________________
१२२
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
औदारिकप्रयोक्ता, प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु || कार्मणशरीरयोगी, चतुर्थके पञ्चमे तृतीये च ।
[ गाथा
( प्रश. का. २७६-७७ ) इति ।
'पर्याप्ते' सूक्ष्मे सूक्ष्मैकेन्द्रिये औदारिककाययोगो भवति । पर्यासशब्दश्ध "सबे सन्निपजते" इति पदाद् डमरुकमणिन्यायेन सर्वत्र योज्यः । " चउसु" त्ति चतुर्षु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु तदेवौदारिकं भवति । किं केवलम् ! न इत्याह- ' सभाष' सह भाषया असत्यामृषाखरूपया " विगलेसे असच्चामोसा” इति वचनाद् वर्तत इति सभाषम् । कोऽर्थः ? विकलत्रिकासंज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु औदारिककाययोगाऽसत्यामृषाभाषालक्षणौ द्वौ योगावित्यर्थः । तद् इत्यनुवर्तते, तद् औदारिकं सह वैक्रियद्विकेन - वैक्रियवैक्रियमिश्रलक्षणेन वर्तत इति सवैक्रियद्विकं बादरै केन्द्रियपर्याप्ते भवति । अयमर्थः - बादरै केन्द्रिये पर्याप्ते औदारिककाययोगवैक्रिय काययोगवैक्रियमिश्र काययोगलक्षणास्त्रयो योगा भवन्ति । तत्र औदारिककाययोगः पृथिव्यम्बुतेजोवनस्पतीनाम्, वैक्रियद्विकं तु वायुकायस्येति ॥
प्ररूपिता जीवस्थानेषु योगाः । साम्प्रतमुपयोगाः प्ररूपणावसरप्राप्ताः, ते च द्वादश । तद्यथा - मतिज्ञान १ श्रुतज्ञान २ अवधिज्ञान ३ मनः पर्यवज्ञान ४ केवलज्ञान ५ लक्षणानि पञ्च ज्ञानानि, मत्यज्ञान १ श्रुताज्ञान २ विभङ्ग ३ रूपाणि त्रीण्यज्ञानानि, चक्षुर्दर्शना १ऽचक्षुर्दर्शना २ऽवधिदर्शन ३ केवलदर्शन ४ रूपाणि चत्वारि दर्शनानि इत्येतानुपयोगान् जीवस्थानकेषु दिदर्शयिषुराह - "पजसन्निसु बार उवओग" त्ति पजशब्देन पर्याप्त उच्यते, ततः पर्याप्ताश्च ते संज्ञिनश्व पर्याप्तसंज्ञिनः, तेषु पर्याप्त संज्ञिषु 'द्वादश' द्वादशसङ्ख्या उपयोगा भवन्ति । ते चक्रमेणैव न तु युगपत्, उपयोगानां तथाजीवस्वभावतो यौगपद्यासम्भवात् । उक्तं च-“सैमए दो णुवओगा” इति । श्रीभद्रबाहुखामिपादा अप्याहुः
नामि दंसणम्मिय, एतो एगयरयम्मि उवउत्ता । सबस्स केवलिस्सा, जुगवं दो नत्थि उवओगा ||
( आ. नि. गा. ९७९) इति ॥ ५ ॥ पजचउरिंदिअसन्निनु, दुदंस दुअनाण दससु चक्खु विणा । सन्निपचे मणनाणचक्खुकेबलदुगविणा ॥ ६ ॥
चतुरिन्द्रियाश्च असंज्ञिनश्च चतुरिन्द्रियासंज्ञिनः, पर्याप्ताश्च ते चतुरिन्द्रियासंज्ञिनश्च तेषु पर्याप्तचतुरिन्द्रियासंज्ञिषु चत्वार उपयोगा भवन्ति । के ? इत्याह - "दुदंस दुअनाण" चि दर्श: - दर्शनम्, द्वयोर्दर्शयोः समाहारो द्विदर्श-चक्षुर्दर्शनाऽचक्षुर्दर्शनलक्षणम् ; द्वयोरज्ञानयोः समाहारो व्यज्ञानं - मत्यज्ञानश्रुताज्ञानरूपम् । अयमर्थः पर्याप्तचतुरिन्द्रियेषु पर्याप्तासंज्ञिपश्चेन्द्रियेषु च मत्यज्ञानश्रुताज्ञानचक्षुर्दर्शनाऽचक्षुर्दर्शनलक्षणाश्चत्वार उपयोगा भवन्ति । दशम्लु जी
१ विकलेषु असत्यामृषा इति ॥ २ समये द्वो नोपयोगो ॥ ३ ज्ञाने दर्शने चानयोरेकतरस्मिनुपयुक्ताः । सर्वस्य केवलिनो युगपद् द्वौ न स्त उपयोगी ॥