________________
६] ... पडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१२३ बस्थानकेषु पर्याप्साऽपर्याप्तसूक्ष्मवादरैकेन्द्रिय द्वीन्द्रियपत्रीन्द्रिया८ऽपर्याप्तचतुरिन्द्रिया९ऽसंज्ञिपञ्चेन्द्रिय१० लक्षणेषु पूर्वोक्ताश्चत्वार उपयोगाश्चक्षुर्दर्शनं विना भवन्ति । अयमर्थः-पूर्वोक्तदशजीवस्थानकेषु चक्षुर्दर्शनवर्जा अचक्षुर्दर्शनमत्यज्ञानश्रुताज्ञानलक्षणास्त्रय उपयोगा भवन्ति ।
ननु स्पर्शनेन्द्रियावरणक्षयोपशमसम्भवाद् भवतु मतिरेकेन्द्रियाणाम् , यतु श्रुतं तत् कथं जापटीति ! भाषालब्धिोत्रेन्द्रियकब्धिमतो हि तद् उपपद्यते नान्यस्य । तदुक्तम्
भावमयं भासासोयलद्धिणो जुज्जए न इयरस्स । भासाभिमुहस्स सुयं, सोऊण व जं हविजाहि ॥
(विशेषा० गा० १०२) इति । उच्यते-इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यन्ते तथा सूत्रेऽभिधानात् , संज्ञा चामिलाप उच्यते । यदवादि परोपकारभूरिभिः श्रीहरिभद्रसूरिभिर्मूलावश्यकटीकायाम्
आहारसंज्ञा आहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणामविशेषः (पत्र ५८०) इति ।
अभिलाषश्च ममैवंरूपं वस्तु पुष्टिकारि तद यदीदमवाप्यते ततः समीचीनं भवतीत्येवं शन्दा. थोल्लेखानुविद्धः खपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्राप्त्यध्यवसायरूपः; स च श्रुतमेव, शब्दार्थालोचनानुसारित्वात् , श्रुतस्यैवैतल्लक्षणत्वात् ।। यदवादिषुर्दलितप्रवादिकुवादाः श्रीजिनभद्रगणिक्षमाश्रमणपादाः
इंदियमणोनिमित्तं, जं विनाणं सुयाणुसारेणं ।
निययत्थुत्तिसमत्थं, तं भावसुयं मई सेसं ॥ (विशेषा० गा० १००) "सुयाणुसारेणं" ति शब्दार्थालोचनानुसारेण । केवलमेकेन्द्रियाणामव्यक्त एव कश्चनाप्यनिर्वचनीयः शब्दाथोल्लेखो द्रष्टव्यः, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः । यदप्युक्तम्-भाषालब्धिश्रोत्रेन्द्रियलब्धिविकलत्वाद् एकेन्द्रियाणां श्रुतमनुपपन्नमिति, तदप्यसमीक्षिताभिधानम् , तथाहि-बकुलादेः स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धिविकलत्वेऽपि किमपि सूक्ष्म भावेन्द्रियपश्चकविज्ञानमभ्युपगम्यते "पंचिंदिओ व बउलो नरु व सबविसओवलंभाओ" इत्यादिव. चनप्रामाण्यात् । तथा भाषाश्रोत्रेन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रुतमपि मविष्यति, अन्यथाऽऽहारादिसंज्ञाऽनुपपत्तेः । यदाह प्रशस्यभाष्यसस्यकाश्यपीकल्पः श्रीजिनभद्रगणिक्षमाश्रमण:
जैह सुहमं भाविंदियनाणं दबिंदियांण विरहे वि ।
दवसुयाभावम्मि वि, भावसुयं पस्थिवाईणं ।। (विशेषा० गा० १०३) इति । संज्ञी चासौ अपर्याप्तश्च संश्यपर्याप्तः तस्मिन् संश्यपर्याप्ते मनःपर्यवज्ञानचक्षुर्दर्शनकेवलज्ञान१ भावश्रुतं भाषाप्रोत्रलब्धिकस्य युज्यते नेतरस्य । भाषाभिमुखस्य श्रुतं श्रुखा वा यद् भवेत् । २ इन्द्रियमनोनिमित्तं यद् विज्ञानं श्रुतानुसारेण । निजकार्योक्तिसमयं तद् भावश्रुतं मतिः शेषम् ॥ ३ पञ्चेन्द्रिय इव बकुलो नर इव सर्वविषयोपलम्भात् ॥ ४ यथा सूक्ष्मं भावेन्द्रियकानं द्रव्येन्द्रियाणां बिरहेऽपि । द्रव्यश्रुताभावेऽपि भावभुतं पृथिव्यादीनाम् ॥ ५ °यावरोहे वि । तह दवयाभावे भा' इति विशेषाः वश्यकभाष्ये ॥