________________
११
षडशीतिनामा चतुर्थः कर्मप्रन्यः ।
११६
व्यापार्यत इत्युपयोगः, कर्मणि घञ्, यदि वा उपयुज्यते वस्तुपरिच्छेदं प्रति जीवोऽनेनेत्युपयोगः, “पुंनाम्नि धः" ( सि० ५ -३ - १३० ) इति करणे घप्रत्ययः, सर्वत्र जीवस्वतत्त्वभूतोऽबोध एवोपयोगो मन्तव्यः ४ | "योग" ति योजनं योगः - जीवस्य वीर्य परिस्पन्द इति यावत्, यदि वा युज्यते - धावनवस्गनादिक्रियासु व्यापार्यत इति योगः, कर्मणि घञ्, यद्वा युज्यते - सम्बध्यते धावनवल्गनादिक्रियासु जीवोऽनेनेति “पुंनाम्नि०" (सि० ५-३-१३० ) इति करणे घप्रत्ययः, स च मनोवाक्कायलक्षणसहकारिकारण मेदात् त्रिविधो वक्ष्यमाणखरूपः ५ | "लेसाउ" त्ति लिश्यते श्लिष्यते कर्मणा सहात्माऽनयेति लेश्या, कृष्णादिद्रव्यसाचि - व्यादात्मनः शुभाशुभपरिणामविशेषः । यदुक्तम् —
कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥ इति ।
सा च षोढा – कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्कलेश्या । आसां च स्वरूपं जम्बूफलखादकषट्पुरुषीदृष्टान्तेन ग्रामघातनप्रचलित चौरषट्कदृष्टान्तेन वा एवमवसेयम्
जैह जंबुपायवेगो, सुपक्कफलभरियन मियसाहग्गो । दिट्ठो छहिँ पुरिसेहिं, ते बिंती जंबु भक्खेमो || हि पुणते ? बितेगो, आरुहणे हुज्ज जीयसंदेहो । तो छिंदिऊण मूलाउ पाडिउं ताई भक्खेमो ॥ asserti, किं छित्रेण तरुणा उ अम्हं ? ति । साहा महल छिंदह, तइओ बेई पसाहा उ ॥ गुच्छे चउत्थओ पुण, पंचमओ बेइ गिण्हह फलाई । छट्टो उ बेइ पडिया, एए यि खायहा वित्तुं ॥ दिट्टंतस्सोवणओ, जो बेइ तरुं तु छिंद मूलाओ । सो वह किण्हाए, साह महल्लाउ नीलाए || हवह पसाहा काऊ, गुच्छा तेऊ फलाइँ पम्हाए । पडियाइँ सुक्कलेसा, अहवा अनं इमाऽऽहरणं || चोरा गामवहत्यं, विणिग्गया एगु बेइ घाएह ।
१ यथा जम्बूपादप एकः सुपक्कफलभरितनतशाखामः । दृष्टः षड्भिः पुरुषेस्ते जुबते जम्मूः भक्षयामः ॥ कथं पुनस्ताः [ भक्षयामः ] ! ब्रवीत्येकः आरोहणे भवेद् जीवसन्देहः । ततश्छित्वा मूलतः पातयित्वा ताः भक्षयामः ॥ द्वितीय आह एतावता किं छिनेन तरुणा तु अस्माकम् ? इति । शाखा महतीरिछन्त तृतीयो ब्रवीवि प्रशावास्तु ॥ गुच्छांचतुर्थकः पुनः पञ्चमो वीति गृहीत फलानि । षष्ठस्तु प्रबीति पतिताः एताः एव स्वादत गृहीत्वा ॥ दृष्टान्तस्योपनयो यो ब्रवीति तरं तु छिन्त मूलतः । स वर्तते कृष्णायां शास्त्रा महतीनलायाम् ॥ भवति प्रशाखाः कापोती गुच्छांस्तैजसी फलानि पद्मा । पतितानि शुक्ललेश्या अथवाऽन्यदिदमाहरणम् ॥ चौरा Aneer विनिर्गता एको ब्रवीति घातयत ।
क० १५