________________
१२८
देवेन्द्रसूरिविरचितखोपटीकोपेतः
[ गाथा
कसमन्विता इत्यर्थः १३ । ओज आहारलोमाहारकवलाहाराणामन्यतममाहारमाहारयति -गृझतीत्याहारः, "अच्" ( सि० ५ - १ - ४९ ) इत्यच् [ प्रत्ययः ] आहारक इत्यर्थः १४ । भोजआहारादीनां लक्षणमिदम्
Og
सरिरेणोयाहारो, तयाइ फासेण लोमआहारो ।
पक्खेवाहारो पुण, कावलिओ होइ नायवो ॥ ( प्रब० गा० ११८० ) ॥ ९ ॥ उक्तानि मूलभूतानि चतुर्दश मार्गणास्थानानि । इदानीमेतेषामेवोत्तर मेदानाह - सुरनरतिरिनिरयगई, इगबियतियचउपणिंदि छक्काया । भूजलजलणाऽनिलवणतसा य मणवयणतणुजोगा ॥ १० ॥ st गतिशब्दः प्रत्येकं सम्बध्यते, ततः सुरगतिः नरगतिः तिर्यग्गतिः नरकगतिः । तत्र सुष्ठु राजन्त इति सुराः; यदि वा सुष्ठु रान्ति - ददति प्रणतानामभीप्सितमर्थं लबणाधिपसुस्थित इव लवणजलधौ मार्ग जनार्दनस्येति सुराः; यद्वा 'सुरत् ऐश्वर्यदीत्योः ' सुरन्तिविशिष्टमैश्वर्यमनुभवन्ति दिव्याभरणसम्भारसमृद्ध्या सहजनिजशरीरकान्त्या च दीप्यन्त इति सुराः, सुरेषु विषये गतिः सुरगतिः । नृणन्ति - विवेकमासाद्य नयधर्मपरा भवन्तीति नराः-मनुष्यास्तेषु विषये गतिर्नरगतिः । " तिरि” चि प्राकृतत्वात् तिरोऽञ्चन्ति - गच्छन्तीति तिर्यञ्चः, भ्युत्पत्तिनिमित्तं चैतत् प्रवृत्तिनिमित्तं तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, ततस्तिर्यक्षु विषये गतिस्तिर्यग्गतिः । नरान् उपलक्षणत्वात् तिरश्वोऽपि प्रभूतपापकारिणः कायन्तीव आयतीवेति नरका:- नरकावासास्तत्रोत्पन्ना जन्तवोऽपि नरकाः, नरको वा विद्यते येषां ते " अभ्रादिभ्यः " ( सि० ७ - २ - ४६ ) इत्यप्रत्यये नरकास्तेषु विषये गतिर्नरकगतिः १३ इहापि इन्द्रियशब्दस्य प्रत्येकं सम्बन्धाद् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिया इति २ । षट् कायाः - मू:- पृथ्वी जलम् आपः ज्वलनं तेजः अनिलः - वायुः "वण" ति वनस्पतिः साः द्वीन्द्रियादयः ततः प्रत्येकं कायशब्दस्य योगात् पृथिव्येव कायः शरीरं यस्य स पृथिवीकायः, एवमप्कायः तेजस्कायः वायुकायः वनस्पतिकायः त्रस - काय इति ३। 'चः' समुच्चये । योगशब्दस्य प्रत्येकं सम्बन्धात् त्रयो योगाः, तथाहिमनोयोगः वचनयोगः तनुयोगः । तत्र तनुयोगेन मनः प्रायोग्यवर्गणाभ्यो गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानि वस्तुचिन्ताप्रवर्तकानि द्रव्याणि मन इत्युच्यन्ते, तेन मनसा सहकारिकारणभूतेन योगो मनोयोगः; मनोविषयो वा योगो मनोयोगः । उच्यत इति वचनं भाषापरिणामापन्नः पुद्गलद्रव्यसमूह इत्यर्थः, तेन वचनेन सहकारिकारणभूतेन योगो वचन - योगः, वचनविषयो वा योगो वचनयोगः । तनोति - विस्तारयत्यात्मप्रदेशानस्यामिति तनुरौदारिकादिशरीरं तया सहकारिकारणभूतया योगस्तनुयोगः, तनुविषयो ना योगस्तनुयोगः ४ ॥ १० ॥ बेय नरित्थिनपुंसा, कसाय कोहमयमायलोभ त्ति । महसुsaहिमणकेवलविभंगमइसुअमाणसागारा ॥ ११ ॥
बेदशब्दस्य प्रत्येकं सम्बन्धात् त्रयो वेदाः -- नरवेदः स्त्रीवेदः नपुंसकवेदः । तत्र नरस्य - १ शरीरेणीजभाहारस्त्वचा स्पर्शेन लोमाहारः । प्रक्षेपाहारः पुनः कावलिको भवति ज्ञातव्यः ॥