________________
१०६
देवेन्द्रसूरिविरचितः सावचूरिकः
[ गाथा
1
पञ्चकयुता च पञ्चसप्ततिस्तामौदारिक मिश्रकाययोगी सम्यक्त्वे बध्नाति । तथा सयोगिन औदारिक मिश्रस्थाः केवलिसमुद्धाते द्वितीयषष्ठसप्तमसमयेषु सातमेवैकं बध्नन्ति । एवं गुणस्थानक - चतुष्क एवैौदारिकमिश्रयोगो लभ्यते नान्यत्र । अथ कार्मणयोगादिषु बन्धः प्रतिपाद्यते "विणु तिरि" इत्यादि । यथौदारिक मिश्रे बन्धविधिरोधतो विशेषतश्वोक्तः एवं कार्मणयोगेsपि तिर्यमरायुषी विना वाच्यः, कार्मणकाययोगे तिर्यमरायुषोर्बन्धाभावात् । कार्मणकाययोगो ह्यपान्तरालगतावुत्पत्तिप्रथमसमये च जीवस्य मिथ्यात्वसासादनाऽविरत गुणस्थानकत्रयोपेतस्य लभ्यते । उक्तं च---
मिच्छे ससाणे वा, अविरसम्मम्मि अहव गहियम्मि ।
जंति जिया परलोए, सेसिक्कारस गुणे मुत्तुं ॥ ( प्रव० गा० १३०६ )
तथा सयोगिनः केवलिसमुद्धाते तृतीयचतुर्थपश्चमसमयेषु चेति गुणस्थानकचतुष्टय एव कार्मणका योगो नान्यत्र । ततो विंशत्युत्तरशतमध्याद् आहारकषट्कतिर्यमरायुःप्रकृतीर्मुक्त्वा शेषस्य द्वादशोत्तरशतस्य सामान्येन कार्मणकाययोगे बन्धः । तदेव द्वादशोत्तरशतं जिनादि • पचकं विना शेषं सप्तोत्तरशतं कार्मणकाययोगे मिध्यादृशो बध्नन्ति । तदेव सप्तोत्तरशतं सूक्ष्मादित्रयोदश प्रकृतीर्मुक्त्वा शेषां चतुर्नवतिं कार्मणयोगे सासादना बघ्नन्ति । चतुर्नवतिरेबाऽनन्तानुबन्ध्यादिचतुर्विंशतिप्रकृतीर्विना जिननामादिप्रकृतिपञ्चकसहिता च पञ्चसप्ततिस्तां कार्मणयोsवरता बन्ति । सयोगिनस्तु कार्मणकाययोगे सातमेवैकं बध्नन्ति । तथाऽऽहारककाय योगश्चतुर्दशपूर्वविदः, आहारक मिश्रकाययोगश्च तस्यैवाऽऽहारकशरीरस्य प्रारम्भसमये परित्यागसमये च औदारिकेण सह द्रष्टव्यः । ततः 'आहारकद्विके' आहारकशरीर तन्मिश्रलक्षणे योगद्वये ओषः कर्मस्तवोक्तः प्रमत्तगुणस्थानवर्ती त्रिषष्टिप्रकृतिबन्धरूपः । एतत् काययोगद्वयं हि लब्ध्युपजीवनात् प्रमत्तस्यैव न त्वप्रमत्तस्य ॥ १५ ॥
सुरओहो वेउव्वे, तिरियनराउरहिओ य तम्मिस्से |
deतिगाइम बिय तिय, कसाय नव दु चउ पंच गुणा ॥ १६ ॥ व्याख्या- ' सुरौघः' सामान्यदेवबन्धो वैक्रियकाययोगे द्रष्टव्यः । तद्यथा सामान्येन चतुरशतम्, मिथ्यात्वे त्र्युत्तरशतम्, सासादने षण्णवतिः, मिश्र सप्ततिः, अविरते द्विसप्ततिः । तथा 'तन्मिश्रे' वैक्रियामश्रे स एव सुरौधस्तिर्यमरायुष्करहितो वाच्यः । इह देवनारका निजायुः षण्मासावशेषा एवायुर्वन्ति, अतो वैक्रियमिश्रयोगे उत्पत्तिप्रथमसमयादनन्तरमपर्याप्ताव - स्थासम्भविनि आयुर्द्वयबन्धाभावः । तथा चाऽत्रौघे ह्युत्तरशतन, मिथ्यात्व एकोत्तरशतम्, सासादने चतुर्नवतिः, अविरत एकसप्ततिः । वैक्रियमिश्रयोगो मिश्रता चाऽस्यात्र कार्मणकार्येनैव सह मन्तव्या । अयमपि च मिथ्यात्वसासादनाऽविरतगुणस्थानकत्रय एव लभ्यते नान्यत्र । यद्यपि देशविरतस्याऽम्बडादेः प्रमत्तस्य तु विष्णुकुमारादेवैक्रियं कुर्वतो वैक्रियमिश्रवैकियसम्भवः श्रूयते परं स्वभावस्थस्य वैक्रिययोगस्याऽत्र गृहीतत्वाद् अथवा स्वल्पत्वाद् अन्यतो वा
१ मिथ्यात्वं सासादने वाऽविरतसम्यक्त्वेऽथवा गृहीते । यान्ति जीवाः परलोकं शेषेकादश गुणस्थानानि मुक्खा || २ भावम् अहिगए अहवा । प्रवचनसारोद्धारे वेवं पाठः ॥