________________
३०-३४] कर्मविपाकनामा द्वितीयः कर्मप्रन्यः ।
संघयणअथिरसंठाणछक अगुरुलहुचउ अपज्जतं।
सायं व असायं वा, परित्तुवंगतिग सुसर नियं ॥ ३२॥ - षट्कशब्दस्य प्रत्येकं योगात् संहननषट्कं-वज्रऋषभनाराचऋषभनाराचनाराचाऽर्धनाराचकीलिकासेवार्तसंहननाल्यम् , अस्थिरषट्कम्-अस्थिराऽशुभदुर्भगदुःखराऽनादेयाऽयशःकीर्तिरूपम् , संस्थानषट्कं-समचतुरस्रन्यग्रोधपरिमण्डलसादिवामनकुन्जहुण्डसंस्थानाख्यम् , अगुरुलघुचतुष्कम्-अगुरुलघूपघातपराघातोच्छासाख्यम् , अपर्याप्तम् , सातं वाऽसातं वा एकतरवेदनीयं, यदनुदयावस्थम् , “परित्तुवंगतिग" ति त्रिकशब्दस्य प्रत्येकं सम्बन्धात् प्रत्येकत्रिकं प्रत्ये. कस्थिरशुभाख्यम् , उपात्रिकम्-औदारिकवैक्रियाऽऽहारकाङ्गोपाङ्गरूपम् , सुखरम् , "नियं" ति नीचैर्गोत्रमिति ॥ ३२ ॥
बिसयरिखओ य चरिमे, तेरस मणुयतसतिग जसाइज्ज।
सुभगजिणुच पणिंदिय सायासाएगयरछेओ॥३३॥ इत्येतासां द्विसप्ततिप्रकृतीनामयोगिकेवलिद्विचरमसमये सत्तामाश्रित्य क्षयो भवति । ततः पूर्वोक्तपञ्चाशीतेरिमा द्विसप्ततिप्रकृतयोऽपनीयन्ते शेषास्त्रयोदश प्रकृतयोऽयोगिचरमसमये क्षीयन्ते । तथा चाह-"बिसयरिखओ" ति स्पष्टम् । 'चः' पुनरर्थे व्यवहितसम्बन्धश्च । चरमसमये पुनः अयोगिकेवलिनस्त्रयोदशप्रकृतीनां क्षयो भवति । "मणुयतसतिग" ति त्रिकशब्दस्य प्रत्येकं योगाद् मनुजत्रिक-मनुजगतिमनुजानुपूर्वीमनुजायुर्लक्षणम् , त्रसत्रिकं-त्रसबादरपर्याप्ताख्यम् , “जसाइज" ति यशःकीर्तिनाम आदेयनाम सुभगम् "जिणुच" ति जिननाम उच्चैर्गोत्रम् । “पणिंदिय" ति पञ्चेन्द्रियजातिः सातासातयोरेकतरं तस्य च्छेदः-सचामाश्रित्य क्षय इति ॥ ३३ ॥ अत्रैव मतान्तरमाह
नरअणुपुटिव विणा घा, बारस चरिमसमयम्मि जो खविउं ।
पत्तो सिद्धिं देविंदवंदियं नमह तं वीरं ॥ ३४ ॥ 'नरानुपूर्वी विना' मनुष्यानुपूर्वीमन्तरेण वाशब्दो मतान्तरसूचको द्वादश प्रकृतीरयोगिकेवलिचरमसमये यः क्षपयित्वा सिद्धि प्राप्तस्तं वीरं नमतेति सण्टङ्कः । अयमत्राभिप्रायःमनुजानुपूर्व्या अयोगिद्विचरमसमये सत्ताव्यवच्छेदः, उदयाभावात् , उदयवतीनां हि द्वादशानां स्तिबुकसङ्कमाभावात् खानुभावेन दलिकं चरमसयेऽपि दृश्यत इति युक्तस्तासां चरमसमये क्षयः; आनुपूर्वीनाम्नां तु चतुर्णामपि क्षेत्रविपाकित्वादः भवान्तरालगतावेवोदयस्तेन भवस्थस्य नास्ति तदुदयः, तदुदयाभावाचायोगिद्विचरमसमये मनुजानुपूर्व्या अपि सत्ताव्यवच्छेदः, तन्मतेऽयोगिकेवलिनो द्विचरमसमये त्रिसप्ततिप्रकृतीनां चरमसमये [च] द्वादशानां क्षय इति । ततो यो भगवान् मातापित्रोर्दिवतयोः सम्पूर्णनिजप्रतिज्ञो मक्तिसम्भारम्राजिष्णुरोचिष्णुलोकान्तिकत्रिदशसद्मजन्मभिः पुष्पमाणवकैरिव "सर्वजगजीवहियं भयवं तित्थं पवत्तेहि" (आव० नि० गा० २१५) इत्यादिवचोभिर्निवेदिते निष्क्रमणसमये संवत्सरं यावत् निरन्तरं स्थूरचामीकरधारासारैः प्रावृषेण्यधाराधर इवामुद्रदारियसन्तापप्रसरमवनीमण्डलस्योपशमय्य परस्पर
१ सर्वजगजीवहितं भगवन तीर्थ प्रवर्तय ॥
-