________________
१०८
देवेन्द्रसूरिविरचितः सावचूरिकः
[ गाथा
द्वादश गुणस्थानानि, परतस्तु चक्षुरचक्षुषोः सतोरप्यनुपयोगित्वेनाव्यापारात् । तत्रौ विंशत्युत्तरशतम्, मिथ्यात्वे सप्तदशोत्तरशतम्, इत्यादि यावत् क्षीणमोहे सातबन्ध एकः । यथाख्याते चरमगुणस्थानकचतुष्कम्, तत्र सामान्यत एकः, उपशान्तमोहे एकः, क्षीणमोहे एकः, सयोगिनि एकः, अयोगिनि शून्यम् ॥ १७ ॥
मणनाणि सग जयाई, समय छेय चउ दुन्नि परिहारे । hareदुगि दो चरमाsजयाइ नव महसुओहिदुगे ॥ १८ ॥ व्याख्या - मनः पर्यायज्ञाने सप्त 'यतादीनि' प्रमत्तसंयतादीनि क्षीणमोहान्तानि । तत्र सामान्यत आहारकद्विकसहिता त्रिषष्टिजता पञ्चषष्टिः, प्रमते त्रिषष्टिः इत्यादि यावत् क्षीणमोहे एकः केवलसातबन्धः । सामायिके छेदोपस्थापने च चत्वारि यतादीनि गुणस्थानानि, लत्र सामान्यतः षञ्चषष्टिः, प्रमते त्रिषष्टिरित्यादि प्राग्वत्, सूक्ष्मसम्पराय गुणस्थानकादौ तु सूक्ष्मसम्परायादिचारित्रभावात् । तथा 'द्वे गुणस्थानके' प्रमत्ताश्मरूपे परिहार विशुद्धिकचारित्रे नोत्तराणि, तस्मिंश्चारित्रे वर्तमानस्य श्रेण्यारोहणप्रतिषेधात्, तत्र सामान्यतः पञ्चषष्टिः, प्रमत्ते त्रिषष्टिः, अप्रमते एकोनषष्टिरष्टपञ्चाशद्वा । 'केवलद्विके' केवलज्ञानकेवलदर्शनरूपे 'द्वे चरमे' अन्तिमे सयोगिकेवल्ययोगिकेवल्याख्ये गुणस्थानके भवतः, अत्रौघे एकस्य सातस्य बन्धः योगिनि च अयोगिनि शून्यम् । तथा मतिश्रुतयोः 'अवषिद्विके' च अवधिज्ञानावधिदर्शनलक्षणे 'अयतादीनि' अविरत सम्यग्दृष्ट्यादीनि क्षीणमोहपर्यवसानानि नव गुणस्थानकानि भवन्ति, सयोग्यादौ केवलोत्पत्त्या मत्यादेरभावात्, तत्रौषतोऽप्रमत्तादेर्मत्यादिमत आहारकद्विकस्यापि बन्धसम्भवाद् एकोनाशीतिः, विशेष चिन्तायामविरतादिगुणस्थानकेषु कर्मस्तवोक्तः सप्तसप्तत्यादिमितो बन्धो द्रष्टव्यः ॥ १८ ॥
"
अड उवसमि व वेयगि, खइए इक्कार मिच्छतिगि देखे । सुमि सठाणं तेरस, आहारगि नियनियगुणोहो ॥ १९ ॥ व्याख्या -- इह 'अयतादि' इति पदं सर्वत्र योज्यते । ततोऽयतादीनि उपशान्तमोहान्तान्यष्टौ गुणस्थानान्योपशमिकसम्यक्त्वे भवन्ति, तत्र सामान्यत औपशमिकसम्यक्त्वे वर्तमानानां देवमनुजायुषोर्बन्धाभावात् पञ्चसप्ततिः, अविरतेऽपि पञ्चसप्ततिः, देशे सुरायुरबन्धात् षट्षष्टिः, प्रमत्ते द्वाषष्टिः, अप्रमत्ते अष्टपञ्चाशद् इत्यादि यावदुपशान्ते एकः । 'वेदके' क्षायोपशमिकापरपर्यायेऽयतादीन्यप्रमत्तान्तानि चत्वारि गुणस्थानकानि, तत्रौघे एकोनाशीतिः, अविरते सप्तसप्ततिः, देशे सप्तषष्टिः, प्रमत्ते त्रिषष्टिः, अप्रमत्ते एकोनषष्टिरष्टपञ्चाशद्वा । अतः परमुपशमश्रेणावौपशमिकं क्षपकश्रेणी पुनः क्षायिकम्, क्षायोपशमिकसम्यक्त्वं तुदीर्णमिध्यात्वक्षयेऽनुदीर्णमिध्यात्वोपशमे च भवतीति । उक्तं च---
'मिच्छत्तं जमुहणणं, तं खीणं अणुइयं तु उवसंतं ।
मीसीभावपरिणयं, वेइज्जंतं खओवसमं ॥ (विशेषा० गा० ५३२ ) तथा क्षायिकसम्यक्त्वे अतादीनि अयोगिकेवलिपर्यवसानानि एकादश गुणस्थानकानि,
१ मिध्यानं यद् उदीर्णं तत् क्षीणमनुदितं तूपशान्तम् । मिश्रीभागपरिणतं वेद्यमानं क्षयोपशमम् ॥