________________
देवेन्द्रसूरिविरचितखोपाटीकोपेतः
[गाथा दये तु श्रेणिमारोढुमेव न शक्यते तथाविधशुद्धेरभावाद् इत्युत्तरेषु तदुदयाभावः । "हासाइछक्कअंतु" ति हास्यमादौ यस्य षटकस्य तद् हास्यादिषट्कं-हास्यरत्यरतिशोकमयजुगुप्साख्यं तस्मान्तोऽपूर्वकरणे भवति, संक्लिष्टतरपरिणामत्वाद् एतस्य, उत्तरेषां च विशुद्धतरपरिणामत्वात् तेषु तदुदयाभाव इति । उत्तरेष्वप्ययमुदयव्यवच्छेदहेतुरनुसरणीयः । तत इदं प्रकृति. षट्कं पूर्वोक्तद्विसप्ततेरपनीयते शेषा “छसट्ठि अनियट्टि" ति षट्षष्टिरनिवृत्तिबादरे भवति, उदयमाश्रित्येति शेषः । “वेयतिगं" ति वेदत्रिकं-स्त्रीवेदपुंवेदनपुंसकवेदाख्यम् ॥ १८ ॥
संजलणतिगं छच्छेओ सहि सुहुमम्मि तुरियलोभंतो।
उवसंतगुणे गुणसहि रिसहनारायदुगअंतो॥ १९॥ 'संज्वलनत्रिक' संज्वलनक्रोधमानमायारूपमित्येतासां षण्णां प्रकृतीनामनिवृत्तिबादरे छेदो भवति । तत्र स्त्रियाः श्रेणिमारोहन्त्याः स्त्रीवेदस्य प्रथममुदयच्छेदः ततः क्रमेण पुंवेदस्य नपुंसकवेदस्य संज्वलनत्रयस्य चेति, पुंसस्तु श्रेणिमारोहतः प्रथमं पुंवेदस्योदयच्छेदस्ततः क्रमेण स्त्रीवेदस्य षण्ढवेदस्य संज्वलनत्रयस्य चेति, षण्ढस्य तु श्रेणिमारोहतः प्रथमं षण्ढवेदस्योदयच्छेदस्ततः स्त्रीवेदस्य पुंवेदस्य संज्वलनत्रयस्य चेति । एतत्प्रकृतिषट्कं पूर्वोक्तषषष्टेरपनीयते, शेषा "सहि सुहुमम्मि" ति षष्टिः सूक्ष्मसंपराये उदये भवति । अत्र च 'तुर्यलोमान्तः' चतुर्थलोमान्तः संज्वलनलोभव्यवच्छेद इत्यर्थः । तत इयमेका प्रकृतिः षष्टेरपनीयते शेषा 'उपशान्तगुणे' उपशान्तमोहगुणस्थाने एकोनषष्टिरुदये भवति । "रिसहनारायदुगअंतु" ति ऋषभनाराचद्विकम्-ऋषभनाराचसंहनननाराचसंहननाल्यं तस्यान्त उपशान्तगुणे भवति, प्रथमसंहननेनैव क्षपकश्रेण्यारोहणात् क्षीणमोहादौ तदुदयाभावः । उपशमश्रेणिस्तु प्रथमसंहननत्रयेणारुखते, तत इदं प्रकृतिद्वयं पूर्वोक्तैकोनषष्टेरपनीयते शेषा ॥ १९ ॥
सगवन्न खीण दुचरमि, निद्ददुगंतो य चरमि पणपन्ना।
नाणंतरायदंसणचउ छेओ सजोगि बायाला ॥२०॥ सप्तपञ्चाशत् “खीण" ति क्षीणमोहस्य "दुचरिमि" ति द्विचरमसमये-चरमसमयादग् द्वितीये समये निद्राद्विकस्य-निद्रामचलाख्यस्य क्षीणद्विचरमसमयेऽन्त इत्येतत् प्रकृतिद्वयं पूर्वोक्तसप्तपञ्चाशतोऽपनीयते ततः "चरमि" ति चरमसमये क्षीणमोहस्येति शेषः, "पणपन्न" ति पञ्चपञ्चाशद् उदये भवति । इदमुक्तं भवति-निद्राप्रचलयोः क्षीणमोहस्य द्विचरमसमये उदयच्छेदः । अपरे पुनराहुः-उपशान्तमोहे निद्राप्रचलयोरुदयच्छेदः, पञ्चानामपि निद्राणां घोलनापरिणामे भवत्युदयः, क्षपकाणां त्वतिविशुद्धत्वाद् न निद्रोदयसम्भवः, उपशमकानां पुनरनतिविशुद्धत्वात् स्यादपीति । "नाणंतरायदंसणचउ" ति ज्ञानावरणपञ्चक-मतिश्रुतावधिमनःपर्यायकेवलज्ञानावरणरूपम् अन्तरायपञ्चकं-दानलाभभोगोपभोगवीर्यान्तरायाख्यं दर्श नचतुष्कं-चक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षणमित्येतासां क्षीणमोहचरमसमये छेदो भवति, तदनन्तरं क्षीणमोहत्वाद् इत्येतत्प्रकृतिचतुर्दशकं पूर्वोक्तपञ्चपञ्चाशतोऽपनीयते, शेषेकचत्वारिंशत् तीर्थकरनामोदयाच्च तत्प्रक्षेपे द्वाचत्वारिंशत् सयोगिकेवलिनि भवतीति । एतदेवाह"सजोगि बायाल" ति स्पष्टम् ।। २० ॥