधिः- मर्यादा रुपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्च तद् ज्ञानं च अवधिज्ञानम् । परि - सर्वतोभावे, अवनमवः, “तुदादिभ्योऽनकौ” इत्यधिकारे “अकितौ च” इत्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवो मनः पर्यवः सर्वतस्तत्परिच्छेद इत्यर्थः, मनः पर्यवश्च तद् ज्ञानं च मनः पर्यवज्ञानम् । यद्वा मनः पर्यायज्ञानम्, तत्र संज्ञिभिर्जीवैः काययोगेन गृहीतानि मनःप्रायोग्यवर्गणाद्रव्याणि चिन्तनीयवस्तु चिन्तनव्यापृतेन मनोयोगेन मनस्त्वेन परिणमय्याऽऽलम्ब्यमानानि मनांसीत्युच्यन्ते तेषां मनसां पर्यायाः - चिन्तनानुगताः परिणामा मनः पर्यायाः, तेषु तेषां वा सम्बन्धि ज्ञानं मनः पर्यायज्ञानम् । यद्वा आत्मभिर्वस्तुचिन्तने व्यापारितानि मनांसि पर्येति-अवगच्छतीति मनःपर्यायम् " कर्मणोऽण्" ( सि. ५ -३ - १४ ) इत्यण्प्रत्ययः, मनःपर्यायं च तद् ज्ञानं च मनःपर्यायज्ञानम् । केवलम् - एकं मत्यादिरहितत्वात् “नैट्ठम्मि उ छाउ atre नाणे" (आ० नि० गा० ५३९ ) इति परममुनिप्रणीतवचनप्रामाण्यात्, शुद्धं वा केवलं तदावरणमलकलङ्कपङ्कापगमात्, सकलं वा केवलं तत्प्रथमतयैव निःशेषतदावरण विगमतः 'सम्पूर्णोत्पत्तेः, असाधारणं वा केवलम् अनन्यसदृशत्वात्, अनन्तं वा केवलं ज्ञेयानन्तत्वाद् अपर्यवसितानन्तकालावस्थायित्वाद्वा, निर्व्याघातं वा केवलं लोकेऽलोके वा क्वापि व्याघाताभावात्, केवलं च तद् ज्ञानं च केवलज्ञानं - यथावस्थितसमस्तभूतभवद्भाविभावावभासि ज्ञानमिति भावना । तथा मतिश्रुतावधिज्ञानान्येव मिथ्यात्वपङ्ककलुषिततया यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानव्यपदेशभावि भवन्ति । उक्तं च---
आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् || ( प्रश० का ० २२७ ) इति । १ नष्टे तु छाद्यस्थिके ज्ञाने ॥
क० १७