________________
कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।
२६-२९ ]
दनवाप्तेः । उक्तं च
इति ।
सुरनरयतिरियआउं, निययभवे सबजीवाणं । ( बृ० क० स्त० गा० ६ ) इयं चैतेषु गुणस्थानेषु सामान्यजीवानां सम्भवमाश्रित्य सत्ता वर्णिता, न त्वधिकृतस्तव - स्तुत्यस्य चरमजिनपरिवृढस्य, अस्याः सुरनारकतिर्यगायुः सम्भवापेक्षणीयत्वाद्, जिनस्य च तदसम्भवात् तस्यापि च प्राग्भवापेक्षया सम्भवो वाच्यः । इदमेव पञ्चचत्वारिंशं शतं सप्तकमनन्तानुबन्धिमिथ्यात्वमिश्रसम्यक्त्वाख्यं विनाऽष्टात्रिंशं शतं भवति । कियन्ति गुणस्था - नानि यावद् ? इत्याह-- " जा अनियट्टी पढमभागु" त्ति, इहानिवृत्तिबादराद्धाया नव भागाः क्रियन्ते, ततोऽविरते देश विरते प्रमत्तेऽप्रमत्ते निवृत्तिबादरेऽनिवृत्तिबादरस्य च प्रथमो भागस्तावदष्टात्रिंशं शतं भवति । उक्तं च-
संते अडयालसयं, खवगं तु पडुच होड़ पणयालं । आउतिगं नत्थि तर्हि, सत्तगखीणम्मि अडतीसं ॥
( बृ० क० स्त० भा० गा० २९ ) पैणालं अडतीसं, अविरयसम्माउ अप्पमत्तु ति । अ अडतीसं, नवरं खवगम्मि बोधवं ॥
९१
इति ॥ २७ ॥ अथ क्षपक श्रेणिमधिकृत्याऽनिवृत्तिबादरादिषु प्रकृतिषु सत्ता वर्ण्यते उपशम श्रेणिसत्तायास्त्विह नाधिकार इति -
धावर तिरिनिरयायवदुग श्रीणतिगेग विगल साहारं ।
"
सोलखओ दुवीस सयं, बियंसि बियतियकसायंतो ॥ २८ ॥ हानिवृत्तिबादरस्य प्रथमे भागेऽष्टत्रिंशं शतं सत्तायां भवति । तत्र च “थावरतिरिनिरयायदुग” त्तिद्विकशब्दस्य प्रत्येकं योगात् स्थावरद्विकं - स्थावर सूक्ष्मलक्षणम्, तिर्यद्विकं - तिर्यग्गतितिर्यगानुपूर्वीरूपम्, नरकद्विकं - नरकगतिनरकानुपूर्वीलक्षणम् आतपद्विकम् - आतपोद्योताख्यम्, “थीणतिग” त्ति स्त्यानर्द्धित्रिकं - निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिलक्षणम्, “इग” ति एकेन्द्रियजातिः, “विगल" ति विकलेन्द्रियजातयः - द्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिलक्षणांः, "साहारं " ति साधारणनाम इत्येतासां षोडशानां प्रकृतीनां क्षयः सत्तामाश्रित्य भवति । ततोऽनिवृत्तिबादरस्य 'धंशे' द्वितीयभागे द्विविंशं शतं भवति । तत्र “बियतियकसायं तु" त्ति कषायशब्दस्य प्रत्येकं योगाद् द्वितीयकषायाः - अप्रत्याख्यानावरणाश्चत्वारः, तृतीयकषायाः - प्रत्याख्यानावरणाश्चत्वार इत्येतासामष्टानां प्रकृतीनामन्तः क्षयः । . ततस्तृतीयांशे चतुर्दशशतं भवतीति ॥ २८ ॥ एतदेवाह -
तइयाइसु चउदसतेरबारछपणचउतिहिय सय कमसो । नपुइत्थिहासछगपुंसतुरियकोहमयमायखओ ॥ २९ ॥
१ सुरनरकतिर्यगायुर्निजकभवे सर्वजीवानाम् ॥ २ सत्तायामष्टचत्वारिंशं शतं क्षपकं तु प्रतीत्य भवति पञ्चचत्वारिंशम् | आयुनिकं नास्ति तत्र सप्तके क्षीणेऽष्टात्रिंशम् ॥ ३ पश्चचत्वारिंशमष्टात्रिंशमविरतसम्यक्त्वादप्रमत्त इति । अपूर्वेऽष्टात्रिंशं नवरं क्षपके बोद्धव्यम् ॥ ४ 'जातिः - द्वी' क० घ० ॥ ५°णा 'सा' क० ६० ॥