________________
शीतिनामा चतुर्थः कर्मग्रन्थः ।
११७
।
इन्द्रिये येषां ते द्वीन्द्रियाः कृमिपूतरकचन्दनकशङ्खकपर्दजलौकाप्रभृतयः । त्रीणि स्पर्शनरस - नम्राणरूपाणि इन्द्रियाणि येषां ते त्रीन्द्रियाः कुन्धुमत्कुणयूकागर्द मेन्द्रगोपकमत्कोटकादयः । चत्वारि स्पर्शनरसनप्राणचक्षुर्लक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः अमरमक्षिकामशकवृविकादयः । पञ्च स्पर्शनर सनत्राणचक्षुः श्रोत्रलक्षणानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः मत्स्यमकरेभकलभसारसहंसनरसुरनारकादयः, ते च द्विविधाः - संज्ञिनोऽसंज्ञिनश्च । तत्र संज्ञानं संज्ञा - भूतभवद्भाविभावस्वभावपर्यालोचनम्, “उपसर्गादातः " ( सि० ५ -३ - ११० ) इत्यप्रत्ययः, सा विद्यते येषां ते संज्ञिनः - विशिष्टस्मरणादिरूपमनोविज्ञानमाज इति यावत्, तद्विपरीता असंज्ञिन:- विशिष्टस्मरणादिरूप मनोविज्ञान विकला इत्यर्थः । एते च सूक्ष्मैकेन्द्रियादयः प्रत्येकं द्विधा - पर्याप्तका अपर्याप्तकाश्च । पर्याप्तिर्नाम - पुद्गलोपचयजः पुद्गलग्रहणपरिणमनहेतुः शक्तिविशेषः, सा च विषयभेदात् षोढा - आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रयपर्याप्तिः ३ उच्छ्रासपर्याप्तिः ४ भाषापर्याप्तिः ५ मनः पर्याप्तिः ६ चेति । तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः १ । यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुकलक्षण सप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २ । यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३ । यया पुनरुच्छ्रासप्रायोग्यवर्गणादलिकमादाय उच्छ्वासरूपतया परिणमय्याऽऽलम्ब्य च मुञ्चति सा उच्छ्रासपर्याप्तिः ४ । यया तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भाषात्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा भाषापर्याप्तिः ५ । यया पुनर्मनोयोग्यवर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा मनःपर्याप्तिः ६ । एताश्च यथाक्रममेकेन्द्रियाणां द्वीन्द्रियादीनां संज्ञिनां च चतुःपवषट्ा भवन्ति । यदभाणि
आहारसरीरंदिय, पज्जती आणपाणुभासमणे । चचारि पंच छप्पिय, एगिंदियविगलसन्नीणं ॥
अप्रत्ययः,
पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः, “अम्रादिभ्यः " ( सि० ७ - २-४६ ) इति मत्वर्थीयः स्वार्थिककप्रत्ययोपादानात् पर्याप्तकाः । ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्ति विकलास्तेऽपर्याप्तकाः, ते च द्विषा लब्ध्या करणैश्च । तत्र येऽपर्याप्तका एव सन्तो म्रियन्ते न पुनः स्वयोग्य पर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि - शरीरेन्द्रियादीनि न तावद् निर्वर्तयन्ति अथ चावश्यं पुरस्ताद् निर्वर्तयिष्यन्ति ते करणापर्याप्तकाः । इह चैवमागम:
लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव म्रियन्ते नार्वाग, यस्मादागामिभवायुर्बद्धा म्रियन्ते सर्व एव देहिनः तचाऽऽहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यते । इति ॥ २ ॥
तदेवं निरूपितानि जीवस्थानानि । अथैतेष्वेव जीवस्थानेषु गुणस्थानानि प्रचिकटयिषुराह -
१ आहारशरीरेंद्रियाणि पर्याप्तय आनप्राण भाषामनांसि । चतस्रः पश्च षडपि च एकेन्द्रिय विकलसंज्ञिनाम् ॥