________________
२३-२५] कर्मस्तवाल्यो द्वितीयः कर्मबन्धः । प्रकृतीनां प्रमतेऽन्तः-व्यवच्छेद उदीरणां प्रतीत्य यासां ताः प्रमत्तान्ताः । अयमत्र भावार्थ:-स्त्यानचित्रिकं प्रमादरूपत्वाद् अप्रमत्तादिषु नास्त्येव, कुतस्तेषु तदुदीरणा ! आहारकशरीरं च विकुर्वाण औत्सुक्याद् यतिः प्रमत्त एवेति अप्रमत्तादिषु तदपि नास्ति, कुतस्तेषु तदुदीरणा !; सातासातमनुजायुषां हि प्रमादसहितेनैव योगेनोदीरणा भवति नान्येनेत्युत्तरेषु न तदुदीरणा । तदयमत्र तात्पर्यार्थः----उदयमाश्रित्य प्रमत्ते हि स्त्यानर्द्वित्रिकाहारकद्विकाल्यपञ्चप्रकृतयो व्यवच्छिद्यन्ते, उदीरणामाश्रित्य पुनः स्त्यानर्द्धित्रिकाहारकद्विकसातासातमनुजा. युर्लक्षणा अष्टौ प्रकृतय इति मनुजायुःसातासातरूपप्रकृतित्रयेणाऽप्रमत्तादिषु ऊना उदीरणा वाच्येति । 'अयोगी' अयोगिकेवली 'अनुदीरकः' न किमपि कर्मोदीरणया क्षिपति, योगाभावात् , उदीरणा हि योगकृतकरणविशेष इति भगवान् परमप्रयत्नवान् सर्वसंवररूपचारित्रधर्मवान् वेत्यर्थः ॥ २४ ॥ इति श्रीदेवेन्द्रसूरिविरचितायां खोपज्ञकर्मस्तवटीकायामुदीरणाधिकारः समाप्तः ।।
सुकृतं मया यदाप्तं, विवृण्वतोदीरणाधिकारमिमम् ।
तेनास्तु सर्वलोको, दुष्कर्मोदीरणारहितः ॥ अथ सत्तालक्षणकथनपूर्वकं यथा तेन भगवता त्रिलोकीपतिना श्रीमद्वर्धमानखामिना सत्तामाश्रित्य गुणस्थानेषु कर्माणि क्षपितानि तथा प्रतिपादयन्नाह
सत्ता कम्माण ठिई, बंधाईलद्धअत्तलाभाणं ।
संते अडयालसयं, जा उवसमु विजिणु बियतइए ॥२५॥ सत्ता उच्यत इति शेषः, किम् ? इत्याह-'कर्मणां' ज्ञानावरणादियोग्यपरमाणूनां स्थितिः अवस्थानं सद्भाव इति पर्यायाः । किंविशिष्टानां कर्मणाम् ! इत्याह-'बन्धादिलब्धात्मलाभाना' तत्र मिथ्यात्वादिभिर्हेतुभिः कर्मयोग्यपुद्गलैरात्मनो वययःपिण्डवद् अन्योऽन्यानुर्गमाभेदात्मकः सम्बन्धो बन्धः, आदिशब्दात् सङ्क्रमकरणादिपरिग्रहः, ततो बन्धादिभिर्लब्धःप्राप्त आत्मलाभ:-आत्मखरूपं यैस्तानि बन्धादिलब्धात्मलाभानि तेषां बन्धादिलब्धात्मलाभानां कर्मणां या स्थितिः सा सत्ता, तस्यां "संते" ति सत्कर्मणि-सत्तायामष्टाचत्वारिंशं शतं प्रकृतीनां भवति । कियन्ति गुणस्थानानि यावद् ! इत्याह-“जा उवसमु" ति 'यावदुपशमम्' उपशान्तमोहम् । अयमर्थः-मिथ्यादृष्टिगुणस्थानात् प्रभृत्युपशान्तमोहगुणस्थानं यावदष्टाचत्वारिंशं शतं सत्तायां भवति । किमविशेषेण ? नेत्याह-"विजिणु बियतइए" ति विगतं जिननाम यस्मात् तद् विजिनं जिननामविरहितं तदेवाष्टाचत्वारिंशं शतं भवति । क! इत्याह-द्वितीये-साखादने तृतीये-मिश्रदृष्टौ, "सासणमिस्सरहिएसु वा तित्यं” इति वचनात् साखादनमिश्रयोः सप्तचत्वारिंशं शतं भवतीत्यर्थः । इदमत्र हृदयम्-इह मिथ्यादृष्टरष्टचत्वारिंशमपि शतं सत्तायाम् ; यदा हि प्राग्बद्धनरकायुः क्षायोपशमिकं सम्यक्त्वमवाप्य तीर्थकरनानो बन्धमारभते तदाऽसौ नरकेधूत्पद्यमानः सम्यक्त्वमवश्यं वमतीति मिथ्यादृष्टे. १°तः कर ग० ० ॥ २ °गमोऽमे° उ०॥ ३ साखादन मिश्ररहितेषु वा तीर्थकरम् ।