________________
..-८]
पडशीतिनामा चतुर्थः कर्ममकाः । - उदयावलियाबाहिरिल्लठिईहिंतो कसाबसहियासहिएणं मोगकरणेणं दलियमाकड्डिन उनयपतदलिएण समं अणुमवणमुदीरणा । ___ ततः कथमावलिकागतस्योदीरणा भवति !, न च परमवायुषस्तदोदीरणासम्भवः, तखोदयाभावात् , अनुदितस्य च उदीरणाऽनर्हत्वात् । शेषकालं त्वष्टानामुदीरणा। सच उदयच प्राकृतत्वात् सन्तोदया, अष्टानामेव कर्मणां त्रयोदशसु जीबखानकेषु पूर्वेषु भवतः । तथाहि-एतेषु त्रयोदशसु जीवस्थानकेषु सर्वकालमष्टानामपि सत्ता, यतोऽष्टानामपि कर्मणा सत्ता उपशान्तमोहगुणस्थानकं यावदनुवर्तते । एते च जीवा उत्कर्षतो यथासम्भवमविरतसम्यग्दृष्टिगुणस्थानकवर्तिन एवेति । एवमुदयोऽप्येतेषु जीवस्थानेष्वष्टानामेव कर्मणां द्रष्टव्यः । तथाहि-सूक्ष्मसम्परायगुणस्थानकं यावदष्टानामपि कर्मणामुदयोऽवाप्यते, एतेषु च जीवखानकेषूत्कर्षतोऽपि यथासम्भवमविरतसम्यग्दृष्टिगुणस्थानकसम्भव इति ॥ ७॥
सत्तट्टछेगबंधा, संतुदया सत्त अट्ट चत्तारि।
सत्तह छ पंच दुर्ग, उदीरणा सन्निपजत्ते ॥८॥ संज्ञी चासौ पर्याप्तश्च संज्ञिपर्याप्तः तस्मिन् संज्ञिपर्याप्ते चत्वारो बन्धा भवन्ति । तद्यथा-- सप्तानां प्रकृतीनां बन्ध एकः, अष्टानां प्रकृतीनां बन्धो द्वितीयः, षण्णां प्रकृतीनां बन्धस्तृतीयः, एकस्याः प्रकृतेर्बन्धश्चतुर्थो बन्धः । तत्राऽऽयुर्वर्जानां सप्तानां कर्मप्रकृतीनां बन्धो जघन्येनाsन्तर्मुहूर्त यावद् उत्कर्षेण च त्रयस्त्रिंशत्सागरोपमाणि षण्मासोनानि अन्तर्मुहूर्तानपूर्वकोटित्रिभागाभ्यधिकानि । तथाऽऽयुर्वन्धकाले तासामष्टानां बन्धोऽजघन्योत्कर्षेणाऽन्तर्मुहूर्तप्रमाणः, आयुषि बध्यमानेऽष्टानां प्रकृतीनां बन्धः प्राप्यते, आयुषश्च बन्धोऽन्तर्मुहूर्तमेव कालं भवति, न ततोऽप्यधिकम् । तथा एता एवाष्टावायुर्मोहनीयवर्जाः षट्, एतासां च जघन्येन एक समयं बन्धः । तथाहि-ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रान्तरायरूपाणां षण्णां प्रकृतीनां बन्धः सूक्ष्मसम्परायगुणस्थाने, तत्र चोपशमश्रेण्यां कश्चिदेकं समयं स्थित्वा द्वितीयसमये भवक्षयेण दिवं गतः सन् अविरतो भवति, अविरतत्वे चावश्यं सप्तप्रकृतीनां बन्धक इति षण्णां बन्धो जघन्येनैकं समयं यावद् , उत्कर्षेण स्वन्तर्मुहूर्तम् , सूक्ष्मसम्परायगुणस्थानस्याऽऽन्तर्मोहूर्तिकत्वात् । तथा सप्तानां प्रकृतीनां बन्धन्यवच्छेदे सत्येकस्याः सातवेदनीयरूपायाः प्रकृतेर्बन्धः, सच जघन्येनैकं समयम् , एकसमयता चोपशमश्रेण्यामुपशान्तमोहगुणस्थाने प्राग्वद्भावनीया, उत्कपेण पुनर्देशोना पूर्वकोटिं यावत् । स चोत्कर्षतः कस्य वेदितव्यः इति चेद उच्यते-यो गर्मवासे माससप्तकमुषित्वाऽनन्तरं शीघ्रमेव योनिनिष्कमणजन्मना जातो वर्षाष्टकाचोवं संयम प्रतिपन्नः, प्रतिपत्त्यनन्तरं च क्षपकश्रेणिमारुह्य उत्पादितकेवलज्ञानदर्शनः, तस्य सयोगिकेवलिनो वेदितव्यः । अयं चात्र तात्पर्यार्थः-मिथ्यादृष्ट्याचप्रमत्तान्तेषु सप्तानामष्टानां वा बन्धः, आयुर्बन्धाभावाद् अपूर्वकरणानिवृत्तिबादरयोश्च सप्तानां बन्धः, सूक्ष्मसम्पराये षण्णां बन्धः, उपशान्तमोहादिष्वेकस्याः प्रकृतेर्बन्धः । तथा सच उदयश्च प्राकृतत्वात् सन्तोदया, ततः
उदयावलिकाबायस्थिविभ्यः कषायसहितासहिवन योगकरणेन दलिकमाकृष्य उदयप्राप्तदलिकेन समं अनुभवनमुदीरणा ॥