________________
१६-१८) कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः । निकषाया मयूरव्यंसकादित्वात् पूरणप्रत्ययलोपी समासः, प्रत्याख्यानावरणाश्चत्वारः क्रोधमानमायालोमाः ॥ १६॥
अच्छेओ इगसी, पमत्ति आहारजुगलपक्खेवा ।
थीणतिगाहारगदुगछेओ छस्सयरि अपमत्ते ॥ १७॥ पूर्वोक्ताष्टप्रकृतीनां देशविरते उदयमाश्रित्य च्छेदो भवति, ततः प्रमत्ते एकाशीतिभवति, आहारकयुगलप्रक्षेपात् । इदमत्र हृदयम्-तिर्यग्गतितिर्यगायुषी तिर्यग्वेधे एब, तेषु च देशविरतान्तान्येव गुणस्थानानि घटन्ते नोत्तराणीत्युत्तरेषु तदुदयाभावः; नीचैर्गोत्रं तु तिर्यग्गतिखामाव्याद् ध्रुवोदयिकं न परावर्तते, ततश्च देशविरतस्यापि तिरश्चो नीचेर्गोत्रोदयोऽस्त्येव, मनुजेषु पुनः सर्वस्य देशविरतादेर्गुणिनो गुणप्रत्ययाद् उच्चैर्गोत्रमेवोदेतीत्युतरत्र नीचैर्गोत्रोदयाभावः; उद्योतनाम स्वभावतस्तिर्यग्वेद्यम् , तेषु च देशविरतान्तान्येव गुणस्थानानि नोत्तराणीत्युत्तरेषु तदुदयाभावः, यद्यपि यतिवैक्रियेऽप्युद्योतनामोदेति "उत्तरदेहे च देवजई" इति वचनात् तथापि खल्पत्वादिना केनापि कारणेन पूर्वाचायैर्न विवक्षितमित्यसाभिरपि न विवक्षितम् ; तृतीयकषायोदये हि चारित्रलाम एव न भवति, उक्तं च पूज्यैः
तेइयकसायाणुदए, पञ्चक्खाणावरणनामधिजाणं ।
देसिक्कदेसविरई, चरित्तलंमं न उ लहंति ॥ (आ० नि० गा० ११०) न च पूर्वपतिपन्नचारित्रस्य तदुदयसम्भव इत्युत्तरेषु तदुदयाभाव इत्येता अष्टौ प्रकृतयः पूर्वोकसप्ताशीतेरपनीयन्ते शेषा एकोनाशीतिः, तत आहारकयुगलं क्षिप्यते, यतः प्रमत्तयतेराहारकयुगलस्योदयो भवतीत्येकाशीतिः । “थीणतिग" ति स्त्यानिित्रकं-निद्रानिद्रामचलापचलास्त्यानर्द्धिरूपम् आहारकद्विकम्-आहारकशरीराहारकाङ्गोपाङ्गलक्षणमिति प्रकृतिपञ्चकस प्रमत्ते छेदो भवति, ततः पूर्वोक्तैकाशीतेरिदं प्रकृतिपञ्चकमपनीयते शेषा षट्सप्ततिरपमत्ते उदये भवति । अयमत्राशयः-स्त्यानर्द्धित्रिकोदयः प्रमादरूपत्वाद् अप्रमत्ते न सम्भवति, आहारकद्विकं च विकुर्वाणो यतिरौत्सुक्याद् अवश्यं प्रमादवशगो भवत्यत इदमप्यप्रमत्ते उदयमाश्रित्य न जाघटीति, यत्पुनरिदमन्यत्र श्रूयते-प्रमत्तयतिराहारकं विकृत्य पश्चाद् विशुद्धिवशात् तत्रस एवाप्रमत्ततां यातीति तत् केनापि स्वल्पत्वादिना कारणेन पूर्वाचार्येर्न विवक्षितमित्यमाभिरपि न विवक्षितमिति ॥ १७ ॥
सम्मत्तंतिमसंघयणतिगच्छेओ विसत्तरि अपुव्वे ।
हासाइछक्कतो, छसहि अनियहि वेयतिगं ॥ १८॥ सम्यक्त्वम् अन्तिमसंहननत्रिकम्-अर्धनाराचसंहननकीलिकासंहननसेवार्तसंहननरूपमिस्येतत्प्रकृतिचतुष्टयस्याप्रमत्ते छेदो भवति, तत इदं प्रकृतिचतुष्कं पूर्वोक्तषट्सप्ततेरपनीयते शेषा द्वासप्ततिः "अपुछि" ति अपूर्वकरणे उदये भवतीति । अयमत्राशयः-सम्यक्त्वे क्षपिते उपशमिते वा श्रेणिद्वयमारुह्यत इत्यपूर्वकरणादौ तदुदयाभावः, अन्तिमसंहननत्रयो
१ उत्तरदेहे च देवयती ॥ २ तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशकदेशविरति चारित्रलाभं न तु लभन्ते ॥