________________
२
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा स्तीर्थकरनाम्नोऽपि सत्ता सम्भवति; साखादनमिश्रयोस्तु तस्मिन्नेव जिननामरहिते सप्तचत्वारिंशं शतं सत्तायां, जिननामसत्कर्मणो जीवस्य तद्भावाऽनवाप्तेः, तद्वन्धारम्भस्य च शुद्धसम्यक्त्वप्रत्ययत्वात् । यदुक्तं बृहत्कर्मस्तवभाष्ये
तित्थयरेण विहीणं, सीयालसयं तु संतए होइ ।
सासायणम्मि उ गुणे, सम्मामीसे य पयडीणं ॥ (गा० २५) अविरतसम्यग्दृष्ट्यादीनामक्षिप्तदर्शनसप्तकानामष्टचत्वारिंशस्यापि शतस्य सत्ता सम्भवतीति ॥२५॥
अप्पुव्वाइचउक्के, अण तिरिनिरयाउ विणु बिआलसयं ।
सम्माइचउसु सत्तगखयम्मि इगचत्तसयमहवा ॥ २६ ॥ . . गाथापर्यन्तवय॑थवाशब्दस्य सम्बन्धात् पूर्व तावदष्टचत्वारिंशं शतं सत्तायामुक्तम् , अथवाऽयमपरः सत्तामाश्रित्य भेदः, तथाहि-'अपूर्वा दिचतुष्के' अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहरूपे "अण" ति अनन्तानुबन्धिचतुष्कं "तिरिनिरयाउ" ति आयु:शब्दस्य प्रत्येकं योगात् तिर्यगायुर्नरकायुश्च विना द्विचत्वारिंशं शतं भवतीति । अयमाशयः-यः कश्चिद् विसंयोजितानन्तानुबन्धिचतुष्को बद्धदेवायुमनुजायुषि वर्तमान उपशमश्रेणिमारोहति, तस्य तिर्यगायुर्नरकायुरनन्तानुबन्धिचतुष्कलक्षणप्रकृतिषट्करहितं शेषं द्विचत्वारिंशं शतं सत्तायां प्राप्यते । यदुक्तं बृहत्कर्मस्तवभाष्ये
अणतिरिनारयरहियं, बायालसयं वियाण संतम्मि ।
उवसामगस्सऽपुबानियट्टि सुहुमो व संतम्मि || (गा० २६) "सम्माइचउसु" ति सम्यक्त्वादिचतुर्पु-अविरतसम्यग्दृष्टिदेश विरतप्रमत्ताप्रमत्तेषु “सत्तगखयम्मि" ति अनन्तानुबन्धिचतुप्कमिथ्यात्वमिश्रसम्यक्त्वलक्षणसप्तकक्षये सत्येकचत्वारिंशं शतमथवा सत्तायां भवति । इहाप्यथवाशब्द आवृत्त्या योज्यते । यदुक्तं वृहत्कर्मस्तवसूत्रे
अणमिच्छमीससम्मं, अविरयसम्माइअप्पमत्तंता । ( गा० ६) इति ॥ २६ ॥ ग्ववगं तु पप्प चउसु वि, पणयालं नरयतिरिसुराउ विणा ।
सत्तग विणु अडतीसं, जा अनियट्टी पढमभागो ॥ २५॥ क्षपकं 'तुः' पुनरर्थे, क्षकं पुनः 'प्रतीत्य' आश्रित्य 'चतुर्वपि' अविरतदेशविरतप्रमत्ताप्रमतेषु "पणयालं" ति पञ्चचत्वारिंशं शतमथवा भवति । अथवाशब्द इहापि सम्बध्यते । कथम् ? इत्याह---"नरयतिरिसुराउ विण" ति, आयुःशब्दस्य प्रत्येकं योगात् नरकायुस्तिर्यगायुः सुरायुर्विना-अन्तरेण । इदमुक्तं भवति-यो जीवो नारकतिर्यक्सुरेषु चरमं तद्भवमनुभूय मनुष्यतयोत्पन्नस्तस्य नारकतिर्यक्सुरायूंषि खखभवे व्यवच्छिन्नसत्ताकानि जातानि, पुनस्त.
१ तीर्थकरेण विहीनं सप्तचत्वारिंशं शतं तु सत्तायो भवति । सास्वादने तु गुणे सम्यम्मिश्रे च प्रकृतीनाम् ॥ २ अनतिर्यनारकरहितं द्वाचत्वारिंशं शतं विजानीहि सत्तायाम् । उपशामकस्य अपूर्वस्याऽनिवृत्तेः सूक्ष्मस्य (अपूर्वस्येत्यादी विभक्तिव्यत्ययात्षष्टी) वा सत्तायाम् (भनेत्यनेनानन्तानुबन्धिचतुष्कं गृह्यते ) ॥ ३ अनमिथ्यामिश्रसम्यक अविरतसम्यक्लाचप्रमत्तान्तम् ॥ (अत्राप्यनेत्यनेनानन्तानुबन्धिचतुष्कं ।) ४ पकजिन पुख० ग०॥