SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ बन्धखामिलापस्कृतीकः कर्मवन्धः । मिनकाययोगः १३ औदारिकमिश्रकाययोगः १४ कार्मणकाययोगः १५ इति ४ । वेदस्त्रिधास्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च ५ । कषायाः क्रोधमानमायालोमाः ६ । ज्ञानं पञ्चषामतिज्ञानं श्रुत्तज्ञानम् अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं च, ज्ञानग्रहणेन चाऽज्ञानमपि तत्पतिपक्षमूतमुपलक्ष्यते, तच्च त्रिविधम्-मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं चेति ज्ञानमार्गणास्थानमष्टधा ७ । 'संयमः' चारित्रं तच्च पञ्चधा-सामायिकं छेदोपस्थापनं परिहारविशुद्धिक सूक्ष्मसम्परायं यथाख्यातं च, संयमग्रहणेन च तत्प्रतिपक्षभूतो देशसंयमोऽसंयमश्च सूच्यत इति संयमः सप्तधा ८ । दर्शनं चतुर्विधम्-चक्षुर्दर्शनम् अचक्षुर्दर्शनम् अवधिदर्शनं केवलदर्शनं च ९ । लेश्या षोढा-कृष्णलेश्या नीललेश्या कायोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या च १० । भव्यः-तथारूपानादिपारिणामिकभावात् सिद्धिगमनयोग्यः, मव्यग्रहणेन च तत्प्रतिपक्षभूतोऽभन्योऽपि गृखते ११ । सम्यक्त्वं त्रिधा-क्षायोपशमिकम् औपशमिकं क्षायिकं च, सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभूतं मिथ्यात्वं सासादनं मित्रं च परिगृखते १२ । संज्ञी-विशिष्टसरणादिरूपमनोविज्ञानसहितेन्द्रियपञ्चकसमन्वितः, तत्प्रतिपक्षभूतः सर्वोऽप्येकेन्द्रियादिरसंज्ञी सोऽपि संज्ञिग्रहणेन सूचितो द्रष्टव्यः १३ । आहारयति ओजोलोमप्रक्षेपाहाराणामन्यतममाहारमित्याहारकः, तत्प्रतिपक्षमूतोऽनाहारकः १४ । ननु ज्ञानादिषु किमर्थमज्ञानादिप्रतिपक्षग्रहणं कृतम् !, उच्यते-चतुर्दशखपि मार्गणास्थानेषु प्रत्येकं सर्वसांसारिकसत्त्वसमहार्थमिति । उक्तरूपेषु गत्यादिषु बन्धस्वामित्वं वक्ष्ये । तत्र बन्धं च प्रतीत्य विंशत्युत्तरं प्रकृतिशतमघिक्रियते । तथाहि-ज्ञानावरणे उत्तरप्रकृतयः पञ्च, दर्शनावरणे नव, वेदनीये द्वे, मोहे सम्यक्त्वमिश्रवर्जा षड्विंशतिः, आयुषि चतसः, नाम्नि मेदान्तरसम्भवेऽपि सप्तषष्टिः, गोत्रे द्वे, अन्तराये पश्च, सर्वमीलने विंशत्युत्तरं शतमिति एतच्च प्राक् सविस्तरं कर्मविपाके माक्तिमेव ॥ १ ॥ सम्प्रति विशत्युत्तरशतमध्यगतानामेव वक्ष्यमाणार्थोपयोगित्वेन प्रथम कियतीनामपि प्रकृतीनां साहं पृथकरोति--- जिण सुरविउवाहारदु, देवाउ य नरयसुहुमविगलतिगं। एगिदि थावराऽऽयव, नपु मिच्छ हुंड छेवढं ॥२॥ अण मज्झागिह संघयण, कुखग निय इस्थि दुहमीणतिगं । उज्जोय तिरिदुर्ग तिरिनराउ नरउरलदुग रिसहं ॥ ३ ॥ व्याख्या-जिननाम १ सुरद्विक-युस्गतिसुरानुपूर्तरूपं ३ वैक्रियद्विक-वैक्रियशरीरवैक्रियाजोपासलक्षणम् ५ आहारकद्विकम्-आहारकशरीरं तदङ्गोपाङ्गं च ७ देवायुष्कं च ८ नरकत्रिक-नरकगतिनरकानुपूर्वीनस्कायुष्करूपं ११ सूक्ष्मत्रिक-सूक्ष्माऽपर्यातसाधारणलक्षणं १४ विकलत्रिकं-द्वित्रिचतुरिन्द्रियजातका १७ एकेन्द्रियजातिः १८ स्थावरनाम १९ आतपनाम २० नपुंसकवेदः २१ मिथ्यात्वं २२ हुण्डसंस्थानं २३ सेवार्तसंहननम् २४ ॥ २॥ __ "अण" ति अनेन्तानुबन्धिक्रोधमानमायालोमाः २८ मध्याकृतयः' मध्यमसंस्थामानिन्यत्रोषपरिमण्डल सादि वामनं कुब्जं चेति ३२ मध्यनसहनमानि ऋषमनाराचं माराचम् मर्थनारावं कीलिक्ल चेति ३६ "कुखग" सि अशुभक्हिायोगतिः ३७ नीचैमात्र ३८ सीवेदः
SR No.010087
Book TitleChatvara Karmgranth
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAtmanand Jain Sabha
Publication Year1934
Total Pages289
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy