________________
३४]
कर्मस्तवाख्यो द्वितीयः कर्मप्रन्धः।
॥ अथ प्रशस्तिः ॥
विष्णोरिव यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् । कर्ममलपटलमुक्तः, स श्रीवीरो जिनो जयतु ।। १॥ कुन्दोज्वलकीर्तिभरैः, सुरभीकृतसकल विष्टपाभोगः । शतमखशतविनतपदः, श्रीगौतमगणधरः पातु ॥ २ ॥ तदनु सुधर्मस्वामी जम्बूप्रभवादयो मुनिवरिष्ठाः । श्रुतजलनिधिपारीणाः, भूयांसः श्रेयसे सन्तु ॥ ३ ॥ क्रमात् प्राप्ततपाचायेंत्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे, श्रीजगचन्द्रसूरयः ॥ ४ ॥ जगन्जनितबोधानां, तेषां शुद्धचरित्रिणाम् । विनेयाः समजायन्त, श्रीमद्देवेन्द्रसूरयः ॥ ५ ॥ खान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा। कर्मस्तवस्य टीकेयं, सुखबोधा विनिर्ममे ॥ ६ ॥ विबुधवरधर्मकीर्तिश्रीविद्यानन्दसूरिमुख्यबुधैः । खपरसमयैककुशलैस्तदैव संशोधिता चेयम् ॥ ७ ॥ यद्गदितमल्पमतिना, सिद्धान्तविरुद्धमिह किमपि शास्त्रे । विद्वद्भिस्तत्त्वज्ञैः, प्रसादमाधाय तच्छोध्यम् ॥ ८ ॥ कर्मस्तवसूत्रमिदं, विवृण्वता यन्मयाऽर्जितं सुकृतम् । सर्वेऽपि कर्मबन्धास्तेन त्रुट्यन्तु जगतोऽपि ॥ ९ ॥
इति खोपक्षटीकोपतः कर्मस्तवः।