________________
१८-२१]
बन्धस्वामित्वाख्यस्तुतीयः कर्ममन्थः ।
१०९
तत्रौ एकोनाशीतिः, अविरते सप्तसप्ततिः, देशे सप्तषष्टिः इत्यादि याबदयोगिनि शून्यम् । क्षायिकसम्यक्त्वस्वरूपं त्विदम्
खीणे दंसणमोहे, तिविहम्मि वि भवनियाणमूयम्मि |
निप्पचवायमउलं, सम्मत्तं खाइयं होइ || ( श्राव० प्र० गा० ४८ ) तथा ‘मिथ्यात्वत्रिके' मिथ्यादृष्टि साखादन मिश्रलक्षणे 'देशे' देशविरते 'सूक्ष्मे' सूक्ष्मसम्पराये 'स्वस्थानं' निजस्थानम् । अयमर्थः --- मिथ्यात्वमार्गणास्थाने मिथ्यादृष्टिगुणस्थानम्, सासादनमार्गणास्थाने सासादनगुणस्थानम्, मिश्रमार्गणास्थाने मिश्रगुणस्थानम्, देशसंयममार्गणास्थाने देश विरत गुणस्थानम्, सूक्ष्मसम्परायसंयमे सूक्ष्मसम्परायगुणस्थानम् । अत्र च स्वस्वगुणस्थानीयो बन्धः, यथा —– मिथ्यात्वे ओघतो विशेषतश्च सप्तदशोत्तरशतम्, एवं सासादने एकोत्तरशतम्, मिश्रे चतुःसप्ततिः, देशे सप्तषष्टिः, सूक्ष्मे सप्तदशः । आहारकद्वारे त्रयोदश गुणस्थानानि मिथ्यादृयादीनि सयोगिकेवल्यन्तानि आहारके जीवे लभ्यन्ते, अयोगी त्वनाहारकः । तत्रौघतः विंशत्युत्तरशतम्, मिध्यात्वे सप्तदशोत्तरशतम्, इत्यादि यावत् सयोगिनि सातरूपैका प्रकृतिर्बन्धे भवति । एवं वेदादिषु मार्गणास्थानेषु गुणस्थान कान्युपदर्श्य सम्प्रति तेषु बन्धातिदेशमाह - “ नियनियगुणोहो” चि निजनिजगुणौषः, एतेषु वेदादिषु यानि स्वस्त्वगुणस्थानानि तेष्वोषः कर्मस्तवोक्तो बन्धे द्रष्टव्य इत्यर्थः । स च यथास्थानं भावित एव ॥ १९ ॥ यच्च प्रागुक्तम् “अष्टौपशमिकसम्यक्त्वे गुणस्थानानि” इति तत्र कञ्चिद्विशेषमाह - परमुवसमि वहंता, आउ न बंधंति तेण अजयगुणे । देवमणुआउहीणो, देसाइसु पुण सुराउ बिणा ॥ २० ॥
व्याख्या - सर्वत्र वेदादिषु निजनिजगुणोघो वाच्य इत्युक्तं परमौपशमिकेऽयं विशेष:-- औपशमिके वर्तमाना जीवा आयुर्न बघ्नन्ति तेनाऽयतगुणस्थान के देवमनुजायुर्भ्यां हीन ओषो वाच्यः, नरकतिर्यगायुषोः प्रागेव मिथ्यात्वसासादनयोरपनीतत्वान्न तद्धीनता । तथा 'देशा दिषु' देशविरतप्रमत्ताऽप्रमत्तेषु पुनरोषः सुरायुर्विना ज्ञेयः । औपशमिकसम्यक्त्वं तूपशमश्रेण्यां प्रथमसम्यक्त्वलामे वा भवति जीवस्य । उक्तं च-I
उ बसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं ।
जो वा अकयतिपुंजो, अस्खवियमिच्छो लहइ सम्मं ॥ (विशेषा० गा० ५२९, २७३५ )
ननु क्षायोपशमिकौपशमिकसम्यक्त्वयोः कः प्रतिविशेषः ?, उच्यते - क्षायोपशमिके मिथ्यात्वदलिक वेदनं विपाकतो नास्ति प्रदेशतः पुनर्विद्यते, औपशमिके तु प्रदेशतोऽपि नास्तीति विशेषः ॥ २० ॥ उक्तं बेदादिषु बन्धवामित्वम् । अथ लेश्याद्वारमुच्यतेओहे अट्ठारसयं, आहारदुगूण आइलेसतिगे ।
तं तित्थोणं मिच्छे, साणाइसु सव्वहिं ओहो ॥ २१ ॥
cym
१ क्षीणे दर्शनमोहे त्रिविधेऽपि भवनिदानभूते । निष्प्रत्यपायमतुलं सम्यक्त्वं क्षायिकं भवति ॥ २ उपशमणिमतस्य भवति औपशमिकं तु सम्यक्जम् । यो वाऽकृतत्रिपुचोऽक्षपितमिध्याजो उमते सम्यक्त्रम् ॥