________________
१६-१७] बन्धखामित्वाल्यस्तृतीयः कर्मग्रन्थः । कुतोऽपि हेतोः पूर्वाचार्यैः स नोक्तः । एवं योगेषु बन्धस्वामित्वमुक्तम् । अथ वेदादिषु तदभिषिस्सुः प्रथम गुणस्थानकानि तेष्वाह-"वेयतिग" इत्यादि । 'वेदत्रिके' स्त्रीवेदपुंवेदनपुंसकवेदरूपे 'नव' नवसायाकानि "संजलण" इत्याद्यतनगाथा(१७)स्थ “पढम" इति पदस्यात्रापि सम्बन्धात् 'प्रथमानि' मिथ्यात्वादीनि अनिवृत्तिबादरान्तानि गुणस्थानकानि भवन्ति, ततः परं वेदानामभावात् । एतेषु यः कर्मस्तवोक्तः सामान्यबन्धः स द्रष्टव्यः । तद्यथा-सामान्यतो नानाजीवापेक्षया विंशत्युत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , सासादने एकोत्तरशतम् , मिने चतुःसप्ततिः, अविरते सप्तसप्ततिः, देश विरते सप्तषष्टिः, प्रमते त्रिषष्टिः, अप्रमते एकोनषष्टिरष्टपञ्चाशद्वा, निवृत्तिबादरे प्रथमभागेऽष्टपञ्चाशत्, भागपञ्चके षट्पञ्चाशत्, सप्तमभागे षड्विंशतिः, अनिवृत्तिबादरे आद्य मागे द्वाविंशतिः, एवमन्यत्रापि गुणस्थानकेषु यथासम्भवं कर्मस्तवोक्तो बन्धो वाच्यः । कषायद्वारे—आयेऽनन्तानुबन्धिक्रोधमानमायालोभरूपे कषायचतुष्के द्वे प्रथमे मिथ्यात्वसासादनाख्ये गुणस्थानके तत्र तीर्थकरबन्धस्य सम्यक्त्वप्रत्ययत्वाद् आहारकद्विकबन्धस्य च संयमहेतुत्वाद् अनन्तानुबन्धिषु तदभावात् सामान्येन सप्तदशोत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , सालादने एकोत्तरशतम् । द्वितीयेऽप्रत्याख्यानाख्ये कषायचतुष्के चत्वारि प्रथमानि मिथ्यात्वसासादनमिश्राऽविरतनामकानि गुणस्थानकानि, तत्राहारकद्विकबन्धाभावेन सामान्येन अष्टादशोत्तरशनम् , मिथ्यात्वे सप्तदशोत्तरशतम् , सासादने एकोत्तरशतम् , मिश्रे चतुःसप्ततिः, अविरते सप्तसप्ततिः । तृतीये प्रत्याख्यानावरणाख्ये कषाय. चतुष्के पञ्च आयानि मिथ्यात्वादीनि देशविरतान्ताने गुणस्थानकानि, देशविरते सप्तषष्टिः, शेषाणि तथैव ॥ १६ ॥
संजलणतिगे नव दस, लोभे चउ अजह दुति अनाणतिगे।
वारस अचक्खुचक्खुसु, पढमा अहखाइ चरमचऊ ॥ १७॥ व्याख्या-'संज्वलनत्रिके' संज्वलनक्रोधमानमायारूपे नवाऽऽद्यानि गुणस्थानकानि । तत्र सामान्यबन्धाद् निवृत्तिबादरं यावद् वेदत्रिकन्यायेन विंशत्युतरशतादिको बन्धः, अनिवृत्तिबादरे तु प्रथमे भागे द्वाविंशतिः, द्वितीये पुंवेदरहिता एकविंशतिः, तृतीये संज्वलनक्रोघरहिता विंशतिः, चतुर्थे संज्वलनमानरहिता एकोनविंशतिः, पञ्चमे संज्वलनमायारहिता अष्टादश । संज्वलनलोभस्य तु सूक्ष्मसम्परायेऽपि भावात् तत्र दश प्रथमानि गुणस्थानानि, तत्र नव तथैव, दशमे तु सूक्ष्मसम्पराये सप्तदश प्रकृतयः । संयमद्वारे-'अयते' असंयते चत्वारि आधानि गुणस्थानानि, तत्र सामान्यतोऽविरतसम्यग्दृष्टेरपि सङ्गृहीतत्वाद् जिननामक्षेपात् सप्तदशोत्तरशतं जातमष्टादशोत्तरशतम् , मिथ्यात्वे सप्तदशोत्तरशतम् , सासादने एकोपरशतम् , मिश्रे चतुःसप्ततिः, अविरते सप्तसप्ततिः । ज्ञानद्वारे-'अज्ञानत्रिके' मत्यज्ञानश्रुताज्ञानविभङ्गरूपे द्वे मिथ्यात्वसासादने, त्रीणि वा गुणस्थानकानि मिश्रेण सह । अयमाशयः-मिश्रे ज्ञानाशोऽज्ञानांशश्वास्ति, तत्र यदाऽज्ञानांशप्राधान्यविवक्षा तदाऽज्ञानत्रिके गुणस्थानकद्वयमेव, ज्ञानांशप्राधान्य विवक्षायां तु तृतीयं मिश्रमपि, तत्रौषे सप्तदशोत्तरशतम् , मिथ्यात्वे सप्तदशोचरशतम् , सासादने एकोत्तरशतम् मिश्रे चतुःसप्ततिः । दर्शनद्वारे-चक्षुरचक्षुर्दर्शनयोः प्रथमानि