________________
बन्धस्वामित्वाख्यस्तृतीयः कर्मग्रन्थः ।
१०१ अणचउवीसविरहिया, सनरदुगुच्चा य सयरि मीसद्गे।।
सतरसउ ओहि मिच्छे, पजतिरिया विणु जिणाहारं ॥७॥ व्याख्या--प्रागुक्ता एकनवतिरनन्तानुबन्ध्यादिचतुर्विशतिप्रकृतिभिर्विरहिता नरद्विकोच्चैगोत्राभ्यां च सहिता सप्ततिर्भवति, सा च "मीसदुगे" ति मिश्राऽविरतगुणस्थानद्वये द्रष्टव्या । इह सप्तम्यां नरायुस्तावद न बध्यत एव, तहन्धाभावेऽपि च मिश्रगुणस्थानकेऽविरतगुणस्थानके च नरद्विकं बध्यते । अयमर्थः-नरद्विकस्य नरायुषा सह नावश्यं प्रतिबन्धो यदुत यत्रैवायुर्वध्यते तत्रैव गत्यानुपूर्वीद्वयमपि, तस्याऽन्यदाऽपि बन्धात् ; मिथ्यात्वसासादनयोस्तु कलुषाध्यवसायत्वेन नरद्विकं न बध्यते । एवं नरकगतौ बन्धखामित्वं प्रतिपाद्य.अथ तिर्थग्गतौ तदाह--"सतरसउ" इत्यादि । विंशत्युत्तरशतं जिननामाऽऽहारकद्विकं च विना शेषं सप्तदशोत्तरशतमोघे मिथ्यादृष्टिगुणस्थाने च पर्याप्तास्तिर्यश्चो बध्नन्ति । अत्रौधे तिरश्चां सत्यपि सम्यक्त्वे भवप्रत्ययादेव तथाविधाध्यवसायाभावात् तीर्थकरनाम्नः सम्पूर्णसंयमाभावाद् आहारकद्विकस्य च बन्धो नास्तीति हृदयम् ॥ ७ ॥
विणु नरयसोल सासणि, सुराउ अण एगतीस विणु मीसे ।
ससुराउ सयरि सम्मे, बीयकसाए विणा देसे ॥८॥ व्याख्या-प्रागुक्तं सप्तदशोत्तरशतं नरकत्रिकादिषोडशप्रकृतीविना एकोत्तरशतं सासादने पर्याप्ततिरश्वाम् । एतदेवैकोत्तरशतं सुरायुरनन्तानुबन्ध्यायेकत्रिंशत्प्रकृतीश्च विना एकोनसततिः, सा मिश्रगुणस्थाने बध्यते । अयं भावार्थ:-"सम्मामिच्छद्दिट्टी आऊबंधं पि न करेइ ।" इति वचनाद् अत्र सुरनरायुषोरबन्धः, अनन्तानुबन्ध्यादयश्च पञ्चविंशतिप्रकृतयः सासादन एव व्यवच्छिन्नबन्धाः, तथा मनुष्यास्तिर्यश्चश्व मिश्रगुणस्थानकस्था अविरतसम्यग्डष्टिवद् देवाह मेव बन्नन्ति, तेन नरद्विकौदारिकद्विकवज्रऋषभनाराचानामपि बन्धाभावः । एव एकोनसप्ततिः सुरायुषा सहिता सप्ततिः 'सम्यक्त्वे' आवेरतगुणस्थानके भवति । सप्ततिः 'द्वितीयकषायैः' अप्रत्याख्यानक्रोधमानमायालोभैर्विना षट्षष्टिर्देश विरतगुणस्थाने बध्यते ॥८॥ अथ तिर्यग्गतिबन्धाधिकार एव ग्रन्थलाघवार्थ मनुष्यगतावपि बन्धं दर्शयति
इय चउगुणेसु वि नरा, परमजया सजिण ओहु देसाई।
जिणहकारसहीणं, नवसउ अपजत्ततिरियनरा ॥९॥ व्याख्या-यथा पर्याप्ततिरश्चां मिथ्यादृष्ट्यादिषु चतुर्पु गुणस्थानेषु सप्तदशोत्तरशतादिको बन्ध उक्तः 'इति' एवं पर्याप्तनरा अपि चतुर्षु-मिथ्यादृष्टिसासादनमिश्राविरतिगुणस्थानेषु सप्तदशोसरशतादिबन्धस्वामिनो मन्तव्याः। परम्' अयताः अविरतसम्यग्दृष्टयः पर्याप्तनराः “सजिण" ति अविरतसम्यग्दृष्टिपर्याप्ततिर्यग्बन्धयोग्यसप्ततिर्जिननामसहिता एकसप्ततिस्तां बध्नन्ति, जिननामकर्मणोऽपि बन्धकत्वात् तेषाम् । “ओहु देसाइ" ति देशविरतादिगुणस्थानकेषु गुणस्थानकाsनाश्रयणे च पर्याप्तनराणां पुनः 'ओषः' सामान्यो बन्धोऽवसेयः । स च कर्मस्तवोक्त एव । यतः कर्मस्तवग्रन्थे सामान्यतो गुणस्थानकेषु बन्धः प्रतिपादितो न पुनः किञ्चन गत्यादिमा.. 1 सम्यग्मिथ्यादृष्टिरायुर्वन्धमपि न करोति ॥