________________
११६ देवेन्द्रसूरिविरचितखोपाटीकोपेतः
[गाया न कृष्णाद्यन्यतमलेश्यापरिणामो जायते तावद् न तस्य स्थितिपाकविशेषो भवति, "खितिपाकविशेषस्तस्य भवति लेश्याविशेषेण" इति वचनप्रामाण्यात् , ततो योगवशादुपातस्य कर्मणो लेश्याविशेषतः स्थितिपाकविशेषो भवतीति प्रतिपत्तये योगानन्तरं लेश्याग्रहणम् ६ । लेश्यावन्तश्च यथायोग्यैर्बन्धहेतुभिः कर्मबन्धोदयोदीरणासत्ताः प्रकुर्वन्तीति ज्ञापनाय लेश्यानन्तरं बन्धग्रहणम् ७ । बन्धोदयादियुक्ताश्च जीवा मार्गणास्थानाधाश्रित्य नियमतः परस्परमल्पे वा भवेयुर्वहवो वेति निवेदनार्थ बन्धानन्तरमल्पबहुत्वग्रहणम् ८ । ते च जीवा मार्गणास्थानादिप्वल्पे वा बहवो वा भवन्तोऽवश्यं षण्णामौपशमिकादिभावानां केषुचिद् भावेषु वर्तन्त इति प्रकटनार्थमल्पबहुत्वानन्तरं भावग्रहणम् ९ । औपशमिकादिभाववतां च जीवानामल्पबहुत्वं नियमतः सोयकेन असाध्येयकेन अनन्तकेन वा निरूपणीयमिति भावग्रहणानन्तरं सोयकादिग्रहणम् १० इति ।
यद्यपि चेह सामान्येनोक्तं "जीवस्थानादि वक्ष्ये" तथाप्येवं विशेषतो द्रष्टव्यम्-जीवस्थानकेषु गुणस्थानकयोगोपयोगलेश्याकर्मबन्धोदयोदीरणासत्ता वक्ष्ये, मार्गणास्थानकेषु पुनर्जीवसानकगुणस्थानकयोगोपयोगलेश्याऽल्पबहुत्वानि, गुणस्थानकेषु च जीवस्थानकयोगोपयोगलेश्यावन्धहेतुबन्धोदयोदीरणासत्ताऽल्पबहुत्वानि । तत्र गाथा:
चउदसजियठाणेसुं, चउदस गुणठाणगाणि १ जोगा य २। उपयोग ३ लेस ४ बंधु ५ दउ ६ दीरणा ७ संत ८ अट्ठ पए ॥ चउदसमग्गणठाणेसु, मूलपएसुं बिसहि इयरेसु ।।
जिय १ गुण २ जोगु ३ वओगा ४, लेस ५ ऽप्पबहुं ६ च छट्ठाणा ॥ चउदसगुणठाणेसुं, जिय १ जोगु २ वओग ३ लेस ४ बंधा ५ य ।
बंधु ६ दयु ७ दीरणाओ ८, संत ९ ऽप्पबहुं १० च दस ठाणा ॥ इति ॥ १ ॥ तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमं तावद् जीवस्थानानि निरूपयन्नाह
इह मुहुमबायरेगिंदिबितिचउअसन्निसनिपंचिंदी।
अपजत्ता पजत्ता, कमेण चउदस जियहाणा ॥२॥ 'इह' अस्मिन् जगति अनेन क्रमेण चतुर्दश जीवस्थानानि प्रामिरूपितशब्दार्थानि भवन्ति । केन क्रमेण ! इति चेद् , इत्याह-सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंचिसज्ञिपञ्चेन्द्रियाः, एते च सर्वेऽपि प्रत्येक पर्यासका अपर्याप्तकाश्चेति । तत्र एक स्पर्शनलक्षणमिन्द्रियं येषां त एकेन्द्रियाः पृथिव्यतेजोवायुवनस्पतयः, ते च प्रत्येकं द्वेषा-सूक्ष्मा बादराश्च । सूक्ष्मनामकोंदयात् सूक्ष्माः सकललोकव्यापिनः, बादरनामकर्मोदयाद बादराः तेच लोकप्रतिनियतदेशवर्तिनः । द्वित्रिचतुरसंज्ञिसंक्षिपञ्चेन्द्रिया इति, इन्द्रियशब्दस्य प्रत्येकं योगाद् द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रिया असंज्ञिसंज्ञिमेदमिन्नाश्च पञ्चेन्द्रियाः । तत्र द्वे स्पर्शनरसनलक्षणे
चतुर्दशजीवस्थानेषु चतुर्दश गुणस्थानकानि योगाश्च । उपयोगळेश्याबन्धोदयोरीरणासत्ता अष्ट पदानि ॥ चतुर्दशमार्गणास्थानेषु मूलपदेषु द्विषष्टिरितरेषु । जीवगुणयोगोपयोगा लेश्याऽल्पबहुत्वं च पर स्थानानि ॥ चतुर्दशगुणस्थानेषु जीषयोगोपयोगलेश्यावन्धाय । बन्धोदयोगीरणाः सत्ताऽल्पबहुलं च दश स्थानानि ।।