________________
देवेन्द्रसूरिविरचितखोपटीकोपेतः
[ गाथा
स्मान्तः - व्यवच्छेदो यासां ताश्वरमसमयान्ताः । ता एवाह सुभगं आदेयं "जस" ति यश:कीर्तिनाम अन्यतरवेदनीयं सयोगिकेवलिचरमसमयव्यवच्छिन्नोद्वरितं वेदनीयमित्यर्थः ॥ २२ ॥
"तसतिगं" ति त्रसत्रिकं - त्रसबादरपर्याप्ताख्यं “ पणिदि" ति पञ्चेन्द्रियजातिः " मणुयाउगइ" त्ति मनुजशब्दस्य प्रत्येकं योगात् मनुजायुर्मनुजगतिः "जिण" ति जिननाम "उ" ति उच्चैर्गोत्रम् इतिशब्दो द्वादशप्रकृतिपरिसमाप्तिद्योतक इति ॥
॥ इति श्रीदेवेन्द्रसूरिविरचितायां खोपज्ञकर्मस्तवटीकायामुदयाधिकारः समाप्तः ॥ उदयाधिकारमेनं, विवृण्वता यन्मयाऽर्जितं सुकृतम् । दुष्कर्मोदयरहितो, लोकः सर्वोऽपि तेनास्तु ॥
अथ तस्य भगवतः कस्मिन् गुणस्थाने कियत्यः प्रकृतय उदीरणामाश्रित्य व्यवच्छिन्नाः ! इत्येतदतिदेशद्वारेणाह -
ear agदीरणा परमपमसाईसगगुणे ॥ २३ ॥
उदयवद् उदीरणा पूर्वोक्तशब्दार्था गुणस्थानेषु वक्तव्या । किमुक्तं भवति ? यावतीनां प्रकृतीनामुद स्वामी तावतीनामुदीरणास्वाम्यपीति । अतिप्रसङ्गनिवृत्त्यर्थमाह – “परमपम - ताईसगुणेति । 'पर' केवलमियान् विशेष::- अप्रमत्त आदौ येषां तेऽप्रमत्तादयः गुणाःगुणस्थानानि सप्त च ते गुणाश्च सप्तगुणाः, अप्रमत्तादयश्च ते सप्तगुणाश्च अप्रमत्तादिसप्तगुणास्तेष्वप्रमत्ता दिसप्तगुणेषु ॥ २३ ॥ किम् ? इत्याह
एसा पयडितिगुणा, वेयणियाऽऽहारजुगल धीणतिगं । मणुयाउ पमत्तंता, अजोगि अणुदीरगो भगवं ॥ २४ ॥ ॥ उदीरणा सम्मत्ता ॥
1
'एषा' उदीरणा प्रकृतित्रिकेण ऊना-हीना वक्तव्या । इयमत्र भावना - — मिध्यादृष्टेः सप्तदशोत्तरशतस्योदयः, उदीरणाऽप्येवम् । साखादनस्य एकादशशतस्योदयस्तथैवोदीरणाऽपि । मिश्रस्योदयः शतस्य, उदीरणाऽपि । अविरतसम्यग्दृष्टेरुदयश्वतुरुत्तरशतस्य तथैवोदीरणा । देशविरतस्य सप्ताशीतेरुदयः, उदीरणाऽपि । प्रमत्तस्यैकाशीतेरुदयः, उदीरणाऽपि च । अप्रमत्ते उदयः षट्सप्ततेः, उदीरणा त्रिसप्ततेः १ । अपूर्वकरणे उदयो द्विसप्ततेः उदीरणा एकोनसप्ततेः २ । अनिवृत्तिबादरे उदयः षट्षष्टेः उदीरणा त्रिषष्टेः ३ । सूक्ष्मसम्पराये उदयः षष्टेः, उदीरणा सप्तपञ्चाशतः ४ । उपशान्तमोहे उदय एकोनषष्टेः, उदीरणा षट्पञ्चाशतः ५ । क्षीणमोहे उदयः सप्तपञ्चाशतः, उदीरणा चतुष्पश्चाशतः ६ । सयोगिकेवलिन्युदयो द्विचत्वारिंशतः, उदीरणा एकोनचत्वारिंशत ७ इति । ननु केन प्रकृतित्रिकेणाऽप्रमत्तादिषूदीरणा ऊना ! इत्याशङ्कयाह – “वेयणियाहारजुगल" ति, युगलशब्दस्य प्रत्येकं योजनाद् वेदनीययुगलं - - सातवेदनीयाऽसात वेदनीयरूपम्, आहारकयुगलम् - आहार कशरीराहारकाङ्गोपाङ्गलक्षणम्, "थीणतिगं" ति 'स्त्यानर्द्धित्रिकं' निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिरूपं, मनुष्यायुः इत्येतासामष्टानां