________________
पडशीतिगामा चतुर्थः कर्मग्रन्थः ।
१२१ अपर्याप्तानां-सूक्ष्मवादरद्वित्रिचतुरसंक्षिपञ्चेन्द्रियाणां षट्कं अपर्याप्तषट्कं तस्मिन् अपर्याप्तषट्के संक्षिपञ्चेन्द्रियापर्याप्तवर्जितेषु षट्सु अपर्याप्तेषु योगौ भवतः। द्विवचनस्य बहुवचनं प्राकृतत्वात् , यथा--"हत्था पाया" इत्यादौ । को योगौ ! इत्याह-कार्मणौदारिकमिश्रौ । तत्र कार्मणकाययोगोऽपान्तरालगतावुत्पत्तिप्रथमसमये च, शेषकालं त्वौदारिकमिश्रका• ययोगः । “अपजसन्निसु ते सविउबमीस" ति 'अपर्याप्तसंक्षिषु' संझ्यपर्याप्तजीवेषु 'तौ' पूर्वोक्तौ कार्मणौदारिकमिश्रकाययोगी भवतः, किं केवलौ ! न इत्याह-सह वैक्रियमिश्रेण वतेते इति सवैक्रियमित्रौ । तथा चापर्याप्तसंज्ञिनि त्रयो योगा भवन्ति कार्मणकाययोग
औदारिकमिश्रकाययोगो वैक्रियमिश्रकाययोगश्च । तत्र कार्मणकाययोगोऽपान्तरालगतावुत्पत्तिप्रथमसमये च, शेषकालं तु तिर्यब्मनुष्ययोरौदारिकमिश्रकाययोगः । संज्ञिनोऽपर्याप्तस्य देवनारकेषु पुनरुत्पद्यमानस्य वैक्रियमिश्रकाययोगो द्रष्टव्यो न शेषस्य, असम्भवात् , मिश्रता चात्र कार्मणेन सह द्रष्टव्या । अत्रैव मतान्तरमुपदर्शयन्नाह-'एषु' पूर्वनिर्दिष्टेषु शेषपर्यात्यपेक्षयाऽपर्याप्तेषु तनुपर्याप्या पर्याप्तेषु शरीरपर्याप्तेष्वित्यर्थः 'औदारिकम्' औदारिककाययोगम् 'अन्ये' केचिदाचार्याः शीलाद्वादयः प्रतिपादयन्तीति शेषः, शरीरपर्यात्या हि परिसमाप्तिवत्या किल तेषां शरीरं परिपूर्ण निष्पन्नमिति कृत्वा । तथा च तइन्थःऔदारिककाययोगस्तिर्यअनुष्ययोः शरीरपर्याप्तेरुव॑म् , तदारतस्तु मिश्रः ।
(आ. प्र. श्रु. द्वि० अ० पत्र ९४) इति ।। नन्वनया युक्त्या संज्ञिनोऽपर्याप्तस्य देवनारकेषुत्पद्यमानस्य तनुपर्याप्त्या पर्याप्तस्य वैक्रियमपि शरीरमुपपद्यत एव किमिह तद् नोक्तम् ? इति, उच्यते---उपलक्षणत्वाद् एतदपि द्राव्यमित्यदोषः; यद्वा इहापर्याप्ता लब्ध्यपर्याप्तका एवान्तर्मुहूर्तायुषो द्रष्टव्याः, ते च तिर्या नुप्या एव घटन्ते, तेषामेवान्तर्मुहूर्तायुष्कत्वसम्भवात् , न देवनारकाः, तेषां जघन्यतोऽपि दशवर्षसहस्रायुष्कत्वात् । लब्ध्यपर्याप्तका अपि च जघन्यतोऽपि इन्द्रियपर्याप्तौ परिसमाप्तायामेव म्रियन्ते नार्वाग् इत्युक्तमागमाभिप्रायेण । ततस्तेषां लब्ध्यपर्याप्तकानां शरीरपर्यास्या पर्याप्तानामौदारिकमेव शरीरमुपपद्यते न वैक्रियमित्यदोषः ।
किश्चान्यमतकथनेनाऽयमभिप्रायः सूच्यते यद्यपि तेषां शरीरपर्याप्तिः समजनिष्ट तथापि इन्द्रियोच्छासादीनामबाप्यनिष्पन्नत्वेन शरीरस्यासम्पूर्णत्वाद् अत एव कार्मणस्याप्यद्यापि व्याप्रियमाणत्वाद् औदारिकमिश्रमेव तेषां युक्त्या घटमानकमिति ॥ ४ ॥
सब्बे सनिपजत्ते, उरलं सुहमे सभासु(स) तं चउम्।
वायरि सविउब्बिदुगं, पजसनिसु पार उबओगा ॥५॥ 'स' पञ्चदशापि योगा भवन्ति । तथाहि-चतुर्धा मनोयोगः चतुर्षा वाग्योगः सप्तमा काययोगः । क ! इत्याह-~-'संज्ञिपर्याप्ते' संज्ञी चासौ पर्याप्तश्च संज्ञिपर्याप्तः तस्मिन् संज्ञिपर्याप्ते ।
नन्वौदारिकमिश्रवैक्रियमिश्रकार्मणकाययोगाः कथं संज्ञिपर्याप्तस्य घटन्ते तेषामपर्याप्तावस्थामावित्वात् !, उच्यते-वैक्रियमित्रं संयतादेवैक्रियं प्रारममाणस्य प्राप्यते, औदारिकमिअकार्मणकाययोगौ तु केवलिनः समुद्धातावस्थायाम् । यदाह भगवानुमाखातिवाचकवरः
क. १६