________________
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा महमहमिकया समायातसुरासुरनरोरगनायकनिकरैः "जय जीव नन्द क्षत्रियवरवृषभ !" इत्यादिवचनरचनया स्तूयमानः सम्प्राप्य ज्ञातखण्डवनं प्रतिपन्ननिरवद्यचारित्रभारः साधिका द्वादशसंवत्सरी यावत् परीषहोपसर्गवर्गसंसर्गमुग्रमधिसह्य परमसितध्यानाऽकुण्ठकुठारधारया सकलघनघातिवनखण्डखण्डनमखण्डमाधाय निर्मलाऽविकलकेवलबलावलोकितनिखिललोकालोकः श्रीगौतमप्रभृतिमुनिपुङ्गवानां तत्त्वमुपदिश्य संसारसरितः सुखं सुखेन समुत्तरणाय भव्यजनानां धर्मतीर्थमुपदाऽयोगिकेवलिचरमसमये त्रयोदश प्रकृतीदश प्रकृतीर्वा क्षपयित्वा 'सिद्धि' परमानन्दरूपां प्राप्तः, तं 'नमत' प्रणमत 'वीर' श्रीवर्धमानस्वामिनम् , किंविशिष्टम् ? 'देवे. न्द्रवन्दितं' देवानां भवनपतिव्यन्तरज्योतिष्कवैमानिकानामिन्द्राः-खामिनो देवेन्द्रास्तैर्वन्दितः शशधरकरनिकरविमलतरगुणगणोत्कीर्तनेन स्तुतः शिरसा च प्रणतः “वदुङ स्तुत्यभिवादनयोः" इति वचनात् , यद्वा पदैकदेशे पदसमुदायोपचाराद् देवेन्द्रेण-देवेन्द्रसूरिणा आचार्येण श्रीमजगचन्द्रसूरिचरणसरसीरुहचञ्चरीकेण वन्दितः सकलकर्मक्षयलक्षणाऽसाधारणगुणसङ्कीर्तनेन स्तुतः कायेन च प्रणत इति । 'नमत' इति प्रेरणायां पञ्चम्यन्तं क्रियापदम् , तच्च श्रोतृणां कथञ्चिदनाभोगवशतः प्रमादसम्भवेऽप्याचार्येण नोद्विजितव्यम् , किन्तु मृदुमधुरवचोभिः शिक्षानिबन्धनैः श्रोतृणां मनांसि प्रहाद्य यथार्ह सन्मार्गप्रवृत्तिरुपदेष्टव्या इति ज्ञापनार्थम् । यदाह प्रवचनोपनिषद्वेदी भगवान् हरिभद्रसूरिः
अणुवतणाइ सेहा, पायं पावंति जुग्गयं परमं । रयणं पि गुणुक्करिसं, उवेइ सोहम्मणगुणेणं ॥ (पञ्चव७ गा० १७) इस्थ य पमायखलिया, पुवब्भासेण कस्स व न हुति । जो तेऽवणेइ सम्मं, गुरुत्तणं तस्स सफलं ति ॥ ( पश्चच० गा० १८) को नाम सारहीणं, स हुज जो भद्दवाइणो दमए ।
दुढे वि य जो आसे, दमेइ तं सारहिं बिति ॥ (पञ्चव० गा० १९) इति ॥३४॥ ॥ इति श्रीदेवेन्द्रसूरिविरचितायां खोपज्ञकर्मस्तवटीकायां सत्ताधिकारः समाप्तः ।।
॥ तत्समाप्तौ च समाप्ता लघुकर्मस्तवटीका ॥
सत्ताधिकारमेनं, विवृण्वता यन्मयाऽर्जितं सुकृतम् । निःशेषकर्मसत्तारहितस्तेनास्तु लोकोऽयम् ।।
-
१ अनुवर्तनया शिक्षकाः प्रायः प्राप्नुवन्ति योग्यतां परमाम् । रत्नमपि गुणोत्कर्षमुपैति शोधकगुणेन ॥ अत्र चप्रमादस्खलितानि पूर्वाभ्यासेन कस्य वा न भवन्ति । यस्तानि अपनयति सम्यग गुरुत्वं तस्य सफलमिति॥ को नाम सारथीनां स भवेद् यो भद्रवाजिनो दमयेत् । । दुष्टानपि च योऽश्वान् दमयति तं सारथिं शुषते ॥