________________
॥ अहम् ॥ पूज्यश्रीदेवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः षडशीतिनामा चतुर्थः कर्मग्रन्थः।
॥ ॐ नमः प्रवचनाय॥
यद्भाषितार्थलवमाप्य दुरापमाशु, श्रीगौतमप्रभृतयः शमिनामधीशाः । सूक्ष्मार्थसार्थपरमार्थविदो बभूवुः, श्रीवर्धमानविभुरस्तु स वः शिवाय ॥ १॥ निजधर्माचार्येभ्यो, नत्वा निष्कारणैकबन्धुभ्यः ।
श्रीषडशीतिकशास्त्र, विवृणोमि यथागमं किञ्चित् ॥ २॥ तत्राऽऽदावेवाऽभीष्टदेवतास्तुत्यादिप्रतिपादिकामिमां गाथामाह
ममिय जिणं जियमग्गणगुणठाणुवओगजोगलेसाओ।
पंधऽपबहूभावे, संखियाई किमवि वुच्छं ॥१॥ जिनं नत्वा जीवखानादि वक्ष्य इति सम्बन्धः । तत्र 'नत्वा' नमस्कृत्य, नमस्कारो हि चतुर्धा-द्रव्यतो नामैको न मावतो यथा पालकादीनाम् १, भावतो नामैको न द्रव्यतो यथाऽनुसरोपपातिसुरादीनाम् २, एको द्रव्यतोऽपि भावतोऽपि यथा शम्बकुमारप्रमृतीनाम् ३, एकोन द्रव्यतो नापि भावतो यथा कपिलादीनाम् ४ । ततो द्रव्यभावरूपेण भावनमस्कारेण नमस्कृत्य । कम् ! इत्याह-'जिन' रागद्वेषमोहादिदुरवैरिवारजेतारं वीतरागम् , परमाईन्त्यमहिमालतं तीर्थकरमित्यर्थः । अनेन परमाभीष्टदेवतानमस्कारेण ऐकान्तिकमात्यन्तिकभावमङ्गलमाह, तेन च शास्त्रस्याऽऽपरिसमाप्तेर्निष्पत्यूहता भवतीति । क्त्वाप्रत्ययस्य चोत्तरक्रियासापेक्षत्वाद् उत्तरक्रियामाह-जीवमार्गणागुणस्थानादि वक्ष्ये । इह खानशब्दस्य प्रत्येक योगाद् जीवस्थानानि, मार्गणास्थानानि, गुणस्थानानि । तत्र जीवन्ति-यथायोग्यं प्राणान् धारबम्तीति जीवाः प्राणिनः शरीरमृत इति पर्यायाः, तेषां जीवानां सानानि-सूक्ष्मापासकेन्द्रिमत्वादयोऽवान्तरविशेषाः, तिष्ठन्ति जीवा एषु इति कृत्वा जीवस्थानानि १। मार्गणजीवादीनां पदार्थानामन्वेषणं मार्गणा, तस्याः सानानि-आश्रया मार्गणासानानि वक्ष्यमा णानि गत्यादीनि २। गुणाः मानदर्शनचारित्ररूपा जीवखमाबविशेषाः, स्थानं-पुनरेतेषां शुधशुद्धिप्रकर्षापकर्षकृतः खरूपमेदः, तिष्ठन्ति गुणा अस्मिन्निति कृत्वा, गुणानां स्थानानि गुणस्थानानि-परमपदप्रासादशिखरारोहणसोपानकल्पानि खोपज्ञकर्मस्तवटीकायां सविस्तरमभिहितानि इहैव वा किञ्चिद्वक्ष्यमाणानि मिथ्याष्टिप्रमृतीनि चतुर्दश ३। “उवओग" ति उपयोजनमुपयोगः-बोधरूपो जीवव्यापारः, भावे घन्, यद्वा उपयुज्यते-वस्तुपरिच्छेदं प्रति