________________
१२० देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा दृश्यादीनि, तेषां पर्याप्तावस्थायामेव भावात् । “सन्निपजे सबगुण" ति संज्ञिनि पर्याप्ते सर्वाण्यपि मिथ्यादृष्ट्यादीनि अयोगिपर्यन्तानि गुणस्थानकानि भवन्ति, संज्ञिनः सर्वपरिणामसम्भवात् । ___ अथ कथं संज्ञिनः सयोग्ययोगिरूपगुणस्थानकद्वयसम्भवः तद्भावे तस्याऽमनस्कतया संज्ञित्वायोगात् ?, न, तदानीमपि हि तस्य द्रव्यमनःसम्बन्धोऽस्ति, समनस्काश्चाऽविशेषेण संझिनो व्यवहियन्ते, ततो न तस्य भगवतः संज्ञिताव्याघातः । यदुक्तं सप्ततिकाचूर्णी
मणकरणं केवलिणो वि अस्थि तेण सन्निणो भन्नंति, मनोविन्नाणं पडुच ते सन्निणो न भवंति ति । ___ “मिच्छ सेसेसु" ति मिथ्यात्वं शेषेषु' भणितावशिष्टेषु पर्याप्तापर्याप्तसूक्ष्मपर्याप्तबादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाऽसंज्ञिपञ्चेन्द्रियलक्षणेषु सप्तसु जीवस्थानकेषु मिथ्यादृष्टिगुणस्थानमेव भवति न सासादनमपि, यतः परभवादागच्छतामेव घण्टालालान्यायेन सम्यक्त्वलेशमाखादय. तामुत्पत्तिकाल एवापर्याप्तावस्थायां जन्तूनां लभ्यते न पर्याप्तावस्थायाम् । अतः पर्याप्तसूक्ष्म१बादर२द्वि३त्रि४चतुपरसंज्ञिपञ्चेन्द्रियाणां६ तदभावः, अपर्याप्तसूक्ष्मैकेन्द्रियेऽपि न सासादनसम्भवः, सासादनस्य मनाक् शुभपरिणामरूपत्वात् , महासंक्लिष्टपरिणामस्य च सूक्ष्मैकेन्द्रियमध्ये उत्पादाभिधानादिति ॥ ३ ॥ ___ तदेवं निरूपितानि जीवस्थानकेषु गुणस्थानकानि । साम्प्रतं योगा वक्तुमवसरप्राप्तास्ते च पञ्चदश, तद्यथा--सत्यवाग्योगः १ असत्यवाग्योगः २ सत्यमृषावाग्योगः ३ असत्यामृषावाग्योगः ४ । तत्स्वरूपं चेदम्
सच्चा हिया सतामिह, संतो मुणयो गुणा पयत्था वा । तषिवरीया मोसा, मीसा जा तदुभयसहावा ।।
अणहिगया जा तीसु वि, सहु च्चिय केवलो असच्चमुसा । एवं मनोयोगोऽपि चतुर्धा द्रष्टव्यः ४ । काययोगः सप्तधा-औदारिकम् १ औदारिकमिश्रं २ वैक्रिय ३ वैक्रियमिश्रम् ४ आहारकम् ५ आहारकमिश्र ६ कार्मणं च ७ । तत्रौदारिककाययोगस्तियङ्मनुष्ययोः। तयोरेवापर्याप्तयोरौदारिकमिश्रकाययोगः । वैक्रियकाय. योगो देवनारकयोस्तियङ्मनुष्ययोर्वा वैक्रियलब्धिमतोः । वैक्रियमिश्रकाययोगोऽपर्याप्तयोर्देवनारकयोस्तियअनुष्ययोर्वा वैक्रियस्यारम्भकाले परित्यागकाले च । आहारकं चतुर्दशपूर्वविदः । आहारकमिश्रकाययोग आहारकस्य प्रारम्भसमये परित्यागकाले च । कार्मणकाययोगोऽष्टप्रकारकर्मविकाररूपशरीरचेष्टास्वरूपोऽन्तरालगतावुत्पत्तिप्रथमसमये केवलिसमुद्धातावस्थायां च । तानेतान् योगान् जीवस्थानकेषु व्याचिख्यासुराह---
अपजस्तछक्ति कम्मुरलमीस जोगा अपजसन्निसु ते ।
सविउव्वमीस एसुं, तणुपज्जेसुं उरलमन्ने ॥४॥ १मनःकरणं केवलिनोऽप्यस्ति तेन संझिनो भण्यन्ते । मनोविज्ञान प्रतील ते न मशिनः स्युः । २ सत्या हिता सतामिह सन्तो मुनयो गुणाः पदार्था वा । तद्विपरीता मृषा मिश्रा या तदुभयसभावा । अमधिकृता या तिसबपि शब्द एव केवलः असल्यामुषा ।।