________________
देवेन्द्रसूरिविरचितखोपटीकोपेतः
केवलदर्शनलक्षणकेवलद्विकविहीनाः शेषा मतिज्ञानभुतज्ञानावधिज्ञानमत्यज्ञानश्रुताज्ञामविभङ्गज्ञानाचक्षुदर्शनाव चिदर्शनरूपा अष्टावुपयोगा भवन्ति ॥ ६ ॥
१२१
[ गाथा
उक्त जीवस्थानेषु उपयोगाः । साम्प्रतं जीवस्थानेष्वेव लेश्याः प्रतिपिपादयिषुराह - सन्निदुगि छ लेस अपज्जयायरे पढम चउ ति सेसेसु । .सच बंधुदीरण, संतुदया अट्ठ तेरससु ॥ ७ ॥
संज्ञिनो द्विकम् - अपर्याप्तपर्याप्तलक्षणं संज्ञिद्विकं तस्मिन्, संज्ञिन्यपर्याप्ते संज्ञिनि पर्याप्ते चेत्यर्थः, षड् लेश्याः - कृष्णनीलकापोततेजः पद्मशुक्ललक्षणा भवन्ति । अपर्याप्तबादरे प्रथमा - श्धतस्रः- कृष्णनीलकापोततेजोरूपा भवन्ति ।
तेजोलेश्या कथमस्मिन्नवाप्यते ! इति चेद् उच्यते--यदा
पुढेवी आउवणस्सइगब्भेपज्जत्तसंखजीवीसु ।
सम्गचुआणं वासो, सेसा पडिसेहिया ठाणा || ( वृ० सं० गा० १८० ) इति बचनात् कश्वनापि देवः स्वर्गलोकात् च्युतः सन् बादरैकेन्द्रियतया भूदकतरुषु मध्ये समुत्पद्यते तदा तस्य घण्टालालान्यायेन सा प्राप्यत इत्यदोषः ।
"ति सेसेसु" ति प्रथमा इत्यनुवर्तते, प्रथमास्तिस्रः - कृष्णनीलकापोतलक्षणाः 'शेषेषु' प्रागुक्तापर्याप्तपर्याप्तसंज्ञिपञ्चेन्द्रिया पर्याप्त बादरै केन्द्रिय वर्जितेषु अपर्याप्तपर्याप्त सूक्ष्मै केन्द्रिय २ द्वीन्द्रिय२त्रीन्द्रिय२ चतुरिन्द्रिया २ऽसंज्ञिपश्चेन्द्रिय २ पर्याप्त बाद रैकेन्द्रिय १ लक्षणेष्वेकादशसु जीवस्थानेषु भवन्ति ता नान्याः, तेषां सदैवाऽशुभपरिणामत्वात्, शुमपरिणामरूपाश्च तेजोलेश्यादयः ॥
तदेवं जीवस्थानकेषु लेश्या अभिधाय साम्प्रतमेतेष्वेव बन्धोदयोदीरणासत्ताख्यस्थानचतु - ष्टयमभिधित्सुराह—“सत्तट्ट बंधु" इत्यादि । सप्त वा अष्टौ वा सप्ताष्टाः, “सुज्वार्थे समा सङ्ख्येये सङ्घयया बहुव्रीहिः” ( सि. ३-१ - १९ ) इति सूत्रेण बहुव्रीहिसमासः, यथा द्वित्रा इत्यादौ । बन्धश्व उदीरणा च बन्धोदीरणे सप्ताष्टानां बन्धोदीरणे सप्ताष्टबन्धोदीरणे त्रयोदशसु जीवस्थानेषु संज्ञिपर्याप्तवर्जितेषु शेषेषु भवतः । एतदुक्तं भवति - अपर्याप्तसूक्ष्मैकेन्द्रिय १ पर्यातसूक्ष्मैकेन्द्रिया २ऽपर्याप्तबादरै केन्द्रिय ३ पर्याप्तबादरै केन्द्रिया ४ पर्याप्तद्वीन्द्रिय५ पर्याप्त द्वीन्द्रिया ६ऽपर्याप्तत्रीन्द्रिय ७ पर्याप्तत्रीन्द्रिया ८ पर्याप्तचतुरिन्द्रिय ९ पर्याप्तचतुरिन्द्रिया १० पर्याप्तासंज्ञिपश्चेन्द्रिय ११ पर्याप्तासंज्ञिपञ्चेन्द्रिया १२ऽपर्याप्त संज्ञिपञ्चेन्द्रिय १३ रूपेषु त्रयोदशसु जीवस्थानेषु सप्तानामष्टानां वा बन्धः, सप्तानामष्टानां वा उदीरणा । तथाहि यदाऽनुभूयमानभवायुष स्त्रिभागनवभागादिरूपे शेषे सति परभवायुर्बध्यते तदाऽष्टानामपि कर्मणां बन्धः, शेषकालं त्वायुषो बन्धाभावात् सप्तानामेव बन्धः । तथा यदाऽनुभूयमानभवायुरुदयावलिकावशेषं भवति तदा सप्तानामुदीरणा, अनुभूयमानभवायुषोऽनुदीरणात्, आवलिकाशेषस्योदीरणाऽनर्हत्वात् । उदीरणा हि उदयावलिका बहिर्वर्तिनीभ्यः स्थितिभ्यः सकाशात् कषायसहितेन कषायासहितेन वा योगकरणेन दलिकमाकृष्य उदयसमयप्राप्तदलिकेन सहाऽनुभवनम् ।
तथा चोक्तं कर्मप्रकृतिचूर्णो
१ पृध्य्यन्वनस्पति गर्भ पर्याप्त सातवर्ष जी विषु । स्वर्गच्युतानां वासः शेषाणि प्रतिविद्धानि स्थानानि ॥