________________
१०० देवेन्द्रसूरिविरचितः सावचूरिकः
[गाया ३९ दुर्मगत्रिक-दुर्भगदुःस्वराऽनादेयरूपं ४२ स्त्यानचित्रिकं-निद्रानिद्राप्रचलामचलास्त्यानर्द्धिलक्षणम् ४५ उद्योतनाम ४६ तिर्यद्विक-तिर्यग्गतितिर्यगानुपूर्वीरूपम् ४८ तिर्यगायुः ४९ नरायुः ५० नरद्विकं-नरगतिनरानुपूर्वीलक्षणम् ५२ औदारिकद्विकम्-औदारिकशरीरमौदारिकाङ्गोपाङ्गनाम च ५४ वज्रऋषभनाराच संहननम् ५५ इति पञ्चपञ्चाशत्प्रकृतिसङ्ग्रहः ॥३॥
अथैतस्य प्रकृतिसङ्ग्रहस्य यथास्थानमुपयोग दर्शयन् मार्गणास्थानानां प्रथमं गतिमार्गणास्थानमाश्रित्य बन्धः प्रतिपाद्यते--
सुरहगुणवीसवज, इगसउ ओहेण बंधहिं निरया।
तित्थ विणा मिच्छि सयं, सासणि नपुचउ विणा छनुई॥४॥ व्याख्या-"जिण सुरविउवाहार" (गा० २) इत्यादिगाथोक्ताः क्रमेण सुरद्विकाये. कोनविंशतिप्रकृतीवर्जयित्वा शेषमेकोत्तरशतमोघेन नारका बध्नन्ति । अयमत्राभिप्रायः- एता एकोनविंशतिकर्मप्रकृतीबंन्धाधिकृतकर्मप्रकृतिविंशत्युत्तरशतमध्याद् मुक्त्वा शेषस्यैकोचरशतस्य नरकगतौ नानाजीवापेक्षया सामान्यतो बन्धः, सुरद्विकाद्येकोनविंशतिप्रकृतीनां तु भवप्रत्ययादेव नारकाणामबन्धकत्वात् । सामान्येन नरकगतौ बन्धमभिधाय सम्प्रति तस्यामेव मिथ्यादृष्ट्यादिगुणस्थानचतुष्टयविशिष्टं तं दर्शयति-"तित्थ विणा" इत्यादि । प्रागुक्तमेकोत्तरशतं तीर्थकरनाम विना मिथ्यादृष्टिगुणस्थानके शतं भवति । एतच्च शतं नपुंसकवेदमिथ्यात्वहुण्डसंस्थानसेवार्तसंहननप्रकृतिचतुष्कं विना सासादनगुणस्थानके षण्णवति रकाणां बन्धे ।। ४ ।।
विणु अणछवीस मीसे, बिसयरि सम्मम्मि जिणनराउजुया ।
इय रयणाइसुभंगो, पंकाइसु तित्थयरहीणो ॥५॥ व्याख्या-प्रागुक्ता षण्णवतिरनन्तानुबन्ध्यादि ड्विंशतिप्रकृतीविना मिश्रगुण स्थाने सप्ततिः । सैव जिननामनरायुष्कयुता सम्यग्दृष्टिगुणस्थानके द्विसप्ततिः । 'इति' एवं बन्धमाश्रित्य भरः 'रनादिषु' रतनभाशर्कराप्रभावालुकाप्रभाभिधानप्रथमनरकपृथिवीत्रये द्रष्टव्यः । पकप्रभादिषु पुनरेष एवं भङ्गस्तीर्थकरनामहीनो विज्ञेयः । अयमर्थः-पकप्रभाधूमप्रभातमःप्रभासु सम्यक्त्वसद्भावेऽपि क्षेत्रमाहात्म्येन तथाविधाध्यवसायाभावात् तीर्थकरनामबन्धो नारकाणां नास्तीति ततस्तत्र सामान्येन शतम् , मिथ्यादृशां च शतम् , सासादनानां षण्णवतिः, मिश्राणां सप्ततिः, अविरतसम्यग्दृष्टीनामेकसप्ततिः । इह सामान्यपदेऽविरतसम्यग्दृष्टिगुणस्थाने च रत्नप्रभादिमअस्तीर्थकरनाम्ना हीन उक्तः । मिथ्यादृष्ट्यादिषु त्रिषु गुणस्थानेषु पुनस्तस्य प्रागेवाऽपनीतत्वात् तदवस्थ एव ॥ ५॥
अजिणमणुआउ ओहे, सत्तमिए नरदुगुच्च विणु मिच्छे ।
इगनवई सासाणे, तिरिआउ नपुंसचउवलं ॥ ६॥ व्याख्यानप्रभादिनरकत्रयसामान्यबन्धाधिकृतकोतरशतमध्याजिननाममनुजायुषी मुक्त्वा शेषा नवनवतिरोषबन्धे सप्तमपृथिव्यां नारकाणां भवति । सैव नवनवतिर्नरगतिनरानुपूर्वी रूपनरद्विकोश्चैोर्पिना षण्णवातमिथ्यादृष्टिगुणस्थाने भवति । सैव षण्णवति स्तिर्यगायुर्नपुंसकवेदमिथ्यात्वहुण्डसंस्थानसेवार्तसंहननवर्जिता एकनवतिः सासादने सप्तम्यां नारकाणाम् ॥ ६ ॥