________________
११०
देवेन्द्रसूरिविरचितः सावचूरिकः
[ गाथा
व्याख्या -- 'आपलेश्यात्रिके' कृष्णनीलकापोतलेश्यात्रये वर्तमाना जीवाः 'ओघे' सामान्येन विंशत्युत्तरशतमाहारकद्विकोनं जातमष्टादशाधिकशतं तद् बध्नन्ति, आहारकद्विकस्म शुभलेश्याभिर्बध्यमानत्वात् । ' तद्' अष्टादशाधिकशतं तीर्थकरनामोनं सप्तदशोत्तरशतं मिथ्यात्वगुणस्थानके बध्नन्ति । सासादनादिषु गुणस्थानकेषु पुनः 'सर्वत्र' लेश्याषट्केऽपि 'ओषः' सामान्यबन्धो द्रष्टव्यः । ततोऽत्र सासादनमिश्राऽविरतेष्वोषः कर्मस्तवोक्तः ॥ २१ ॥ तेऊ नरयनवूणा, उजोयचउ नरयबार विणु सुक्का ।
विणु नरयबार पन्हा, अजिणाहारा इमा मिच्छे ॥ २२ ॥ व्याख्या - विंशत्युत्तरशतं नरकत्रिकादिप्रकृतिन व कोनं तेजोलेश्यायामोघत एकादशोत्तरं शतं बध्यते, कृष्णाद्यशुभलेश्याप्रत्ययत्वाद् नरकत्रिकादिप्रकृतिनव कबन्धस्य । इदमेवैकादशोतरशतं जिननामाहारकद्विकरहितं शेषमष्टोत्तरशतं मिथ्यात्वे बध्यते । सासादनादिषु षट्सु गुणस्थानकेषु ओघः विंशत्युत्तरशतमध्याद् उद्योतादिचतुष्कं नरकत्रिकादिद्वादशकं च मुक्त्वा शेषं चतुरुतरशतमोघतः शुक्कलेश्यायां बध्यते, उद्योतादिप्रकृतीनां तिर्यमरकप्रायोग्यत्वेन देवनरप्रायोग्यबन्धकैः शुक्कलेश्यावद्भिरबध्यमानत्वात् । एतदेव चतुरुतरं शतं जिननामाहारकद्विकरहितं शेषमेकोत्तरशतं मिथ्यात्वे बध्यते । सासादने तदीयैकोत्तरशतरूपौधबन्धाद् उद्योतादिप्रकृतिचतुष्टयापसारेण शेषाः सप्तनवतिर्बध्यते । मिश्रादिषु एकादशगुणस्थानकेषु तदवस्थः स्वगुणस्थानीयो बन्षो द्रष्टव्यः । विंशत्युत्तरशतमध्याद् नरकत्रिकादिप्रकृतिद्वादशकं विना शेषमष्टोत्तरशतं पद्मलेश्यायामोघतो बध्यते, तल्लेश्यावतां सनत्कुमारादिदेवानां तिर्यक्प्रायोग्यं बघ्नतामुद्योतादिप्रकृतिचतुष्कस्य बन्घसम्भवाद् नात्र तद्बन्धाभावः । एतदेवाष्टोत्तरशतं जिननामाहारकद्विकरहितं शेषं पञ्चोत्तरशतं मिथ्यात्वे बध्यते । सासादनादिषु षट्सु गुणस्थानकेषु यथास्थित एकोत्तरशतादिरूपः स्वखौघबन्धो द्रष्टव्यः । "अजेणाहारा इमा मिच्छे" चि प्रथमलेश्यात्रिकस्य "ओहे अट्ठारसयं" ( गा० २१ ) इत्यादिना निर्धारितत्वेने मास्तेजः पद्मशुक्ललेश्या मिथ्यात्वगुणस्थानके जिननामाहारकद्विकरहिता विज्ञेयाः, तेजोलेश्यादिषु नरकन वकाद्यूनो यः सामान्यबन्धः प्रतिपादितः स मिध्यात्वगुणस्थानके जिनादिप्रकृतित्रयरहितो विधेय इत्यर्थः । तथा च दर्शितमेव ॥ २२ ॥ सम्प्रति भव्यादिद्वाराण्यभिधीयन्ते -
सव्वगुणभव्वसन्निसु, ओहु अभव्वा असन्नि मिच्छासमा । सासणि असन्नि सन्नि व्य कम्मभंगो अणाहारे ॥ २३ ॥ व्याख्या --- सर्वगुणस्थान कोपेते भव्ये संज्ञिनि च मार्गणास्थाने सर्वगुणस्थानकौषः कर्मस्तवोक्तः । अभव्या असंज्ञिनश्च चिन्त्यमाना मिथ्यादृष्टिगुणस्थानकसमाः । अयमर्थः यथा मिथ्यात्वे सप्तदशोत्तरशतबन्धः कर्मस्तव उक्तस्तथाऽभव्योऽसंज्ञी च सामान्यतो मिथ्यात्वे च सप्तदशोचरशतं बध्नाति । सासादने पुनरसंज्ञी संज्ञिवत्, एकोत्तरशतबन्धक इत्यर्थः । अनाहारके तु मार्गणास्थाने कार्मणकाययोगभङ्गः “विणु तिरिनराउ कम्मे वि" ( गा० १५ ) इत्यादिना योगमार्गणास्थाने प्रतिपादितोऽवगन्तव्यः, कार्मणकाययोगस्थस्यैव संसारिणो नाहारकत्वात् । कार्मणभङ्गश्वायं विंशत्युत्तरशतमध्यादाहारकद्विकदेवायुर्नरकत्रिकतिर्यमरायुः प्रकृत्य