________________
२२-२४] कन्धलामित्वाख्यस्तृतीयः कर्ममन्यः । ष्टकं मुक्त्वा शेषस्य द्वादशोत्तरशतस्याऽनाहारके सामान्येन बन्धः । तथा जिननाम सुरद्विकं बैक्रियद्विकं च द्वादशोत्तरशतमध्याद मुक्त्वा शेषस्य सप्तोत्तरशतस्यानाहारके मिथ्यादृष्टौ बन्धः। तथा सूक्ष्मादित्रयोदश प्रकृतीर्मुक्त्वा शेषायाश्चतुर्नवतेः सासादनथेऽनाहारके बन्धः । तथाऽनन्तानुबन्ध्यादिचतुर्विशतिपकृतीश्चतुर्नवतेमध्याद् मुक्त्वा शेषायाः सप्ततेर्जिननामसुरद्विकवैक्रियद्विकयुक्तायाः पञ्चसप्ततेरविरतेऽनाहारके बन्धः । तथा सयोगिनि केवलिसमुद्धाते तृतीयचतुर्थपञ्चमसमयेष्वनाहारक एकस्याः सातप्रकृतेर्बन्धः ॥ २३ ॥
अथ प्राग् यदुक्तं लेश्याद्वारे-“साणाइसु सबहिं ओहो" ति (गा० २१) “सासादनादिषु गुणस्थानेषु सर्वत्र लेश्याषट्के ओषो द्रष्टव्यः" इति, तत्र न ज्ञायत आदिशब्दात् कस्यां लेझ्यायां कियन्ति गुणस्थानानि गृपन्ते ! इत्यतो लेश्यासु गुणस्थानकान्युपदर्शयन् प्रकरणसमर्थनां प्रकरणज्ञानोपायं चाह
तिसु दुसु सुक्काइ गुणा, चउ सग तेर ति बंधसामित्तं ।
देविंदसूरिलिहियं, नेयं कम्मत्थयं सोउं ॥ २४ ॥ व्याख्या-'तिसृषु' आद्यासु कृष्णनीलकापोतलेश्यासु "चउ" इत्यादिना यथाक्रम सम्बन्धात् 'चत्वारि' मिथ्यात्वसासादनमिश्राविरतरूपाण्याद्यानि गुणस्थानानि प्राप्यन्ते, एतदुणस्थानच. तुष्के परिणामविशेषतः षण्णामपि लेश्यानां भावात् । 'द्वयोः' तेजःपद्मलेश्ययोमिथ्यात्वादीनि सस गुणस्थानानि, तयोरप्रमत्तगुणस्थानकान्तमपि यावद्भावात् । शुक्ललेश्यायां त्रयोदश मिथ्यात्वादीनि गुणस्थानानि, तस्या मिथ्यादृष्टिगुणस्थानात् प्रमृति यावत् सयोगिकेवलिगुणखानकं तावदपि भावात् । अयोगी त्वलेश्यः । इह च लेश्यानां प्रत्येकमसोयानि लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि मिथ्यादृष्यादी सम्भवो न विरुध्यते । तथा कृष्णादिलेश्यात्रयं यदिहाविरतगुणस्थानकान्तमुक्तं तद् बृहत पखामित्वानुसारेण, षडशीतिके तु तस्य प्रमत्तगुणस्थानकान्तं यावदभिहितत्वात् । तथाहि
लेसा तिनि पमतं, तेऊपम्हा उ अप्पमता। सुका जाव सजोगी, निरुद्धलेसो अजोगि ति ॥
(जिनवल्लमीयषडशीति गा०७३) तत्त्वं तु श्रुतधरा विदन्ति इति । प्रतिपावितं गत्यादिषु बन्धखामित्वम् , तत्प्रतिपादनाच समर्थितं बन्धखामित्वप्रकरणम् । इतिशब्दः परिसमाप्तौ । बन्धखामित्वमेतत् 'ज्ञेयं' बोद्धव्यं, कर्मस्तवं श्रुत्वा, अत्र बहुषु स्थानेषु तदुक्तवन्धातिदेशद्वारेण भणनात् ॥ २४ ॥
एतद्वन्यस्य टीकाभूत्, परं कापि न साऽऽप्यते। स्थानस्याऽशून्यताहेतोरतोऽलेल्यवर्णिका ॥ ॥ इति बन्धवामित्वावधूरिः समाप्ता॥
ग्रन्थानम् ४२६ अक्षराणि २८
१लेश्यास्तिस्रः प्रमत्तं [यावत् ] तेजःपग्रेतु अप्रमतान्तम् । शुका यावत् सयोगिनं निरुदळेश्योऽयोगीति॥