________________
देवेन्द्रसूरिविरचितखोपाटीकोपेतः
[गाया मीसो कुणइ कालं" इति वचनात् ; मिश्रप्रकृतिः पुनरत्रोदये प्राप्यते, ततः साखादनव्या बच्छिन्न प्रकृतिनवकमानुपूर्वीत्रिकं च पूर्वोकैकादशशताद् अपनीयते शेषा तिष्ठति प्रकृतीनां नवनवतिः, तत्र मिश्रप्रकृतिप्रक्षेपे जातं शतमिति । “मीसंतु" ति मिश्रगुणसाने मिमप्रकृतेरन्तो भवति, एतदुदये हि मिश्रष्टिरेव भवति नान्य इति । "चउसयमजए सम्माणुपुविखेव" ति चतुर्मिरधिकं शतं चतुःशतमुदये भवति, क! इत्याह-'अयते' अविरतसम्यादृष्टी, कथम् ! इत्याह--"सम्म" ति सम्यक्त्वं "अणुपुषि" ति आनुपूर्व्यश्चतसस्तासां क्षेपात्-प्रक्षेपात् । इदमुक्तं भवति--पूर्वोक्तशताद् मिश्रगुणस्थानव्यवच्छिन्नैका मिश्रप्रकृतिरपनीयते, शेषा नवनवतिः, तत्र सम्यक्त्वानुपूर्वीचतुष्कलक्षणं प्रकृतिपञ्चकं क्षिप्यते जातं चतुःशतम्, यतः सम्यक्त्वमत्र गुणे उदयत एव, तथाऽविरतसम्यग्दृशां यथाखं चतस्रोऽ. प्यानुपूर्व्य इति । "बियकसाय" ति द्वितीयकषायाः-अपत्याख्यानावरणाश्चत्वारः क्रोष. मानमायालोमाः ॥१५॥
मणुतिरिणुपुव्वि विउवष्ट दुहग अणइजदुग सतरछेओ।
सगसीह देसि तिरिगइआउ निउज्जोय तिकसाया ॥१६॥ "मणुतिरिणुपुषि" ति आनुपूर्वीशब्दस्य प्रत्येकं योजनाद् मनुजानुपूर्वी तिर्यगानुपूर्वी "विउवऽg" ति वैकियाष्टकं वैक्रियशरीरवैक्रियानोपानदेवगतिदेवानुपूर्वीदेवायुर्नरकगतिनरकानुपूर्वीनरकायुर्लक्षणं दुर्भगम् अनादेयद्विकम्-अनादेयाऽयशःकीर्तिरूपम् इत्येतासां सप्तदशप्रकृतीनामविरतसम्यग्दृष्टावुदयं प्रतीत्य च्छेदो भवति । तत इमाः सप्तदश प्रकृतयः पूर्वोक्तचतुःशताद् अपनीयन्ते शेषा "सगसीह देसि" ति सप्ताशीतिः "देसि" ति देशविरते उदये भवति । इदमत्र तात्पर्यम्-द्वितीयकषायोदये हि देश विराम आगमे निषिद्धः; यदागमः
बीयकसायाणुदए, अप्पचक्खाणनामधिजाणं ।
सम्मइंसणलंभ, विरयाविरयं न उ लहंति ॥ (आ० नि० गा० १०९) नापि पूर्वपतिपनदेशविरत्यादेर्जीवस्य तदुदयसम्भवस्तेनोत्तरेषु तदुदयाभावः; मनुजानुपूर्वीतिर्यगानुपूयोस्तु परभवादिसमयेषु त्रिष्वपान्तरालगतावुदयसम्भवः, स च यथायोगं मनुजतिरश्चां वर्षाष्टकाद् उपरिष्टात् सम्भविषु देशविरत्यादिगुणस्थानेषु न सम्भवति देवत्रिक नारकत्रिकं च देवनारकवेद्यमेव, न च तेषु देश विरत्यादेः सम्भवः, वैक्रियशरीरवैकि. यानोपाननाम्नोस्तु देवनारकेषूदयः, तिर्यग्मनुष्येषु तु प्राचुर्येणाऽविरतसम्यग्दृष्यन्तेषु; यस्तू. तरगुणस्थानेष्वपि केषाच्चिदागमे विष्णुकुमारस्थूलमद्रादीनां वैक्रियद्विकस्योदयः श्रूयते स प्रविरलतरत्वादिना केनापि कारणेन पूर्वाचार्येन विवक्षितं इत्यस्माभिरपि न विवक्षित इति; दुर्भगमनादेयद्विकमित्येतास्तु तिसः प्रकृतयो देशविरत्यादिषु गुणप्रत्ययाद नोदयन्त इत्येता अविरते व्यवच्छिन्ना इति । "तिरिगइआउ" ति तिर्यक्शब्दस्य प्रत्येक योगात् तिर्यग्गतिस्तिर्यगायुः "निउज्जोय" ति नीचेगोत्रमुद्योतं च "तिकसाय" ति तृतीयाः कषाया
द्वितीयकषायाणामुदये अप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतं न तु लभन्ते । २°त इति । दुर्भक० घ० ज०॥