________________
१९-२२] कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।
तित्थुदया उरलाऽथिरखगइदुग परित्ततिग छ संठाणा ।
अगुरुलहुवन्नचउ निमिणतेयकम्माइसंघयणं ॥ २१॥ ननु पञ्चपञ्चाशतो ज्ञानावरणपञ्चकाऽन्तरायपञ्चकदर्शनचतुष्कलक्षणप्रकृतिचतुर्दशकापनयन एकचत्वारिंशदेव भवति, ततः कथमुक्तं सयोगिनि द्विचत्वारिंशद्? इत्याह--"तित्थुदय" ति 'तीर्थोदयात्' तीर्थकरनामोदयादित्यर्थः । यतः सयोग्यादौ तीर्थकरनामोदयो भवति, यदुक्तम्
उदए जस्स सुरासुरनरवानिवहेहिँ पूहओ होइ।
तं तित्थयरन्नामं, तस्स विवागो हु केवलिणो ॥ (बृ० क० वि० गा० १४९) ततः पूर्वोक्तकचत्वारिंशति तीर्थकरनाम क्षिप्यते जाता द्विचत्वारिंशत् , सा च सयोगिनि भवतीति। "उरलाऽथिरखगइदुग" त्ति द्विकशब्दस्य प्रत्येकं योगाद् औदारिकद्विकम्-औदारिकशरीरौदारिकाङ्गोपाङ्गलक्षणम् अस्थिरद्विकम्-अस्थिराऽशुभाख्यं खगतिद्विकं-शुभविहायोगत्यशुभविहायोगतिरूपम् “परिततिग" ति प्रत्येकत्रिकम्-प्रत्येकस्थिरशुभाख्यम् "छ संठाण" ति षट्संस्थानानि-समचतुरस्रन्यग्रोधपरिमण्डलसादिवामनकुन्जहुण्डखरूपाणि संस्थानशब्दस्य च पुंस्त्वं प्राकृतलक्षणवशात् , यदाह पाणिनिः खप्राकृतलक्षणे-"लिंगं व्यभिचार्यपि" । "अगुरुलहुवन्नचउ' त्ति चतुःशब्दस्य प्रत्येकं सम्बन्धाद् अगुरुलघुचतुष्कम्-अगुरुलघूपघातपराघातोच्छ्रासाख्यं वर्णचतुष्क-वर्णगन्धरसम्पर्शरूपम् "निमिण" ति निर्माणं "तेय" ति तैजसशरीरं "कम्म" ति कार्मणशरीरं "आइसंघयण" ति प्रथमसंहननं वज्रर्षभनाराचसंहननमित्यर्थः ॥ २१ ॥
दुसर सुसर सायासाएगयरं च तीस वुच्छेओ। पारस अजोगि सुभगाइज्जजसन्नयरवेयणियं ॥ २२ ॥ तसतिग पणिदि मणुयाउगइ जिणुचं ति चरमसमयंता।
॥ उदओ सम्मत्तो॥ दुःखरं सुखरं सातं च-सुखम् असातं च-दुःखं सातासाते तयोरेकतरम्-अन्यतरत् सात वाऽसातं वेत्यर्थः, तैदेतासां त्रिंशतः प्रकृतीनां सयोगिकेवलिन्युदयव्यवच्छदः। तत्रैकतरवेदनीय यदयोगिकेवलिनि न वेदयितव्यं तत् सयोगिकेवलिचरमसमये व्युच्छिन्नोदयं भवति, पुनरुचरत्रोदयाभावात् । दुःखरसुखरनाम्नोस्तु भाषापुद्गलविपाकित्वाद् वाग्योगिनामेवोदयः, शेषाणां पुनः शरीरपुद्गलविपाकित्वात् काययोगिनामेव । तेन हि योगेन पुद्गलग्रहणपरिणामालम्बनानि, ततस्तेषु गृहीतेष्वेतेषां कर्मणां स्वखविपाकेनोदयो भवति, तेनाऽयोगिकेवलिनि तद्योगाभावात् तदुदयाभाव इति एतास्त्रिंशत् प्रकृतयः पूर्वोक्तद्विचत्वारिंशतोऽपनीयन्ते, ततः शेषा द्वादश प्रकृतयोऽयोगिकेवलिन्युदयमाश्रित्य भवन्तीति । एतदेवाह-~"बारस अजोगि" इत्यादि । द्वादश प्रकृतयोऽयोगिकेवलिनि 'चरमसमयान्ताः' चरमसमयेऽयोगिकेवलिगुणस्थान
१ उदये यस्य सुरासुरनरपतिनिवहैः पूजितो भवति । तत् तीर्थकरनाम तस्य विपाको हि केवलिनः । २ तत एता ख० कु०॥
क. १२